स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ०८
॥ प्रह्लाद उवाच ॥ ॥
मा गच्छध्वं सुरनदीं कालिंदीं मा सरस्वतीम् ॥
गच्छध्वं च द्विजश्रेष्ठा गोमत्युदधिसंगमे ॥ १ ॥
प्राप्यते हेलया यत्र सर्वे कामा न संशयः ॥
गोमतीजलकल्लोलैः क्रीडते यत्र सागरः ॥ २ ॥
पापघ्नं गोमतीतीरं प्राप्यते पुण्यवन्नरैः ॥
सागरेण च संमिश्रं महापातकनाशनम् ॥ ३ ॥
गोमती संगता यत्र सागरेण द्विजोत्तमाः ॥
मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः ॥ ४ ॥
यत्पुण्यं लभते तूर्णं गंगासागरसंगमे ॥
तत्पुण्यं समवाप्नोति गोमत्युदधिसंगमे ॥ ५ ॥
नमस्कृत्य च तोयेशं गोमतीं च सरिद्वराम् ॥
अर्घ्यं दद्याद्विधानेन कृत्वा च करयोः कुशान् ॥ ६ ॥
मंत्रेणानेन विप्रेंद्रा दद्यादर्घ्यं विधानतः ॥
ब्राह्मणैः सह संगत्य सदा तत्तीर्थवासिभिः ॥ ७ ॥
भक्त्या चार्घ्यं प्रदास्यामि देवाय परमा त्मने ॥
त्राहि मां पापिनं घोरं नमस्ते सुररूपिणे ॥ ८ ॥
तीर्थराज नमस्तुभ्यं रत्नाकर महार्णव ॥
गोमत्या सह गोविंद गृहाणार्घ्यं नमोऽस्तु ते ॥ ९॥
दत्त्वा चार्घ्यं शिखां बद्ध्वा संस्मृत्य जलशायिनम् ॥
कुर्याच्च प्राङ्मुखः स्नानं ततः प्रत्यङ्मुखस्तथा॥ 7.4.8.१०॥
स्नात्वा च परया भक्त्या पितॄन्संतर्पयेत्ततः ॥
विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत् ॥ ११ ॥
यथोक्तां दक्षिणां दद्याद्विष्णुर्मे प्रीयतामिति ॥
विशेषतः प्रदातव्यं सुवर्णं विप्रसत्तमाः ॥ १२ ॥
दंपत्योर्वाससी चैव कंचुकोष्णीषमेव च ॥
लक्ष्म्या सह जगन्नाथो विष्णुर्मे प्रीयतामिति ॥ १३ ॥
महादानानि सर्वाणि गोमत्युदधिसंगमे ॥
सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते ॥ १४ ॥
यस्तुलापुरुषं दद्याद्गोमत्युदधिसंगमे ॥
सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते ॥ १५ ॥
आत्मानं तोलयेद्यस्तु स्वर्णेन रजतेन वा ॥
वस्त्रैर्वा कुंकुमैर्वापि फलैर्वापि तथा रसैः ॥ १६ ॥
भुक्त्वा भोगान्सुविपुलांस्तथा कामान्मनोहरान् ॥
संपूज्यमानस्त्रिदशैर्याति विष्ण्वालयं नरः ॥ १७ ॥
हिरण्यरूप्यदानं च ह्यश्वं धेनुं तथैव च ॥
गोमतीसंगमे दत्त्वा सर्वान्कामानवाप्नुयात् ॥ १८ ॥
भूमिदानं च यो दद्याद्गोमत्युदधिसंगमे ॥
स्नात्वा शुचिर्हरिं स्मृत्वा तस्माद्धन्यतरो नहि ॥ १९ ॥
कन्यादानं च यः कुर्याद्विद्यादानमथापि वा ॥
गोमत्याः संगमे स्नात्वा याति ब्रह्मपदं नरः ॥ 7.4.8.२० ॥
यो दद्यात्स्वर्णधेनुं च घृतधेनुं समाहितः ॥
ब्रह्माण्डदानमपि वा तस्य पुण्यमनंतकम् ॥ २१ ॥
तथा लवणधेनुं च जलधेनुमथापि वा ॥
दत्त्वा याति परं स्थानं गोमत्युदधिसंगमे ॥ २२ ॥
युगादिषु च सर्वेषु गोमत्युदधिसंगमे ॥
स्नात्वा संतर्प्य च पितॄनक्षयं लोकमाप्नुयात् ॥ २३ ॥
आषाढ्यां च तथा माघ्यां कार्तिक्यां संगमे नरः ॥
पितॄणां तर्पणं स्नानं श्राद्धं पावकपूजनम् ॥
कुर्याच्चैव तथा दानं यदीच्छेदक्षयं पदम् ॥ २४ ॥
पितॄणां चाक्षया तृप्तिर्गयाश्राद्धेन वै यथा ॥
तद्वच्छ्राद्धान्महाभाग गोमत्युदधिसंगमे ॥ २५ ॥
कुर्य्यात्स्नानं तथा दानं पितॄणां तर्पणं तथा ॥
पञ्चकासु द्विजश्रेष्ठास्तथा चैवाष्टकासु च ॥ २६ ॥
वैधृतौ च व्यतीपाते छायायां कुंजरस्य च ॥
षष्ठ्यां च कपिलाख्यायां तथा हि द्वादशीषु च ॥ २७ ॥
गोमत्यां संगमे स्नात्वा दद्याद्दानं विशेषतः ॥
निर्मलं स्थानमाप्नोति यत्र गत्वा न शोचति ॥ २८ ॥
श्राद्धपक्षे त्वमावास्यां गोमत्युदधिसंगमे ॥
हेलया प्राप्यते पुण्यं दत्त्वा पिण्डं गयासमम् ॥ २९ ॥
तस्मात्सर्वं प्रयत्नेन त्वमावास्यां द्विजोत्तमाः ॥
श्राद्धं हि पितृपक्षांते कार्य्यं गोमतिसंगमे ॥ 7.4.8.३० ॥
यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ॥
पक्षश्राद्धकृतं पुण्यं दिनेनैकेन लभ्यते ॥ ३१ ॥
श्रद्धाहीनं मन्त्रहीनं पात्रहीनमथापि वा ॥
द्रव्यहीनं कालहीनं मनसः स्वास्थ्यवर्जितम् ॥ ३२ ॥
श्राद्धपक्षे ह्यमायां तु गोमत्युदधिसंगमे ॥
परिपूर्णं भवेत्सर्वं पितॄणां तृप्तिरक्षया ॥ ३३ ॥
गोमती कमला चैव चंद्रभागा तथैव च ॥
तिस्रस्तु संगता नद्यः प्रविष्टा वरुणालयम् ॥ ३४ ॥
गयायां पिंडदानेन प्रयागे ह्यस्थिपातने ॥
तत्पुण्यं समवाप्नोति पक्षांते श्राद्धकृन्नरः ॥ ३५ ॥
यदीच्छेत्सर्वतीर्थेषु हेलया त्वभिषेचनम् ॥
स्नानं कुर्वीत भक्त्या वै गोमत्युदधिसंगमे ॥ ३६ ॥
पक्षेपक्षे समग्रा तु पितृपूजा कृता च यैः ॥
सम्पूर्णा जायते तेषां गोमत्युदधिसंगमे ॥ ३१७ ॥
श्राद्धे कृते त्वमावस्यां पितृपक्षे च वै द्विजाः ॥
अपुत्रा चैव या नारी काकवंध्या च या भवेत् ॥ ३८ ॥
मृतपुत्रा तथा विप्राः संगमे स्नानमाचरेत् ॥
दोषैः प्रमुच्यते सर्वैर्गोमप्युदधिसंगमे ॥
स्नात्वा सुखमवाप्नोति प्रजां च चिरजीविनीम् ॥ ३९ ॥
यानि कानि च दानानि पृथिव्यां सम्भवंति हि ॥
तानि सर्वाणि देयानि गोमत्युदधिसंगमे ॥ 7.4.8.४० ॥
सर्वदैव च विप्रेन्द्रा विशेषात्सर्वपर्वसु ॥
स्नानं कुर्वीत नियतो गोमत्युदधिसंगमे ॥ ४१ ॥
दर्शनादेव पापस्य क्षयो भवति भो द्विजाः ॥
प्रणामे मनसस्तुष्टिर्मुक्तिश्चैवावगाहने ॥ ४२ ॥
श्राद्धे कृते पितॄणां तु तृप्तिर्भवति शाश्वती ॥
दाने मनोरथावाप्तिर्जायते नात्र संशयः ॥ ४३ ॥
कृतकृत्यास्तु ते धन्या यैः कृतं पितृतर्पणम् ॥
श्राद्धं च ऋषिशार्दूला गोमत्युदधिसंगमे ॥ ४४ ॥
पितृपक्षे च वै केचिन्मातृपक्षे तथैव च ॥
तथा श्वशुरपक्षे च ये चान्ये मित्रबांधवाः ॥ ४५ ॥
स्थावरत्वं गता ये च पुद्गलत्वं च ये गताः ॥
पिशाचत्वं गता ये च ये च प्रेतत्वमागताः ॥ ४६ ॥
तिर्य्यग्योनिगता ये च ये च कीटत्वमागताः ॥
स्नानमात्रेण ते सर्वे मुक्तिं यांति न संशयः ॥ ४७ ॥
किं पुनः श्राद्धदानादि गोमतीसंगमे तथा ॥
कृत्वा मुक्तिमवाप्नोति मानवो नात्र संशयः ॥ ४८ ॥
श्रवणद्वादशीयोगे गोमत्युदधिसंगमे ॥
स्नात्वा मुक्तिमवाप्नोति यत्र गत्वा न शोचति ॥ ४९ ॥
सन्त्यज्य सर्वतीर्थानि गोमत्युदधिसंगमे ॥
स्नानं कृत्वा तथा श्राद्धं कृतकृत्यो भवेन्नरः ॥
परं लोकमवाप्नोति ह्यर्चयित्वा तु वामनम् ॥ 7.4.8.५० ॥
सम्यक्स्नात्वा नरो यस्तु पूजयेद्गरुडध्वजम् ॥
पीतांबरधरो भूत्वा दिव्याभरणभूषितः ॥ ५१ ॥
वीक्ष्यमाणः सुरस्त्रीभिर्नागारिकृतकेतनः ॥
चतुर्भुजधरो भूत्वा वनमालाविभूषितः ॥
संस्तूयमानो मुनिभिर्याति विष्ण्वालयं नरः ॥ ५२ ॥
गोमतीसंगमे स्नात्वा कृतकृत्यो भवेन्नरः ॥
यत्र दैत्यवधं कृत्वा विष्णुना प्रभविष्णुना ॥ ५३ ॥
चक्रं प्रक्षालितं पूर्वं कृष्णेन स्वयमेव हि ॥
तेनैव चक्रतीर्थं हि ख्यातं लोकत्रये द्विजाः ॥ ५४ ॥
भवंति यत्र पाषाणाश्चक्रांका मुक्तिदायकाः ॥
यैः पूजितैर्जगन्नाथः कृष्णः सांनिध्यमाव्रजेत् ॥ ५५ ॥
तत्रैव यदि लभ्येत चक्रैर्द्वादशभिः सह ॥ ५६ ॥
द्वादशात्मा स विज्ञेयो मोक्षदः सर्वदेहिनाम् ॥
एकचक्रांकितो यस्तु द्वारवत्यां सुशोभनः ॥ ५७ ॥
सुदर्शनाभिधानोऽसौ मोक्षैकफलदो हि सः ॥
लक्ष्मीनारायणो द्वाभ्यां भुक्तिमुक्तिफलप्रदः ॥ ५८ ॥
त्रिभिस्त्रिविक्रमश्चैव त्रिवर्गफलदायकः ॥
श्रीप्रदो रिपुहन्ता च चतुर्भिः संयुतः स हि ॥ ५९ ॥
पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः ॥
प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति यः ॥ 7.4.8.६० ॥
सप्तभिर्बलभद्रश्च चक्रगोऽत्र प्रकीर्तितः ॥
लाच्छितश्चाष्टभिर्भक्तिं ददाति पुरुषोत्तमः ॥ ६१ ॥
सर्वं दद्यान्नवव्यूहो दुर्लभो यः सुरैरपि ॥
दशावतारो दशमी राज्यदो नात्र संशयः ॥६२ ॥
एकादशभिरैश्वर्यं चक्रगः संप्रयच्छति ॥
निर्वाणं द्वादशात्मा च द्वादशभिर्ददाति च ॥ ६३ ॥
अत ऊर्ध्वं महाभागाः सौख्यमोक्षप्रदायकाः ॥
यतोऽत्र ते च पाषाणाः कृष्णचक्रेण चित्रिताः ॥ ६४ ॥
तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः ॥
चक्रतीर्थे नरः स्नात्वा कृष्णचक्रेण चिह्नितः ॥ ६५ ॥
पूजयित्वा चक्रधरं हरिं ध्यायेत्सनातनम् ॥
नापुत्रो नाधनो रोगी न स संजायते नरः ॥ ६६ ॥
ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् ॥
तत्सर्वं विलयं याति सकृच्चक्रांकदर्शनात् ॥ ६७ ॥
म्लेच्छ देशे शुभे वापि चक्रांको दृश्यते यदि ॥
तत्र चैव हरिक्षेत्रं मुक्तिदं नात्र संशयः ॥ ६८ ॥
मृत्युकालेऽपि सम्प्राप्ते यदि ध्यायेद्धरिं नरः ॥
चक्रांकं धारयेदंगे स याति परमं पदम्॥६९॥
हृदयस्थे च चक्रांके पूतो भवति तत्क्षणात् ॥
नोपसर्पंति तं भीता दूताः कृष्णायुधं तदा ॥
वैष्णवं लोकमा प्नोति नात्र कार्या विचारणा ॥7.4.8.७० ॥
अपि पापसमाचारः किं पुनर्धार्मिकः शुचिः ॥
गोमती संगमे स्नात्वा चक्रतीर्थे तथैव च ॥
मुच्यते पातकैर्घोरै र्मानवो नात्र संशयः ॥७१॥
राजसाः सत्त्वमायांति विष्णुधर्मं सनातनम् ॥
क्षेत्रस्य तस्य माहात्म्यात्सत्यमेतत्प्रकीर्तितम् ॥ ७२ ॥
तामसं राजसं चापि यत्किञ्चिद्विष्णुपूजने ॥
तच्च सत्त्वत्वमायाति निम्नगा च यथार्णवे ॥ ७३ ॥
दुर्लभा द्वारका विप्र दुर्लभं गोमतीजलम् ॥
दुर्लभं जागरो रात्रौ दुर्लभं कृष्णदर्शनम् ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधि संगमस्नानादिमाहात्म्यपूर्वक चक्रतीर्थमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥ ॥