स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ५९
॥ पुलस्त्य उवाच ॥ ॥
ततो महौजसं गच्छेत्तीर्थं पातकनाशनम् ॥
यस्मिन्स्नातो नरो राजंस्तेजसा युज्यते ध्रुवम् ॥
ब्रह्महत्याग्निना शक्रः पुरा दैन्यं परं गतः ॥ १ ॥
निःश्रीकस्तेजसा हीनो दुर्गन्धेन समन्वितः ॥
परित्यक्तः सुरैः सर्वैर्विषादं परमं गतः ॥ २ ॥
ततः पप्रच्छ देवेन्द्रो द्विजश्रेष्ठं बृहस्पतिम् ॥
भगवंस्तेजसो वृद्धिः कथं स्यान्मे यथा पुरा ॥ ३ ॥
॥ बृहस्पतिरुवाच ॥ ॥
तीर्थयात्रां सुरश्रेष्ठ कुरुष्व धरणीतले ॥
तीर्थं विना ध्रुवं वृद्धिस्तेजसो न भविष्यति ॥४॥
ततस्तीर्थान्यनेकानि भ्रांत्वा शक्रो नराधिप ॥
क्रमेणैवार्बुदं प्राप्तस्तत्र दृष्ट्वा जलाशयम् ॥
स्नानं चक्रे ततः श्रान्तो महौजाः प्रत्यपद्यत ॥ ५ ॥
दुर्गन्धेन विनिर्मुक्तस्ततो देवैः समावृतः ॥
उवाच प्रहसन्वाक्यं शृणुध्वं सर्वदेवताः ॥ ६ ॥
येऽत्र स्नानं करिष्यन्ति प्राप्ते शक्रोच्छ्रये सदा ॥
आश्विने शुक्लपक्षांते ते यास्यंति परां गतिम् ॥
सुश्रीकाश्च भविष्यंति सदा जन्मनिजन्मनि ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे महौजसतीर्थप्रभाववर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥