स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ५३

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेद्ब्रह्मपदं तीर्थं त्रैलोक्यविश्रुतम् ॥
यत्र पूर्वं पदं न्यस्तं ब्रह्मणा लोककारिणा ॥ १ ॥
पुरा ब्रह्मादयो देवास्तत्र सर्वे समाहिताः ॥
अर्बुदे पर्वते रम्य ऋषयश्च सुनिर्मलाः ॥ २ ॥
अचलेश्वरयात्रायां सुभक्त्या भाविता नृप ॥
अथ ते मुनयः सर्वे प्रोचुर्देवं पितामहम् ॥ ३ ॥
॥ ऋषय ऊचुः ॥ ॥
प्रभूतनियमैर्होमैर्व्रतस्नानैश्च नित्यशः ॥
उपवासैश्च निर्विण्णा वयं सर्वे पितामह ॥ ४ ॥
तस्मात्सदुपदेशं त्वं किंचिद्दातुमिहार्हसि ॥
तरामो येन देवेश दुर्गं संसारसागरम् ॥ ५ ॥
अयाचितोपचारैश्च जपहोमैः सुदुष्करैः ॥
मन्त्रैर्व्रतैस्तथा दानैः स्वर्गप्राप्तिं वदस्व नः ॥ ६ ॥
तेषां तद्वचनं श्रुत्वा तदा देवः कृपान्वितः ॥
चिंतयामास सुचिरमिह किंचित्प्रहस्य च ॥७॥
ततः स्वकं पदं त्यक्त्वा रम्ये पर्वतरोधसि ॥
अथोवाच मुनीन्सर्वान्ब्रह्मा संश्लक्ष्णया गिरा ॥ ८ ॥
॥ ब्रह्मोवाच ॥ ॥
एतन्महापदं रम्यं सर्वपातकनाशनम् ॥
स्पृशंतु ऋषयः सर्वे ततो यास्यथ सद्गतिम् ॥ ॥९॥
विना स्नानेन दानेन व्रतहोमजपादिभिः॥
हितार्थं सर्वलोकानां मया न्यस्तं पदं शुभम्॥7.3.53.१०॥
अस्मिन्पदे मया न्यस्ते यांति लोकाः सहस्रशः॥
स्पृशंतु ऋषयः सर्वे देवाश्चापि पदं मम ॥ ११ ॥
एकैवात्र प्रकर्त्तव्या श्रद्धा वाऽव्यभिचारिणी ॥
यश्च श्रद्धान्वितः सम्यक्पदमेतन्मुनीश्वराः ॥ १२ ॥
पूजयिष्यति संप्राप्ते कार्तिके पूर्णिमादिने ॥
तोयैः फलैश्च विविधैर्गंधमाल्यानुलेपनैः ॥ १३ ॥
ब्राह्मणान्भोजयित्वा तु मिष्टान्नेन स्वशक्तितः ॥
स यास्यति न सन्देहो मम लोकं सुदुर्लभम् ॥ १४ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततो मुनिगणाः सर्वे सम्यक्छ्रद्धासमन्विताः ॥
पूजयित्वा पदं तत्र ब्रह्मलोकं समागताः ॥ १५ ॥
तस्मात्सर्वप्रयत्नेन पदं पूज्यं नरोत्तम ॥
पितामहपदं सम्यक्छ्रद्धया स्वर्गदायकम्॥ १६ ॥
अन्यत्कौतूहलं राजन्महद्दृष्टं महाद्भुतम् ॥
पदस्य तस्य यच्छ्रुत्वा जायते विस्मयो महान् ॥ १७ ॥
आयामविस्तरेणाऽपि प्राप्ते कृतयुगे नृप ॥
न संख्या जायते राजञ्छुक्लवर्णस्य मानवैः ॥ १८ ॥
ततस्त्रेतायुगे प्राप्ते रक्तवर्णं प्रदृश्यते ॥
सुव्यक्तं संख्यया युक्तं सर्वलोकनमस्कृतम् ॥ १९ ॥
द्वापरे कपिलं तच्च लघुमात्रं प्रदृश्यते ॥
कलौ कृष्णं सुसूक्ष्मं च रम्ये पर्वतरोधसि ॥ 7.3.53.२० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥