स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ३२
पुलस्त्य उवाच ॥ ॥
महाविनायकं गच्छेत्ततः पार्थिवसत्तम ॥
यस्मिन्दृष्टे नृणां सद्यो निर्विघ्नत्वं प्रजायते ॥ १ ॥ ॥
॥ ययातिरुवाच ॥ ॥
कथं महत्त्वमगमत्पूर्वं तत्र विनायकः ॥
कस्मिन्काले द्विजश्रेष्ठ सर्वं विस्तरतो वद ॥ २ ॥ ॥
पुलस्त्य उवाच ॥ ॥
पुरोद्वर्त्तनजं लेपं गृहीत्वा नृप पार्वती ॥
विनोदार्थं चकाराथ बालकं सुकुमारकम् ॥ ३ ॥
लेपाभावाच्छिरोहीनं शेषांगावयवं नृप ॥
यथोक्तं निर्मयित्वा तं स्कन्दं वाक्यमथाब्रवीत् ॥ ४ ॥
लेपमानय भद्रं ते शिरोऽर्थं स्कन्द सत्वरम् ॥
येनायं पुत्रको मे स्याद्भ्राता ते परदुर्जयः ॥ ५ ॥
ततो गौरीसमादेशाल्लेपालब्धौ नृपोत्तम ॥
मत्तं गजवरं दृष्ट्वा शिरस्तस्य समानयत् ॥ ६ ॥
तस्मिन्नियोजयामास गात्रे लेपसमुद्भवे ॥
महद्धीदं शिरो भावि पुत्र कस्मात्त्वयाऽऽहृतम् ॥ ७ ॥
ब्रुवंत्याश्चापि पार्वत्या मा मेति च मुहुर्मुहुः ॥
न्यस्ते शिरसि तद्गात्रे दैवयोगान्नराधिप ॥ ८ ॥
विशेषान्नायकत्वं च गात्रेभ्यः समजायत ॥
बालकप्रतिमं कान्तं सर्वलक्षणलक्षितम् ॥ ९ ॥
त्रिगंभीरं चतुर्हस्तं सप्तरक्तं महीपते ॥
षडुन्नतं पञ्चदीर्घं पश्चसूक्ष्मं सुसुन्दरम्॥ 7.3.32.१० ॥
त्रिविस्तीर्णं महाराज दृष्ट्वा गौरी सुविस्मिता ॥
सजीवं कारयामास स्वशक्त्या शक्तिरूपिणी ॥ ११ ॥
स सजीवः कृतो देव्या समुत्तस्थौ च तत्क्षणात् ॥
आदेशं याचयामास विनयानतकन्धरः ॥ १२ ॥
तं दृष्ट्वा चाद्भुताकारं प्रोक्त्वा पुत्रं मुहुर्मुहुः ॥
शंभोः सकाशमनयत्प्रहृष्टेनान्तरात्मना ॥ १३ ॥
ततोऽब्रवीत्सुतं देव ममैव गात्रलेपजम् ॥
देहि देव वरानित्थं महत्त्वं येन गच्छति ॥ १४ ॥
॥ श्रीभगवानुवाच ॥ ॥
शरीरस्थं शिरो मुख्यं यस्मात्पर्वतनन्दिनि ॥
महत्त्विदं शिरः प्रोक्तं त्वया स्कन्देन योजितम्॥ १५ ॥
विशेषान्नायकत्वं च गात्रे चास्य यतः स्थितम्॥
महाविनायको ह्येष तस्मान्नाम्ना भविष्यति ॥ १६॥
गणानां चैव सर्वेषामाधिपत्यं नगात्मजे ॥
अस्य दत्तं मया यस्माद्भविष्यति गणाधिपः ॥ १७ ॥
सर्वकार्येषु ये मर्त्याः पूर्वमेनं गणाधिपम् ॥
स्मरिष्यंति न वै तेषां कार्यहानिर्भविष्यति ॥ १८ ॥
ततोऽस्य प्रददौ स्कन्दः प्रक्रीडार्थं कुठारकम् ॥
तदेव चायुधं तस्य सुप्रियं हि सदाऽभवत् ॥ १९ ॥
ततो गौरी ददौ भोज्यपात्रं मोदकपूरितम् ॥
पुत्रस्नेहात्स तत्प्राप्य लास्यमेवं तदाऽकरोत् ॥ 7.3.32.२० ॥
तस्य भक्ष्यस्य गन्धेन निष्क्रान्तो मूषको बिलात् ॥
भक्षणाच्चामरो जातस्तस्य वाह्यो व्यजायत ॥ २१ ॥
॥ पुलस्त्य उवाच ॥ ॥
महाविनायको ह्येवं तत्र जातो मही पते ॥
तस्मिन्दृष्टे च यत्पुण्यं तत्त्वमेकमनाः शृणु ॥ २२ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि यत् ॥
करोति मानवो राजंस्तस्मात्पापात्प्रमुच्यते ॥ २३ ॥
माघमासे सिते पक्षे चतुर्थ्यां समुपोषितः ॥
यस्तं पश्यति वाग्ग्मी स सर्वज्ञश्च प्रजायते ॥
तस्याग्रे सुमहत्कुण्डं स्वच्छोदकपूरितम् ॥ २४ ॥
तत्र स्नात्वा नरो भक्त्या यः पश्यति विनायकम्॥
तस्यान्वयेऽपि सर्वज्ञा जायन्ते मानवा नृप ॥२५॥
गणानां त्वेति मंत्रेण कृत्वा वै त्रिः प्रदक्षिणम्॥
यस्तं पश्यति राजेन्द्र दुरितं न स पश्यति ॥ २६ ॥
तस्मात्सर्वप्रयत्नेन तं प्रपश्येद्विनायकम् ॥
य इच्छेत्सकलान्कामानिह लोके परत्र च ॥ २७ ॥
गृहस्थोऽपि च यो भक्त्या स्मरेत्कार्य उपस्थिते ॥
अविघ्नं तस्य तत्सर्वं संसिद्धिमुपगच्छति ॥ २८ ॥
प्रातरुत्थाय यो मर्त्यः स्मरेद्देवं विनायकम् ॥
तस्य तद्दिनजातानि सिद्धिं कृत्यानि यांति हि ॥ २९ ॥
विवाहे कलहे युद्धे प्रस्थाने कृषिकर्मणि ॥
प्रवेशे च स्मरेद्यस्तु भक्तिपूर्वं विनायकम् ॥
तस्य तद्वांछितं सर्वं प्रसादात्तस्य सिद्ध्यति ॥ 7.3.32.३० ॥
महाविनायकीं शांतिं यः करोति समाहितः ॥
न तं प्रेता ग्रहा रोगाः पीडयंति विनायकाः ॥३१॥
॥ ययातिरुवाच ॥ ॥
महावैनायिकीं शांतिं वद मे मुनिसत्तम ॥
के मंत्राः किं विधानं च परं कौतूहलं हि मे ॥ ३२ ॥
॥ पुलस्त्य उवाच ॥ ॥
शुक्लपक्षे शुभे वारे नक्षत्रे दोषवर्जिते ॥
श्रेष्ठचंद्रबले शांतिं गणेशस्य समाचरेत् ॥ ३३ ॥
पूर्वोत्तरे समे देशे कृत्वा वेदिं च मंडपम् ॥
मध्ये चाष्टदलं पद्मं गृह्यसूत्रं प्रयोजयेत् ॥३४॥
इन्द्रादिलोकपालांश्च दिक्षु सर्वासु भूपते ॥
गणेशपूर्विकाश्चापि मातरश्च विशेषतः ॥ ३५ ॥
गंधपुष्पोपहारैश्च यथोक्तैर्बलिविस्तरैः ॥
श्वेतवस्त्रयुगच्छन्नं कलशं जलपूरितम् ॥ ३६ ॥
तस्यैव पूर्वदिग्भागे सहिरण्यं फलान्वितम् ॥ ३७ ॥
गणानां त्वेति मंत्रेण सहस्रं चाष्टसंयुतम् ॥
जपेत्तत्र तथा चारून्पंचांगान्नृपसत्तम ॥ ३५ ॥
विनायकं समुद्दिश्य पुरः कुण्डे करात्मके ॥
चतुरस्रे योनियुते मेखलाभिर्विभूषिते ॥ ३९ ॥
मधुदूर्वाक्षतैहोमैर्ग्रहहोमादनंतरम् ॥
गणानां त्वेति मंत्रेण दशसाहस्रिकस्तथा ॥ 7.3.32.४० ॥
कार्यो वै पार्थिवश्रेष्ठ कार्यश्चोदङ्मुखैर्द्विजैः ॥
चतुर्भिश्चतुरै राजन्पीतवस्त्रानुलेपनैः ॥ ४१ ॥
पीतांबरधरैश्चैव धृतहेमांगुलीयकैः ॥
ततो होमावसाने तु यजमानं नृपोत्तम ॥ ४२ ॥
मृगचर्मोपरिस्थं च मंत्रैरेभिर्विधानतः ॥
स्नापयेत्प्राङ्मुखं शांतं शुक्लवस्त्रावगुंठितम् ॥ ४३ ॥
इमं मे गंगे यमुने पंचनद्यः सुपुष्करे ॥
श्रीसूक्तसहितं विष्णोः पावमानं वृषाकपिम् ॥ ४४ ॥
सम्यगुच्चार्य विघ्नानां ततो नाशं प्रपद्यते ॥
ग्रहाः सौम्यत्वमायांति भूता नश्यंति तत्क्षणात् ॥४५॥
आधयो व्याधयो रौद्रा दुष्टरोगा ज्वरादयः ॥
प्रणश्यंति द्रुतं सर्वे तथोत्पाताः सुदारुणाः ॥ ४६ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
विनायकस्य माहात्म्यं महत्त्वं शांतिकं तथा ॥४७॥
यश्च कीर्त्तयते सम्यक्चतुर्थ्यां सुसमाहितः ॥
शृणोति वा नृपश्रेष्ठ तस्याऽविघ्नं सदा भवेत् ॥ ४८ ॥
यंयं काममभिध्यायन्यजेच्चेदं समाहितः ॥
तत्तदाप्नोति नूनं च गणनाथप्रसादतः ॥ ४९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे विनायकमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ ॥