स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ०७

॥ श्रीप्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठा रथांगाख्यं महोदधिम् ॥
चक्रांका यत्र पाषाणा दृश्यंते मुक्तिदायकाः ॥ १ ॥
यैः पूज्यते जगन्नाथः प्रत्यहं भाव संयुतैः ॥
सदा नेत्रैरनिमिषैर्वीक्ष्यते च जनार्दनः ॥ २ ॥
यच्च साक्षाद्भगवता दृष्टं कृष्णेन दृष्टितः ॥
तत्तीर्थं सर्वपापघ्नं चक्राख्यं परमं हरेः ॥ ३ ॥
यस्य प्रसिद्धिः परमा त्रैलोक्ये सचराचरे ॥
प्रयागादधिकं यच्च मुक्तिदं ह्यस्ति पावनम् ॥ ४ ॥
सुरैरपि प्रपूज्यंते यत्रांगानि शरीरिणाम् ॥
अंकितानि च चक्रेण षण्मासान्नात्र संशयः ॥ ५ ॥
यद्दृष्ट्वा मुच्यते पापात्प्रसंगेनापि मानवः ॥
तत्तीर्थं सर्वतीर्थानां पावनं प्रवरं स्मृतम्॥ ॥ ६ ॥
तत्र गत्वा द्विजश्रेष्ठाः प्रक्षाल्य चरणौ मुदा ॥
करौ चास्यं चैव पुनः प्रणमेद्दंडवत्पुनः ॥ ७ ॥
प्रणिपत्य गृहीत्वार्घ्यं पंचरत्नसमन्वितम् ॥
सपुष्पाक्षतगंधैश्च फलहेमसुचंदनैः ॥ ८ ॥
संपन्नमर्घ्यमादाय मंत्रमेतमुदीरयेत् ॥
प्रत्यङ्मुखः सुनियतः संमुखो वा महोदधेः ॥९॥
ॐ नमो विष्णु रूपाय विष्णुचक्राय ते नमः ॥
गृहाणार्घ्यं मया दत्तं सर्वकामप्रदो भव ॥ 7.4.7.१० ॥
अग्निश्च तेजो मृडया च रुद्रो रेतोधा विष्णुरमृतस्य नाभिः ॥
एतद्ब्रुवन्वाडवाः सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥११॥
मृदमालभ्य सजलां विप्रा देवकरच्युताम् ॥
धारयित्वा तु शिरसा स्नानं कुर्य्याद्यथाविधि ॥ १२ ॥
तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥
तर्पयित्वा हविर्द्रव्यं प्रोक्षयित्वा च भक्तितः ॥ १३ ॥
अश्वमेधसहस्रेण सम्यग्यष्टेन यत्फलम् ॥
स्नानमात्रेण तत्प्रोक्तं चक्रतीर्थे द्विजोत्तमाः ॥ १४ ॥
प्रयागे यत्फलं प्रोक्तं माघ्यां माधवपूजने ॥
स्नानमात्रेण तत्प्रोक्तं चक्र तीर्थे द्विजोत्तमाः ॥ १५ ॥
कारयेच्च ततः श्राद्धं पितॄणां श्रद्धयान्वितः ॥
विश्वेदेवान्सुवर्णेन राजतेन तथा पितॄन् ॥ १६ ॥
संतर्प्य भोजनेनैव वस्त्रालंकारभूषणैः॥
दीनान्धकृपणेभ्यश्च दानं देयं स्वशक्तितः॥ १७॥
चक्रतीर्थे तीर्थवरे विशेषाद्द्विजसत्तमाः॥
रत्नदानं प्रकुर्वीत प्रीणनार्थं जगत्पतेः ॥ १८ ॥
गन्त्रीमनडुहा युक्तां सर्वास्तरणसंयुताम् ॥
सोपस्करां च दद्याद्वै विष्णुर्मे प्रीयतामिति॥ १९ ॥
सुविनीतं शीलयुतं तथा सोपस्करं हयम् ॥
भूषयित्वा च विप्राय दद्याद्दक्षिणया सह ॥ 7.4.7.२० ॥
एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः॥
मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः ॥ २१ ॥
प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥
पच्यंते नरके ये च महारौरवसंज्ञके ॥ २२ ॥
ते सर्वे तृप्तिमायांति चकतीर्थ प्रभावतः ॥
श्राद्धे कृते द्विजश्रेष्ठा गयाश्राद्धफलं लभेत् ॥ २३ ॥
या गतिर्मातृभक्तानां यज्वनां या गतिः स्मृता ॥
चक्रतीर्थे द्विजश्रेष्ठाः स्नात्वा तां लभते नरः ॥ २४ ॥
श्राद्धं प्रशस्तं विप्रेंद्राः संप्राप्ते चंद्रसंक्षये ॥
सूर्यग्रहे विशेषेण कुरुक्षेत्रफलं स्मृतम् ॥
श्राद्धे स्नाने तथा दाने पितॄणां तर्पणे तथा॥ २५ ॥
प्रशस्तं चक्रतीर्थं च नात्र कार्य्या विचारणा ॥ २६ ॥
सर्वदा पावनं विप्राश्चक्रतीर्थं न संशयः ॥
यस्तु श्राद्धं प्रकुर्वीत यात्रायामागतो नरः ॥ २७ ॥
चक्रतीर्थे द्विजश्रेष्ठाः संपूज्य मधुसूदनम् ॥
पूजितेषु द्विजेंद्रेषु विष्णुसांनिध्यमाप्नुयात् ॥ २८ ॥
वाचा कृतं कर्मकृतं मनसां समुपार्जितम् ॥
स्नानमात्रेण तत्पापं नश्यते नात्र संशयः ॥ २९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमतीरस्थचक्रतीर्थमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥