स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ३४
॥ पुलस्त्य उवाच ॥ ॥
कृष्णतीर्थं ततो गच्छेत्कृष्णस्य दयितं सदा ॥
यत्र सन्निहितो नित्यं स्वयं विष्णुर्महीपते ॥ ॥
॥ ययातिरुवाच ॥ ॥
कृष्णतीर्थं कथं तत्र जातं ब्राह्मणसत्तम ॥
कस्मिन्काले मुने ब्रूहि सर्वं विस्तरतो मम ॥ ॥॥ २ ॥
॥ पुलस्त्य उवाच ॥ ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे ॥
चंद्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ॥ ३ ॥
ततो युगसहस्रांते विबुद्धः कमलासनः ॥
एकाकी चिंतयामास कथं सृष्टिर्भवेदिति ॥ ४ ॥
भ्रमंश्चापि चतुर्वक्त्रो यावत्पश्यति दूरतः ॥
चतुर्भुजं विशालाक्षं पुरुषं पुरतः स्थितम् ॥ ५ ॥
तं चोवाच चतुर्वक्त्रः कस्त्वं केन विनिर्मितः ॥
किमर्थमिह संप्राप्तः सर्वं विस्तरतो वद ॥ ६ ॥
तमुवाचाथ गोविंदः प्रहसञ्छ्लक्ष्णया गिरा ॥ ७ ॥
अहमाद्यः पुमानेको मया सृष्टो भवानपि ॥
स्रष्टुमिच्छामि भूयोऽपि भूतग्रामं चतुर्विधम् ॥ ८॥
॥ पुलस्त्य उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा क्रुद्धो देवः पितामहः ॥
अब्रवीत्परुषं वाक्यं भर्त्सयंश्च पुनःपुनः ॥ ९ ॥
सृष्टस्त्वं हि मया मूढ प्रथमोऽहमसंशयम् ॥
त्वादृशानां सहस्राणि करिष्येऽहमसंशयम् ॥ 7.3.34.१० ॥
एवं विवदमानौ तौ मिथो राजन्महाद्युती ॥
स्पर्धया रोषताम्राक्षौ युयुधाते परस्परम्॥ ११ ॥
मुष्टिभिर्बाहुभिश्चैव नखैर्दंतैर्विकर्षणैः ॥
एवं वर्षसहस्रं तु तयोर्युद्धमवर्त्तत ॥ १२ ॥
ततो वर्षसहस्रांते तयोर्मध्ये नृपोत्तम ॥
प्रादुर्भूतं महालिंगं दिव्यं तेजोमयं शुभम् ॥ १३ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
युद्धाद्ब्रह्मन्निवर्तस्व त्वं च विष्णो ममाज्ञया ॥ १४ ॥
एतन्माहेश्वरं लिंगं योऽस्य चांते गमिष्यति ॥
स ज्येष्ठः स विभुः कर्त्ता युवयोर्नात्र संशयः ॥ १५ ॥
अधोभागं व्रजत्वेक एकश्चोर्द्ध्वं ममाज्ञया ॥
तच्छ्रुत्वा सत्वरो ब्रह्मा व्योममार्गं समाश्रितः ॥ १६ ॥
विदार्य वसुधां कृष्णोऽप्यधस्तात्सत्वरं गतः ॥
स भित्त्वा सप्तपातालानधो यावत्प्रयाति च ॥
तावत्कालाग्निरुद्रस्तु दृष्टस्तेन महात्मना ॥ १७ ॥
गंतुमिच्छंस्ततोऽधस्ताद्यावद्वेगं करोति सः ॥
तावत्तस्यार्चिभिर्दग्धः कृष्णत्वं समपद्यत ॥ १८ ॥
ततो मूर्छाभिसंतप्तो दह्यमानोऽद्भुताग्निना ॥
निवर्त्य सहसा विष्णुर्वैलक्ष्यं परमं गतः ॥ १९ ॥
तथा लिंगं समासाद्य भक्त्या पूजा कृता ततः ॥
वेदोक्तैः परमैः सूक्ष्मैः स्तुतिं चक्रे महीपते ॥ 7.3.34.२० ॥
ब्रह्माऽपि व्योममार्गेण गतो हंसविमानतः ॥
दिव्यं वर्षसहस्रं तु तस्यांतं नाभ्यपद्यत ॥ २१ ॥
ततो वर्षसहस्रांते केतकीं सोऽप्यपश्यत ॥
आयांतीं व्योममार्गेण तया पृष्टश्चतुर्मुखः ॥ २२ ॥
क्व त्वया गम्यते ब्रह्मन्निरालंबे महापथि ॥
शून्ये तत्त्वं समाचक्ष्व परं कौतूहलं हि मे ॥ २३ ॥
॥ ब्रह्मोवाच ॥ ॥
मम स्पर्धा समुत्पन्ना विष्णुना सह शोभने ॥
लिंगस्यास्य हि पर्यंतं यो लभिष्यति चावयोः ॥ २४ ॥
स ज्यायानितरो हीनो ह्येतदुक्तं पिनाकिना ॥
प्रस्थितोऽहं ततश्चोर्द्ध्वमधोमार्गं गतो हरिः ॥ २५ ॥
लब्ध्वा लिंगस्य पर्यंतं यास्यामि क्षितिमंडले ॥
तस्य तद्वचनं श्रुत्वा तत्पुष्पमभ्यभाषत ॥ २६ ॥
व्यर्थश्रमोऽसि लोकेश नांतो लिंगस्य विद्यते ॥
चतुर्युगसहस्राणां कोटिरेका पितामह ॥ २७ ॥
लिंगमूर्ध्नः पतंत्या मे कालो जातो महाद्युते ॥
तथापि क्षिति पृष्ठं तु न प्राप्तास्मि कथंचन ॥ २८ ॥
यावत्कालेन हंसस्ते योजनं संप्रगच्छति ॥
तावत्कालेन गच्छामि योजनानामहं शतम् ॥ २९ ॥
तस्मान्निवर्तनं युक्तं मम वाक्येन ते विभो ॥
दर्शयित्वा च मां विष्णोर्ज्येष्ठत्वं व्रज सांप्रतम् ॥ 7.3.34.३० ॥
ततो हृष्टमना भूत्वा गृहीत्वा तां चतुर्मुखः ॥
पुनर्वर्षसहस्रांते भूमिपृष्ठमुपागतः ॥
दर्शयामास तां विष्णोरेषा लिंगस्य मूर्धतः ॥ ३१ ॥
मयाऽऽनीता शुभा माला लब्धश्चांतं चतुर्भुज ॥
त्वया लब्धो न चासत्यं वद मे पुरुषोत्तम ॥ ३२ ॥
॥ विष्णुरुवाच ॥ ॥
अनंतस्याप्रमेयस्य देवदेवस्य शूलिनः ॥
नाहं शक्तः परं पारं गंतुं ब्रह्मन्कथंचन ॥ ३३ ॥
यदि त्वयाऽस्य पर्यंतो लब्धो ब्रह्मन्कथंचन ॥
तत्ते तुष्टिं गतो नूनं देवदेवो महेश्वरः ॥ ३४ ॥
नान्यथा चास्य पर्यंतो दृश्यते केन चित्क्वचित् ॥
तस्माज्ज्येष्ठो भवाञ्छ्रेष्ठः कनिष्ठोऽहमसंशयम् ॥ ३५ ॥
॥ पुलस्त्य उवाच ॥ ॥
एतस्मिन्नेव काले तु भगवान्वृषभध्वजः ॥
कोपं चक्रे महाराज ब्रह्माणं प्रति तत्क्षणात् ॥ ३६ ॥
अथाह दर्शनं गत्वा धिग्धिग्व्यर्थप्रजल्पक ॥
मिथ्या प्रजल्पमानेन किमिदं साहसं कृतम् ॥ ॥ ३७ ॥
यस्मात्त्वया मृषा प्रोक्तं मम पर्यंतदर्शनम् ॥
तस्मात्त्वं सर्ववर्णानां पूजार्हो न भविष्यसि ॥ ३८ ॥
ये च त्वां पूजयिष्यंति मानवा मोह संयुताः ॥
ते कृच्छ्रं परमं प्राप्य नाशं यास्यंति कृत्स्नशः ॥ ३९ ॥
केतक्या च तथा प्रोक्तं यस्मात्तस्मात्सुदुष्टया ॥
अस्या हि स्पर्शनाल्लोकः श्वपाकत्वं प्रयास्यति ॥ 7.3.34.४० ॥
एवं शापो तयोर्दत्त्वा देवः प्रोवाच केशवम् ॥
प्रसन्नवदनो भूत्वा तदा तुष्टो महेश्वरः ॥ ४१ ॥
॥ भगवानुवाच ॥ ॥
वासुदेव महाबाहो तुष्टस्तेऽहं महामते॥
सत्यसंभाषणादेव वरं वरय सुव्रत ॥४२॥
॥ श्रीवासुदेव उवाच॥ ॥
एष एव वरः श्लाघ्यो यत्त्वं तुष्टो महेश्वरः ॥
न चापुण्यवतां देव त्वं तुष्टिमधिगच्छसि ॥
अवश्यं यदि मे देयो वरो देवेश्वर त्वया ॥४३॥
लिंगमेतदनंताख्यं लघुतां नय मा चिरम्॥
येन सृष्टिर्भवेल्लोके व्याप्तं विश्वमनेन तु ॥ ४४ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततः संक्षिप्य तल्लिंगं लघु कृत्वा महेश्वरः ॥
अब्रवीत्केशवं भूयः शृणु वाक्यमिदं हरे ॥ ४५ ॥
एतन्मेध्यतमे देशे लिंगं स्थापय मे हरे ॥
पूजय त्वं विधानेन परं श्रेयः प्रपत्स्यसे ॥ ४६ ॥
मम तेजोविनिर्दग्धः कृष्णत्वं हि यतो गतः ॥
कृष्ण एव ततो नाम लोके ख्यातिं गमिष्यति ॥ ४७ ॥
कृष्णकृष्णेति ते नाम प्रातरुत्थाय मानवः ॥
कीर्तयिष्यति यो भक्त्या स याति परमां गतिम् ॥४८॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तमीशानस्तत्रैवांतरधीयत ॥
वासुदेवोऽपि तल्लिंगं गृहीत्वाऽर्बुदपर्वते ॥
निर्झरे स्थापयामास सुपुण्ये विमलोदके ॥ ४९ ॥
कृष्णतीर्थं ततो जातं नाम्ना हि धरणीतले ॥
शृणु पार्थिवशार्दूल तत्र स्नातस्य यत्फलम् ॥ 7.3.34.५० ॥
स्नात्वा कृष्णह्रदे पुण्ये तल्लिंगं पश्यते तु यः ॥
सर्वतीर्थोद्भवं श्रेयः स मर्त्त्यो लभतेऽखिलम् ॥ ५१ ॥
तथा च सर्वदानानां निष्कामः प्राप्नुयात्फलम् ॥
सकामोऽपि फलं चेष्टं यद्यपि स्यात्सुदुर्ल्लभम् ॥ ५२ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
य इच्छेच्छाश्वतं श्रेयो नात्र कार्या विचारणा ॥ ५३ ॥
एकादश्यां महाराज निराहारो जितेन्द्रियः ॥
यस्तत्र जागरं कृत्वा लिंगस्याग्रे सुभक्तितः ॥ ५४ ॥
प्रभाते कुरुते श्राद्धं यस्तु श्रद्धासमन्वितः ॥
पितृन्संतारयेत्सर्वान्पूर्वजैः सह धर्मवित् ॥ ५५ ॥
तिलान्कृष्णान्नरस्तत्र ब्राह्मणेभ्यो ददाति यः ॥
ब्रह्महत्यादिभिः पापैः स मर्त्त्यो मुच्यते ध्रुवम् ॥ ॥ ५६ ॥
दर्शनादेव राजेन्द्र कृष्णतीर्थस्य मानवः ॥
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ ५७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे कृष्णतीर्थमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥