स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ४१
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ मार्कंडेयस्य चाश्रमम्॥
यत्र पूर्वं तपस्तप्तं मार्कंडेन महात्मना ॥ १ ॥
मृकण्डो ब्राह्मणोनाम पुराऽऽसीच्छंसितव्रतः ॥
अन्ते वयसि संजातस्तस्य पुत्रोऽतिसुन्दरः ॥ २ ॥
सर्वलक्षणसंपूर्णः शांतः सूर्यसमप्रभः ॥
कस्यचित्त्वथ कालस्य तस्याश्रमपदे नृप ॥ ३ ॥
आगतो ब्राह्मणो ज्ञानी कश्चित्सामुद्रविच्छुभः ॥
ततोऽसौ क्रीडमानस्तु बालकः पंचवार्षिकः ॥ ४ ॥
आनासाग्रशिखाग्राभ्यां चिरं चैवावलोकितः ॥
ततोऽहसत्स सहसा तं मृकण्डो ह्यलक्षयत्॥ ५ ॥
अथाऽब्रवीच्चिरं दृष्टस्त्वया पुत्रो मम द्विज॥
ततो हसितवान्भूयः किमिदं कारणं वद॥ ६॥
असकृत्स मृकण्डेन यावत्पृष्टो द्विजोत्तमः ॥
उपरोधवशात्तस्मै यथार्थं संन्यवेदयत् ॥ ७ ॥
अस्य बालस्य चिह्नानि यानि काये द्विजोत्तम ॥
अजरश्चामरश्चैव तैर्भवेत्पुरुषः किल ॥ ८ ॥
षण्मासेनास्य बालस्य नूनं मृत्युर्भविष्यति ॥
एतस्मात्कारणाद्धास्यं मयाऽकारि द्विजोत्तम ॥
अनृतं नोक्तपूर्वं मे वैरिष्वपि कदाचन ॥ ९ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा तु स ज्ञानी उषित्वा तत्र शर्वरीम् ॥
मृकंडेनाभ्यनुज्ञात इष्टं देशं जगाम ह ॥ 7.3.41.१० ॥
मृकंडोपि सुतं ज्ञात्वा ततः क्षीणायुषं नृप ॥
पंचवार्षिकमप्यार्त्तश्चकारोपनयान्वितम् ॥ ११ ॥
श्रुताध्ययनसंपन्नं यंयं पश्यसि चाग्रतः ॥
तस्याभिवादनं कार्यं त्वया पुत्रक नित्यशः ॥ १२ ॥
ततश्चक्रे ब्रह्मचारी पितुर्वाक्यं विशेषतः ॥ १३ ॥
बालं वृद्धं युवानं च यंयं पश्यति चक्षुषा ॥
नमस्करोति तं सर्वं ब्राह्मणं विनयान्वितः ॥ १४ ॥
कस्यचित्त्वथ कालस्य तस्याश्रमसमीपतः ॥
सप्तर्षयः समायातास्तीर्थयात्रापरायणाः ॥ १५ ॥
अथ तान्सत्वरं गत्वा वंदयामास पार्थिव ॥
बालः सविनयोपेतः सर्वांश्चैव यथाक्रमम् ॥ १६ ॥
दीर्घायुर्भव तैरुक्तः स बालस्तुष्टितत्परैः ॥
आस्थिताश्च यथाभीष्टं देशं बालं विसर्ज्य तम् ॥ १७ ॥
तेषां मध्येंऽगिरानाम दिव्यज्ञानसमन्वितः ॥
तेनावलोकितो बालः सूक्ष्मदृष्ट्या परंतप ॥ १८ ॥
अथ तानब्रवीत्सर्वान्मुनीन्किंचित्सविस्मयः ॥
दीर्घायुर्न च बालोऽयं युष्माभिः संप्रकीर्तितः ॥ १९ ॥
गमिष्यति कुमारोऽयं निधनं पंचमे दिने ॥
तन्न युक्तं हि नो वाक्यमसत्यं द्विजसत्तमाः ॥ 7.3.41.२० ॥
यथाऽयं चिरजीवी स्यात्तथा नीतिर्विधीयताम् ॥
अथ ते मुनयो भीता मिथ्या वाक्यस्य पार्थिव ॥ २१ ॥
बालकं तं समादाय ब्रह्मलोकं गतास्तदा ॥
तत्र दृष्ट्वा चतुर्वक्त्रं नमश्चक्रुर्मुनीश्वराः ॥ २२ ॥
तेषामनंतरं तेन बालके नाभिवादितः ॥
दीर्घायुर्भव तेनाऽपि ब्रह्मणोक्तः स बालकः ॥ २३ ॥
ततः सप्तर्षयो हृष्टाः स्वचित्ते नृपसत्तम ॥
सुखासीनान्सविश्रांतानब्रवीन्मुनिपुंगवान् ॥ २४ ॥
॥ ब्रह्मोवाच ॥ ॥
परिपृच्छत किं कार्यं कुतो यूयमिहागताः ॥ २५ ॥
॥ ऋषय ऊचुः ॥ ॥
तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ॥
अर्बुदं पर्वतं नाम तस्य तीर्थेषु वै गताः ॥ २६ ॥
अथागत्य द्रुतं दूराद्बालेनानेन वंदिताः ॥
दीर्घायुर्भव संदिष्टस्ततश्चायमनेकधा ॥
पंचमे दिवसेऽस्यापि मृत्युर्देव भविष्यति ॥ २७ ॥
यथा वयं त्वया सार्द्धमसत्या न चतुर्मुख ॥
भवामोऽस्य कृते देव तथा किंचिद्विधीयताम्॥ २८॥
अथ ब्रह्मा प्रहृष्टात्मा दृष्ट्वा तं मुनिदारकम् ॥
मत्प्रसादादयं बालो भावी कल्पायुरब्रवीत् ॥ २९ ॥
ततस्ते मुनयो हृष्टास्तमादाय गृहं प्रति ॥
प्रस्थिता ब्रह्मलोकात्तु नमस्कृत्वा चतुर्मुखम् ॥ 7.3.41.३० ॥
अथ तस्य पिता तत्र मृकंडो मुनिसत्तमः ॥
ततो भार्यासमायुक्तो विललाप सुदुःखितः ॥ ३१ ॥
हा पुत्रपुत्र करुणं रुदित्वा धर्मवत्सलः ॥
अनामंत्र्य च मां कस्माद्दीर्घं पंथानमाश्रितः ॥३२॥
अकृत्वापि क्रियाः कार्याः कथं मृत्युवशं गतः ॥
सोऽहं त्वया विना पुत्र न जीवामि कथंचन ॥ ३३ ॥
एवं विलपतस्तस्य बहुधा नृपसत्तम ॥
बालश्चाभ्यागतस्तत्र यत्र देशे पुरा स्थितः ॥ ३४ ॥
अथासौ प्रययौ बालः प्रहृष्टेनांतरात्मना ॥
तं दृष्ट्वा पथि तातश्च संप्रहृष्टो बभूव ह ॥ ३५ ॥
पप्रच्छांकं समारोप्य चिरागमन कारणम्॥
ततः स कथयामास सर्वं मुनिविचेष्टितम् ॥
दर्शनं ब्रह्मलोकस्य पद्मयोनेर्वरं तथा ॥ ३६ ॥
॥ बालक उवाच ॥ ॥
अजरश्चामरश्चाहं कृतस्तात स्वयंभुवा ॥
तस्मात्सत्यं मदर्थे ते व्येत्वसौ मानसो ज्वरः ॥३७॥
सोऽहमाराधयिष्यामि तथैव चतुराननम् ॥
कृत्वाऽऽश्रमपदं रम्यमर्बुदे पर्वतोत्तमे ॥ ३८ ॥
अमृतस्रावि तद्वाक्यं श्रुत्वा पुत्रस्य स द्विजः ॥
मृकंडो हर्षसंयुक्तो वाचमित्यब्रवीच्च तम् ॥ ३९ ॥
मार्क्कंडोऽपि द्रुतं गत्वा रम्य मर्बुदपर्वतम् ॥
तपस्तेपे सुविस्तीर्णं ध्यायन्देवं पितामहम्॥ 7.3.41.४० ॥
तस्याश्रमपदे पुण्ये श्रावणे मासि पार्थिव ॥
पौर्णमास्यां विशेषेण यः कुर्यात्पितृतर्पणम् ॥
पितृमेधफलं तस्य सकलं स्यादसंशयम् ॥४१॥
ऋषियोगेन यस्तत्र तर्पयेद्ब्राह्मणोत्तमान् ॥
ब्रह्मलोके चिरं वासस्तस्य संजायते नृप ॥ ॥ ४२ ॥
यः स्नानं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः ॥
नाल्पमृत्युभयं तस्य कुले क्वापि प्रजायते ॥ ४३ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्ड तृतीयेऽर्बुदखण्डे मार्कंडेयाश्रमपदोत्पत्तिवर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥