स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः १७

॥ पुलस्त्य उवाच ॥ ॥
पंगु तीर्थं ततो गच्छेत्सर्वपातकनाशनम् ॥
यत्र पूर्वं तपस्तप्तं पंगुना ब्राह्मणेन च ॥ १ ॥
पंगुनामा द्विजः पूर्वं च्यवनस्यान्वयेऽभवत् ॥
अशक्तश्चलितुं भूमौ पंगुभावान्नृपोत्तम ॥ २ ॥
गृहकृत्यनियुक्तोऽसावेकदा बान्धवैर्नृप ॥
पंगुर्गंतुं न शक्तोऽसौ परं दुःखमवाप्तवान् ॥ ३ ॥
अथासौ तैः परित्यक्तो गत्वार्बुदमथाचलम् ॥
एकं सरः समासाद्य तपस्तेपे सुदारुणम् ॥ ४ ॥
लिंगं संस्थाप्य तत्रैव पूजयामास तं विभुम् ॥
गन्धपुष्पादिनैवेद्यैः सम्यक्छ्रद्धासमन्वितः ॥ ५ ॥
शिवभक्तिपरो जातो वायुभक्षो बभूव ह ॥
जपहोमरतो नित्यं पंगुनामा द्विजोत्तमः ॥ ६ ॥
ततस्तुष्टो महादेवो ब्राह्मणं नृपसत्तम ॥
पंगुं प्रति महाराज वाक्यमेतदुवाच ह ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
पंगो तुष्टो महादेवो वरं वरय सुव्रत ॥
तव दास्याम्यहं सर्वं यद्यपि स्यात्सुदुर्लभम् ॥ ८ ॥
॥ पंगुरुवाच ॥ ॥
नाम्ना मे ख्यातिमायातु तीर्थमेतत्सुरेश्वर ॥
पंगुभावोऽत्र मे यातु प्रसादात्तव शंकर ॥ ९ ॥
तवास्तु सततं चात्र सांनिध्यं सह भार्यया ॥
एवमुक्तः स तेनाथ विप्रं प्रति वचोब्रवीत् ॥ 7.3.17.१० ॥
॥ ईश्वर उवाच ॥ ॥
नाम्ना तव द्विजश्रेष्ठ तीर्थमेतद्भविष्यति ॥
ख्यातिं तपःप्रभावेन तीर्थं यास्यति सत्तम ॥ ११ ॥
चैत्रशुक्लचतुर्द्दश्यां सांनिध्यं मे भवेत्तथा ॥ १२ ॥ ॥
॥ पुलस्त्य उवाच ॥ ॥
स्नानमात्रेण विप्रोऽसौ दिव्यरूपमवाप ह ॥
तत्र तस्थौ महादेवो गौर्या सह महेश्वरः ॥ १३ ॥
तस्मिन्दिने नृपश्रेष्ठ स्नानं तत्र समाचरेत् ॥
स पंगुत्वाद्विनिर्मुक्तो दिव्यरूपमवाप्नुयात् ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पंगुतीर्थमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥