स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ६३
॥ पुलस्त्य उवाच ॥ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
अर्बुदस्य महाराज माहात्म्यं हि समासतः ॥ १ ॥
विस्तरेण च संख्या स्यादपि वर्षशतैरपि ॥
असंख्यानीह तीर्थानि पुण्यान्यायतनानि च ॥
पदेपदे गृहाण्येव निर्मितानि महर्षिभिः ॥ २ ॥
न तत्तीर्थं न सा सिद्धिर्न स वृक्षो महीपते ॥
न सा नदी न देवेशो यस्य तत्रास्ति न स्थितिः ॥ ३ ॥
ये वसंति महाराज सुरम्येऽर्बुदपर्वते ॥
नूनं ते पुण्यकर्माणो न वसंति त्रिविष्टपे ॥ ४ ॥
किं तस्य जीवितेनार्थः किं धनैः किं जपैर्नृप ॥
यो न पश्यति मन्दात्मा समन्तादर्बुदाचलम् ॥ ५ ॥
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥
स्वेदजाश्चाण्डजाश्चापि ह्युद्भिज्जाश्च जरायुजाः ॥ ६ ॥
तस्मिन्मृता महाराज निष्कामाः कामतोऽपि वा ॥
ते यान्ति शिवसायुज्यं जरा मरणवर्जितम् ॥ ७ ॥
यश्चैतच्छुणुयान्नित्यं पुराणं श्रद्धयान्वितः ॥
अर्बुदस्य महाराज स यात्राफलमश्नुते ॥ ८ ॥
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत् ॥
य इच्छेदात्मनः सिद्धिमिह लोके परत्र च ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे तृतीयमर्बुदखण्डं सम्पूर्णम् ॥ ७ - ३ ॥