स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७८

॥ सूत उवाच ॥ ॥
ये चान्ये भास्करा स्तत्र संति ब्राह्मणसत्तमाः ॥
हाटकेश्वरजे क्षेत्रे याज्ञवल्क्यप्रतिष्ठिताः ॥ १ ॥
यस्तान्पूजयते भक्त्या हृदि कृत्वाऽभिवांछितान् ॥
सप्तम्यां चैव सप्तम्यां लभते नात्र संशयः ॥ २ ॥
॥ ऋषय उचुः ॥ ॥
एक एव स्थितः सूर्यो दृश्यते च नभस्तले ॥
तत्कथं द्वादशैते च तत्र क्षेत्रे प्रतिष्ठिताः ॥
कस्मिन्काले तथा कृत्ये किमर्थं सूतनन्दन ॥ ३ ॥
॥ सूत उवाच ॥ ॥
आसीत्पूर्वं कृतिर्नाम शुनःशेपसमुद्भवः ॥ ॥ ४ ॥
तस्य पुत्रः शुनः पुत्रो बभूव मुनिसत्तमः ॥
चारायणः सुतस्तस्य वभूव मुनिसत्तमः ॥ ५ ॥
कस्यचित्त्वथ कालस्य ब्रह्मा लोक पितामहः ॥
सावित्रीशापनिर्दग्धो ह्यवतीर्णो धरातले ॥ ६ ॥
गायत्री च यदा विप्रास्तेनोढा यज्ञकर्मणि ॥
प्राक्स्थितां च परित्यज्य सर्वदेवसमागमे ॥
कालात्ययो भवेन्नैव सावित्र्यागमने स्थिरे ॥ ७ ॥
ततस्तस्य समादेशाद्गायत्री गोपकन्यका ॥
शक्रेण च समानीता दिव्यलक्षणलक्षिता ॥ ८ ॥
गोपकन्यां च तां ज्ञात्वा गोश्च वक्त्रेण पद्मजः ॥
प्रवेश्याकर्षयामास गुह्येन च ततः परम् ॥ ९ ॥
ब्राह्मणानां गवां चैव कुलमेकं द्विधा स्थितम् ॥
एकत्र मन्त्रास्तिष्ठंति हविरेकत्र संस्थितम् ॥ ६.२७८.१० ॥
तेन तां ब्राह्मणीं कृत्वा पश्चात्तस्याः परिग्रहम् ॥
गृह्योक्तविधिना चक्रे पुरःस्थोऽपि पितामहः ॥११॥
पत्नीशालोपविष्टायां ततस्तस्यां द्विजोत्तमाः ॥
सावित्री समनुप्राप्ता देवपत्नीभिरावृता ॥ १२ ॥
ततस्तां सा समालोक्य रशनासमलंकृताम् ॥
दौर्भाग्यदुःखमापन्ना शशाप च विधिं ततः ॥ १३ ॥
॥ सावित्र्युवाच ॥ ॥
यस्मात्त्वया परित्यक्ता निर्दोषाहं पितामह ॥
पितामहोऽसि मे नूनमद्यप्रभृति संगमे ॥ १४ ॥
मनुष्याणां भवेत्कृत्यमन्यनारीपरिग्रहः ॥
एतत्त्वया कृतं यस्मान्मा नुषस्त्वं भविष्यसि ॥ १५ ॥
कामार्तश्च विशेषेण मम वाक्यादसंशयम्॥ १६ ॥
एवमुक्त्वा तु सावित्री त्यक्त्वा तं यज्ञमंडपम् ॥
गिरेः शिखरमारूढा तपश्चक्रे महत्ततः ॥ १७ ॥
पितामहोऽपि तच्छापाच्चारायणनिवेशने ।
अवतीर्णो धरापृष्ठे कालेन महता ततः ॥ १८ ॥
स यदा यौवनं भेजे मानुषं च पुरा स्थितः ।।
तथातथा च तापेन कामोत्थेन प्रपीड्यते ॥ १९ ।
ततोऽसौ वीक्षते नारीं कन्यां वाथ तपस्विनीम् ॥
अविकल्पमना भेजे रूपसौभाग्यगर्वितः ॥ ६.२७८.२० ॥
ततस्तं ब्यसनार्तं च दृष्ट्वा चारायणो मुनिः ॥
स्वयं निःसारयामास प्रकोपेन निजाश्रमात् ॥ २१ ॥
स च पित्रा परित्यक्तो भ्रममाणस्ततस्ततः ॥
चमत्कारपुरं प्राप्तः शाकल्यो यत्र तिष्ठति ॥ २२ ॥
नाम्ना ब्राह्मणशार्दूलो नागरो वेदपारगः ॥
वृतः शिष्य सहस्रेण वेदविद्यां प्रचारयन्॥ २३ ॥
अथ तं स प्रणम्योच्चैः शिष्यत्वं समुपागतः ॥
वेदाध्ययनसंपन्नो बभूवाथ चिरादपि ॥ २४ ॥
एतस्मिन्नेव काले नु आनर्ताधिपतिः स्वयम् ॥
आगतस्तिष्ठते यत्र जलशायी हरिः स्वयम् ॥ २५ ॥
चातुर्मास्यव्रतं तेन गृहीतं तत्पुरस्तदा ॥
प्रार्थितस्तु ततो विप्राः शाकल्यस्तैन भूभुजा ॥ २६ ॥
शांतिकं पौष्टिकं नित्यं त्वया कार्यं ममालये ॥
यावत्तिष्ठाम्यहं चात्र प्रसादः क्रियतामिति ॥ २७ ॥
बाढमित्येव स प्रोक्त्वा दाक्षिण्येन द्विजोत्तमाः ॥
एकैकं प्रेषयामास स्वशिष्यं तस्य मंदिरे ॥ २८ ॥
स शांतिकं विधायाथ दत्त्वाशीः पार्थिवस्य च ॥
संप्राप्य दक्षिणां तस्मात्पुनरेति च तं द्विजम् ॥ २९॥
शाकल्याय च तां दत्त्वा दक्षिणां निजमंदिरे ॥
जगाम नित्यमेवं हि व्यवहारो व्यवस्थितः ॥ ६.२७८.३० ॥
अन्यस्मिन्नहनि प्राप्ते शाकल्येन विसर्जितः ॥
शांत्यर्थं याज्ञवल्क्यस्तु पार्थिवस्यनिवेशनम् ॥ ३१ ॥
तस्य भूपस्य रूपाढया मंथरास्ति विलासिनी ॥
रात्रौ च कामिता तेन कामाढयेन सुकामिनी ॥ ३२ ॥
भावैर्वात्स्यायनप्रोक्तैः समालिंगनपूर्वकैः ॥
स तया विविधैः कृत्तो मयूरपदकादिभिः ॥
शरीरे चाधरे चैव तथा मणिप्रवालकैः ॥ ३३ ॥
संप्राप्तोऽध्ययनार्थाय यावच्छाकल्यसन्निधौ ॥
तावत्संप्रेषितस्तेन शांत्यर्थं भूपमंदिरे ॥ ३४ ॥
सोऽपि संप्रेषितस्तेन गत्वा तं पार्थिवालयम् ॥
शांतिकं च ततश्चक्रे यथोक्तविधिना द्विजाः ॥ ३५ ॥
शांतिकस्यावसाने तु प्रगृह्य कलशोदकम् ॥
पंचांगैः कल्पितं रुद्रैः स्वयमेवाभिमंत्रितैः ॥ ३६ ॥
साक्षतं सुमनोयुक्तं समादाय गतस्ततः ॥
संतिष्ठते नृपो यत्र आनर्तो त्रतसंयुतः ॥ ३७ ॥
द्यामालेखीति मंत्रं स प्रोच्चार्य विधिपूर्वकम् ॥
छंदर्षिसहितं चैव यावत्क्षिपति मस्तके ॥
तावन्निरीक्षितस्तेन नखलेखाविकर्तितः ॥ ३८ ॥
खंडितेनाधरेणैव ततोऽभूद्दुर्मना नृपः ॥ ३९ ॥
विटप्रायं तु तं दृष्ट्वा मलिनांबरधारिणम्॥
तं प्रोवाच विहस्योच्चै देहि विप्राऽक्षताञ्जलम् ॥ ६.२७८.४० ॥
मंदुरायां स्थितं यच्च काष्ठमेतत्प्रदृश्यते ॥
याज्ञवल्क्यस्ततो दृष्ट्वा सकोपस्तमुपाद्रवत् ॥ ४१ ॥
क्षिप्त्वा तत्र जलं विप्राः साक्षतं गृहमागमत् ॥
अगृह्य दक्षिणां तस्य पार्थिवस्य यथास्थिताम् ॥ ४२ ॥
एतस्मिन्नंतरे तस्य धवकाष्ठस्य सर्वतः ॥
निष्क्रांता विविधाः शाखाः पल्लवैः समलंकृताः ॥ ४३ ॥
तद्दृष्ट्वा विस्मितः सोऽथ आनर्ताधिपतिर्नृपः ॥
पश्चात्तापं परं चक्रे धिङ्मयैवमनुष्ठितम् ॥ ४४ ॥
स नूनं विबुधः कोऽपि विप्ररूपेण संगतः ॥
येनेदृशः प्रभावोऽयं तस्य मंत्रस्य संस्थितः ॥ ४५ ॥
यद्यहं प्रतिगृह्णामि तस्य मन्त्रोदितं जलम् ॥
जरामरणहीनस्तु तद्भवाभि न संशयः ॥ ४६ ॥
एवं चिंतयतस्तस्य तद्दिनं विस्मितस्य च ॥
पार्थिवस्य द्विजश्रेष्ठा जातं वर्षशतोपमम् ॥ ४७ ॥
दिवसे तु समाक्रांते कथंचित्तस्य भूपतेः [।
विभावरी क्षयं याति कथंचिन्नैव शारदी ॥ ४८ ॥
ततः प्रभातसमये समुत्थाय महीपतिः ॥
आह्वयामास शाकल्यं पुरुषैराप्तकारिभिः ॥४९॥
ततः प्रोवाच विनयात्सादरं प्रांजलिः स्थितः ॥
कल्ये शिष्यः समायातो यस्त्वदीयो ममांतिकम् ॥ ६.२७८.५० ॥
शांत्यर्थं प्रेषणीयस्तु सोऽद्यापि च द्विजोत्तम ॥
तस्योपरि परा भक्तिर्मम जाताऽद्य केवलम् ॥ ५१ ॥
स तथेति प्रतिज्ञाय गत्वाऽथ निजमन्दिरम् ॥
प्रोवाच याज्ञवल्क्यं च शांत्यर्थं श्लक्ष्णया गिरा ॥ ५८२ ॥
गच्छ वत्स त्वमद्यैव पार्थिवस्य निवेशनम् ॥
शांत्यर्थं तेन भूयोऽपि त्वमेवाशुनिमंत्रितः ॥ ५३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
नाहं यास्यामि तद्धर्म्ये शांत्यर्थं द्विजपुंगव ॥
अनादरेण दृष्टोऽहं नाशीर्मे च समाहृता ॥ ५४ ॥
काष्ठोपरि मया दत्ता तस्य वाक्यादसंशयम् ॥
तस्मात्प्रेषय चान्यं त्वं गुरो शिष्यं विचक्षणम् ॥
आनर्तं रंजयेद्यस्तु विवेकेन समन्वितम् ॥ ५५ ॥
॥ शाकल्य उवाच ॥ ॥
राजाऽऽदेशः सदा कार्यः पुरुषैर्देशवासिभिः ॥
योगक्षेमविधानाय तथा लाभाय केवलम् ॥५६ ॥
प्रतिकूलो भवेद्यस्तु पाथिवानां स मन्दधीः ॥
न तस्य जायते सौख्यं कथंचिद्द्विजसत्तम ॥ ५७ ॥
ये जात्यादि महोत्सेकान्न नरेंद्रानुपासते ॥
तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ ५८ ॥
एवं तयोर्विवदतोस्तदा वै गुरुशिष्ययोः ॥
भूयोऽपि तत्र संप्राप्ताः पुरुषाः पार्थिवेरिताः ॥ ५९ ॥
प्रोचुश्च त्वरया युक्ताः शाकल्यं प्रांजलिस्थिताः ॥
शिष्यं तं प्रेषय क्षिप्रं राजा मार्गं प्रतीक्षते ॥ ६.२७८.६० ॥
असकृत्प्रोच्यमानोऽपि यदा गच्छति नैव सः ॥
तदा संप्रेषयामास उद्दालकमथारुणिम् ॥ ६१ ॥
शिष्यं विनयसंपन्नं कृतांजलिपुटं स्थितम् ॥
गच्छ वत्स समादेशात्सांप्रतं नृपमंदिरम् ॥ ६२ ॥
शांतिकर्म विधायाथ स्वाध्यायं च ततः कुरु ॥ ६३ ॥
स तथेति प्रतिज्ञाय गत्वा तं पार्थिवालयम् ॥
चकार शांतिकं कर्म विधिदृष्टेन कर्मणा ॥ ६४ ॥
ततः कलशतोयं स साक्षतं सुमनोन्वितम् ॥
गृहीत्वोपाद्रवत्तत्र यत्र राजा व्यवस्थितः ॥ ॥ ६५ ॥
॥ राजोवाच ॥ ॥
स्वकीयमन्त्रलिंगेन अभिषेकं तु यच्छ भोः ॥
काष्ठस्यास्य यदग्रे ते प्रोत्थितं तिष्ठते द्विज ॥ ६६ ॥
ततस्तेन शुभं मंत्रं प्रोच्याभीष्टं जलं स्वयम् ॥
अभिषिच्य च तत्काष्ठं ततश्च स्वगृहं ययौ ॥ ६७ ॥
तावद्रूपं च तत्काष्ठं दृष्ट्वाऽऽनर्तो महीपतिः ॥
विषादसहितश्चैव पश्चात्तापसमन्वितः ॥ ६८ ॥
भूयस्तु प्रेषयामास याज्ञवल्क्यकृते तदा ॥
अन्यं दूतं विदग्धं च शाकल्यस्य द्विजाश्रयम्॥ ६९ ॥
वेदना कायसंस्था मे वर्तते द्विजसत्तम ॥
शांत्यर्थं प्रेषया क्षिप्रं तं शिष्यं पूर्वसंचितम् ॥ ६.२७८.७० ॥
अपमानं कृतं तस्य मया कल्ये द्विजोत्तम ॥
तेन मे सहसा व्याधिराशीर्वादमनिच्छतः ॥ ७१ ॥
तस्मात्प्रेषय मे शीघ्रं येन मे स्वस्थता भवेम् ॥
असकृत्प्रोच्यमानोऽपि यदा नैव स गच्छति ॥ ७२ ॥
याज्ञवल्क्यस्ततः शिष्यमन्यं प्रोवाच सादरम् ॥
ततस्तं मधुकं पैग्यं प्रेषयामास तद्गृहे ॥ ॥। ७३ ॥
तेनापि विहितं तच्च यथोद्दालकनिर्मितम् ॥
आशीर्वादो नृपोद्देशाद्दत्तः काष्ठस्य तस्य च ॥ ७४ ॥
तद्रूपमपि तत्काष्ठं दृष्ट्वा भूयोऽपि पार्थिवः ॥
अन्यं संप्रेषयामास याज्ञवल्क्यकृते नरम् ॥ ७९ ॥
असकृत्प्रोच्यमानोऽपि याज्ञवल्क्यो व्रजेन्न हि ॥
यदा तदा बहुगुणमन्यं शिष्यं प्रदिष्टवान्॥ ७६ ॥
प्रचूडं भागवित्तिं च सोऽपि गत्वा यथा पुरा ॥
चकार शांतिकं कर्म यथा ताभ्यां पुरा कृतम्॥ ७७ ॥
ततः शांत्युदकं तस्मिन्प्राक्षिपच्चैव दारुणि ॥
मंत्रवच्च तथाप्येव तद्रूपं च व्यवस्थितम् ॥ ७८ ॥
ततः स्वयं ययौ राजा शाकल्यस्य निवेशनम् ॥
याज्ञवल्क्यस्य मन्त्रार्थं पश्चात्तापसमन्वितः ॥ ७९ ॥
प्रणम्य स द्विजश्रेष्ठः शाकल्यं च द्विजोत्तमम्॥
शांत्यर्थं मम हर्म्ये त्वं कल्ये शिष्यं समादिश ॥
येन मे जायते शांतिः शरीरस्य द्विजोत्तम ॥ ६.२७८.८० ॥
ततः प्रोवाच शाकल्यो याज्ञवल्क्यं द्विजोत्तमाः ॥
भूयोऽपि शृण्वतस्तस्य आनर्तस्य महीपतेः ॥ ८१ ॥
याज्ञवल्क्य द्रुतं गच्छ ममादेशान्नृपालयम् ॥
राज्ञोस्य रोगनाशाय शांतिकं कुरु पुत्रक ॥ ॥ ८२ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
नाहं तत्र गमिष्यामि गुरो मैवं ब्रवीहि माम् ॥
अपमानः कृतोऽनेन गुरो मम महीभुजा ॥ ८३ ॥
तस्य तद्वचनं श्रुत्वा स कोपं परमं गतः ॥
अब्रवीद्भर्त्समानस्तु याज्ञवल्क्यं ततः परम् ॥ ८४ ॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥ ८५ ॥
यस्मात्त्वं शिष्यतां गत्वा मम वाक्यं करोषि न ॥
तस्मात्त्वां योजयिष्यामि ब्रह्म शापेन सांप्रतम् ॥ ८६ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
अन्यायेन हि चेच्छापं गुरो मम प्रदास्यसि ॥
अहमप्येव दास्यामि प्रतिशापं तवाधुना ॥ ८७ ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥
उत्पथे वर्तमानस्य परित्यागो विधीयते ॥ ८८ ॥
तस्मात्त्वं हि मया त्यक्तः सांप्रतं हि न मे गुरुः ॥
अविशषेण शिष्यार्थं यदादेशं प्रयच्छसि ॥ ८९ ॥
यावंतस्ते स्थिताः शिष्यास्तावद्भिर्दिवसैरहम् ॥
तवादेशं करिष्यामि नोचेद्यास्यामि दूरतः ॥ ६.२७८.९० ॥
॥ शाकल्य उवाच ॥ ॥
यदि गच्छसि चान्यत्र तत्त्वं विद्यां परित्यज ॥
यां मया पाठितः पाप व्रज पश्चात्कुशिष्य भोः ॥ ९१ ॥
मयाभिमंत्रितं तोयं क्षुरिकामुण्डसंभवम् ॥
पिब तस्याः प्रभावेण शीघ्रमेव त्यजिष्यसि ॥
जठरान्मामकीं विद्यां त्वयाधीता पुरा तु या ॥९२ ॥
एवमुक्त्वा स चामंत्र्य मंत्रैराथर्वणैर्जलम् ॥
पानाय प्रददौ तस्मै वांत्यर्थं सद्विजोत्तमः ॥ ९३ ॥
याज्ञवल्क्योऽपि तत्पीत्वा जलं तेनाभिमंत्रितम् ॥
वांतिं कृत्वा सहान्नेन तद्विद्यां तां परित्यजत् ॥ ९४ ॥
ततो मूढत्वमापन्नो विश्वामित्रह्रदं शुभम् ॥
गत्वा स्नातो विधानेन शुचि र्भूत्वा समाहितः ॥ ९५ ॥
चकार मूर्तीस्ता भक्त्या रवेर्द्वादशसंख्यया ॥
प्रतिष्ठाप्य ततः सर्वाः पूजयामास भक्तितः ॥ ९६ ॥
धाता मित्रोऽर्यमा शक्रो वरुणः सांब एव च ॥
भगो विवस्वान्पूषा च सविता दशमस्तथा ॥
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥ ९७ ॥
एवं द्वादशधा सूर्यः स्थापितोऽत्र विपश्चिता ॥
आराधितस्ततो नित्यं गन्धपुष्पानुलेपनैः ॥ ९८ ॥
ततः कालेन महता गत्वा प्रत्यक्षतां रविः ॥
प्रोवाच सुन्दरं प्रीत्या वाक्यमेतन्मुनिं प्रति ॥ ९९ ॥
याज्ञवल्क्य प्रतुष्टोऽहं तव ब्राह्मणसत्तम ॥
इष्टं ददामि ते ब्रूहि यद्यत्संप्रति वांछितम् ॥ ६.२७८.१०० ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
वरं ददासि चेन्मह्यं वेदपाठे नियोजय ॥
मां विभो येन शिष्यत्वं तव गच्छामि सांप्रतम् ॥ १०१ [।
॥ आदित्य उवाच ॥ ॥
मया पर्यटनं कार्यं सदैव द्विजसत्तम ॥
मेरोः प्रदक्षिणार्थाय लोकालोककृते द्विज ॥ १०२ ॥
तत्कथं योजयामि त्वां वेदपाठेन स द्विज ॥ १०३ ॥
तस्मात्त्वं लघुतां गत्वा मम मुख्यहयस्य च ॥
श्रवणे तिष्ठ मद्वाक्यात्तेजसा चैव येन मे ॥ १०४ ॥
न दह्यसि महाभाग तत्र स्थोऽध्ययनं कुरु ॥
स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः ॥ १०५ ॥
कर्णेऽपठत्ततो वेदांश्चतुरोऽपि च तन्मुखात् ॥
अंगोपांगसमोपेतान्परिशिष्टसमन्वितान् ॥ १०६ ॥
ततः समाप्ते स प्राह प्रार्थयस्व विभो हि माम् ॥
प्रदास्यामि न सन्देहस्तवाद्य गुरुदक्षिणाम् ॥ १०७ ॥
॥ आदित्य उवाच ॥ ॥
यानि सूक्तानि ऋग्वेदे मदीयानि द्विजोत्तम ॥
सावनानि यजुर्वेदे सामानि च तृतीयके ॥ १०८ ॥
कल्पोक्तानि चतुर्थे च तानि सर्वाणि भूतले ॥
त्वया प्रचारणीयानि कृत्वा व्याख्यानमुत्तमम् ॥ १.९ ॥
ये द्विजास्तानि सर्वाणि कीर्तयिष्यंति मे पुरः ॥
ते सर्वे पाप निर्मुक्ताः प्रयास्यंति दिवालयम् ॥ ६.२७८.११० ॥
व्याख्यास्यंति पुनर्ये च मम भक्तिपरायणाः ॥
ते यास्यंति द्विजा मुक्तिं सत्यमेतन्मयोदितम् ॥ ॥ १११ ॥
॥ सूत उवाच ॥ ॥
एवं वेदान्पठित्वा स प्रदत्त्वा गुरुदक्षिणाम् ॥
सूर्यायाभ्यागतो भूयश्चमत्कारपुरं प्रति ॥ ११२ ॥
ततः शाकल्यमभ्येत्य गुरुस्त्वं प्राङ् मम स्थितः ॥
प्रार्थयस्व महाभाग दास्यामि गुरुदक्षिणाम् ॥ ११३ ॥
ज्येष्ठो भ्राता पिता चैव माता चैव गुरुस्तथा ॥
वैरुद्ध्येनापि वर्तंते यद्येते द्विजसतम ॥
तथापि पूजनीयाश्च पुरुषेण न संशयः ॥ ११४ ॥
सांगोपांगा मयाधीता वेदाश्चत्वार एव च ॥
अधीताश्चैव सर्वेषां तेषामर्थोऽवधारितः ॥ ११५ ॥
तत्त्वं वद महाभाग कां ते यच्छामि दक्षिणाम् ॥ ११६ ॥
॥ शाकल्य उवाच ॥ ॥
यानि वेदरहस्यानि सूर्येण कथितानि ते ॥ ११७ ॥
यैः स्यात्पापप्रणाशश्च व्याख्यातैः पठितैस्तथा ॥
तानि मे कीर्तय क्षिप्रमेषा मे गुरुदक्षिणा ११८ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
तदागच्छ मया सार्धं यत्र सूर्याः प्रतिष्ठिताः ॥
मया द्वादश तेषां च कीर्तयिष्यामि चात्रतः ॥११९॥
तच्छ्रुत्वा शिष्यसंयुक्तः शाकल्यस्तैश्च सद्द्विजैः ॥
शिष्यैस्तिष्ठन्ति ये तत्र स्थापितास्तेन भास्कराः ॥ ६.२७८.१२० ॥
ततस्तु कीर्तयामास व्याख्यानं तत्पुरः स्थितः ॥
वेदान्तानां च सर्वेषां यथोक्तं रविणा पुरा ॥ १२१ ॥
अवसाने च तेषां तु चतुश्चरणसंभवैः ॥
ब्राह्मणैर्याज्ञवल्क्यस्तु वेदान्तज्ञैः प्रतोषितः ॥ १२२ ॥
प्रोक्तस्तव प्रसादेन वेदांतज्ञा वयं स्थिताः ॥
श्रुताध्ययनसंपन्ना याचस्व गुरुदक्षिणाम् ॥ १२३ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
एतेषां भास्कराणां च मदीयानां पुरो द्विजाः ॥
कीर्तयिष्यंति ये विप्रास्तेषां युष्मत्प्रसादतः ॥
भूया स्वर्गगतिर्विप्रा एषा मे गुरु दक्षिणा ॥ १२४ ॥
ये पुनर्भक्तिसंयुक्ताः करिष्यंति विचारणम् ॥
तेषां तुर्यपदं यच्च जरामरणवर्जितम् ॥ १२५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
भविष्यति कलौ विप्रा दौस्थ्यभावसमन्विताः ॥
पठने नैव शक्ताश्च व्याख्यानस्य च का कथा ॥ १२६ ॥
तस्मात्सारस्वतं ब्रूहि वेदानां द्विजसत्तम ॥
अपि दौस्थ्यसमायुक्ता येन ते कीर्तयंति च ॥ १२७ ॥
॥ याज्ञवल्क्य उवाच ॥ ॥
रथं युञ्जंति सूक्तं यत्प्रथमं वित्तलक्षणम् ॥
त्रिष्टुभेति च यत्सूक्तं तथाद्यं ब्राह्मणोत्तमाः ॥ १२९३ ॥
चित्रं देवानामिति च तथान्यत्तस्य वल्लभम् ॥
हंसः शुचिषदित्युक्तं ततश्चापि प्रहर्षदम् ॥ १२९ ॥
पावमानं तथा सूक्तं ये पठिष्यंति बह्वृचः ॥
इत्येषामाद्यमेवं तु ते यास्यंति परां गतिम्॥ ६.२७८.१३० ॥
एकविंशतिसामानि आदित्येष्टानि यानि च ॥
सामगाः कीर्तयिष्यंति येऽत्रस्थाः शुचयः स्थिताः ॥ १३१ ॥
निश्चयं तु परं धृत्वा येऽपि स्तोष्यंति भास्करम् ॥
ततस्तेऽपि प्रयास्यंति निर्भिद्य रविमंडलम् ॥ १३२ ॥
क्षुरिकासंपुटं चैव सूर्यकल्पं तथैव च ॥
शांतिकल्पसमायुक्तं कीर्तयिष्यंति ये द्विजाः ॥ १३३ ॥
अथर्वपाठकास्तेऽपि प्रयास्यंति परां गतिम् ॥
मूर्खा अपि समागत्य संप्राप्ते सूर्यवासरे ॥ १३४ ॥
प्रणामं ये करिष्यंति श्रद्धया परया युताः ॥
सप्तरात्रकृतात्पापान्मुक्तिं प्राप्संति ते द्विजाः ॥ १३५ ॥
॥ सूत उवाच ॥ ॥
तथेति तैः प्रतिज्ञाते चतुश्चरणसंभवैः ॥
ब्राह्मणैर्याज्ञवल्क्यस्तु विज्ञातो येन केन तु ॥ ॥ १३६ ॥
विदेहेन ततः प्राप्तः श्रवणार्थं नराधिपः ॥
वेदांतानां च सर्वेषां रत्नाख्येन महीभुजा ॥ १३७ ॥
तेनापि च परिज्ञाय माहात्म्यं सूर्यसं भवम् ॥
ततः संस्थापितः सूर्यस्तस्मिन्स्थाने द्विजोत्तमाः ॥ १३८ ॥
तं चापि सूर्यवारेण यः प्रपश्यति मानवः ॥
सप्तरात्रकृतात्पापान्मुच्यते नात्र संशयः ॥ १३९ ॥
एतद्वः कथितं सर्वं माहात्म्यं सूर्यसंभवम् ॥
यः शृणोति नरो भक्त्या अश्वमेधफलं लभेत् ॥ ६.२७८.१४० ॥
संक्रांतौ यत्प्रदानेन सूर्ये वा श्रवणेन तु ॥
तत्फलं समवाप्नोति श्रुत्वा माहात्म्यमुतमम् ॥ १९१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये द्वादशार्कोत्पत्तिरत्नादित्योत्पत्तिमाहात्म्ये याज्ञवल्क्यवृत्तांतवर्णनं नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ।। २७८ ॥