स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः १३
॥ श्रीप्रह्लाद उवाच ॥ ॥
इति कृष्णवचः श्रुत्वा गोप्यः संहृष्टमानसाः ॥
तस्मिन्मयसरे स्नात्वा विमुक्ताऽशेषबन्धनाः ॥ १ ॥
कृष्णदर्शनसंजातपरमानन्दसंप्लुताः ॥
ऊचुश्च वचनं गोप्यो मधुरं माधवं प्रति ॥ २ ॥
॥ गोप्य ऊचुः ॥ ॥
धन्यः स दैत्यप्रवरो मयो येन कृतं सरः ॥
यस्मिंस्त्वं देवतैः सार्द्धं समेष्यसि जगत्पते ॥ ३ ॥
यदि तुष्टोऽसि भगवन्ननुग्राह्या वयं यदि ॥
अस्माकमपि वार्ष्णेय कारयस्व सरोत्तमम् ॥ ४ ॥
कीर्त्तनान्मृत्युलोकेऽस्मिंस्तव संदर्शनेन हि ॥
अहर्निशं तव ध्यानाद्यास्यामः परमां गतिम् ॥ ५ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
करिष्ये वः प्रियं साध्व्यो यूयं मम परिग्रहाः ॥
अनुग्राह्या मया नित्यं भक्तिग्राह्योऽस्मि सर्वदा ॥ ६ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्त्वा भगवान्कृष्णो गोपीनां हितकाम्यया ॥
सरसः सन्निधौ तस्य सरस्त्वन्यच्चकार ह ॥ ७ ॥
तदगाधं स्वच्छजलं नलिनीदलशोभितम् ॥
हंससारसयुग्मैश्च चक्रवाकैश्च शोभितम् ॥ ८ ॥
कुमुदोत्पलकह्लारपद्मिनीखण्डमण्डितम् ॥
सेवितं द्विजमुख्यैश्च सिद्धविद्याधरैस्तथा ॥ ९ ॥
सेवितं यदुनारीभिस्तथा यदुकुमारकैः ॥
दिवारात्रौ सुसंपूर्णं सर्वैर्जानपदैर्जनैः ॥ 7.4.13.१० ॥
तं दृष्ट्वा जलकल्लोलैः सुसंपूर्णं जलाशयम् ॥
हर्षाद्गोपीजनं कृष्णः प्रोवाच वचनं तदा ॥ ११ ॥
पश्यध्वं गोपिकाः शुभ्रं सरः सरं समीपतः ॥
स्वच्छमिष्टजलापूर्णं सज्जनानां यथा मनः ॥ १२ ॥
कारणाद्भवतीनां च यस्मात्कृतमिदं सरः ॥
भवतीनां तथा नाम्ना ख्यातमेतद्भविष्यति ॥ १३ ॥
गोर्वाचावाचकः शब्दो भवतीभिर्मया सह ॥
गोप्रचारेति वै नाम्नां ख्यातिं लोके गमिष्यति ॥ १४ ॥
युष्माकं प्रियकामार्थं यस्मात्कृतमिदं सरः ॥
तस्माद्गोपीसर इति ख्यातिं लोके गमिष्यति ॥ १५ ॥
॥ गोप्य ऊचुः ॥ ॥
अनुग्राह्या यदि वयमस्मन्नाम्ना कृतं सरः ॥
अन्यत्किमपि वार्ष्णेय प्रार्थयामो वदस्व नः ॥ १६ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
प्रार्थ्यतां यदभिप्रेतं यद्वो मनसि वर्तते ॥
भक्त्या समागता यूयं नास्त्यदेयं ततो मया ॥ १७ ॥
॥ गोप्य ऊचुः ॥ ॥
यदि तुष्टोऽसि भगवन्यदि देयो वरो हि नः ॥
तस्मात्त्वया सदा कृष्ण नरयानेन माधव ॥ १८ ॥
अत्रागत्य नभस्येऽस्मिन्स्नातव्यं नियमेन हि ॥
यत्र त्वं तत्र देवाश्च यज्ञास्तीर्थानि केशव ॥ १९ ॥
यत्र त्वं तत्र दानानि व्रतानि नियमाश्च ये ॥
ओंकारश्च वषट्कारः स्वाहाकारः स्वधा तथा ॥ 7.4.13.२० ॥
भूर्भुवःस्वर्महर्ल्लोको जनः सत्यं तपस्तथा ॥
त्वन्मयं हि जगत्सर्वं सदेवासुरमानुषम् ॥२१ ॥
तस्मात्त्वयि जगन्नाथे ह्यत्र स्नाते जनार्दने ॥
स्नातमत्र त्रिभुवनं भविष्यति न संशयः ॥ २२ ॥
त्रैलोक्यपावनी गंगा तव पादजलं हि तत् ॥
लक्ष्मीर्वक्षःस्थलस्थाने मुखे देवी सरस्वती ॥ २३ ॥
सर्वभूतमयश्चात्र ततस्त्वं जगदीश्वर ॥
यद्ददासि मनुष्याणां भविष्याणां कलौ युगे ॥
तद्वदस्व महाबाहो कृपां कृत्वा जगत्पते ॥ २४ ॥
यात्रायामागतानां च अथ षण्मासवासिनाम् ॥
सदैवात्र स्थितानां च यत्फलं तद्वदस्व नः ॥ २५ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
यत्फलं हि मनुष्याणां स्नातानां गोपिकासरे ॥
तच्छृणुध्वमसंदिग्धं प्रसन्ने मयि गोपिकाः ॥ २६ ॥
सोपस्करां सवत्सां च वस्त्रालंकारभूषिताम् ॥
यथोक्तदक्षिणोपेतां ब्राह्मणाय कुटुंबिने ॥ २७ ॥
सदाचाराय शुद्धाय दरिद्रायानुकारिणे ॥
गां दत्त्वा फलमाप्नोति स्नानमात्रेण तत्फलम् ॥ २८ ॥
यावत्पदानि मनुजः कृष्णेन सह गच्छति ॥
कुलानि देव्यस्तावंति वसंति हरिमन्दिरे ॥ २९ ॥
कृष्णेन सह गच्छन्ति गीतवादित्रनिस्वनैः ॥
स्तुवन्तो विविधैः स्तोत्रैर्गोविंदं गोपिकासरे ॥ 7.4.13.३० ॥
न मातुर्जठरे तेषां यातना जायते नृणाम् ॥
सर्वान्कामानवाप्यांते वैष्णवं लोकमाप्नुयुः ॥ ३१ ॥
अर्घ्यं दत्त्वा विधानेन स्नानं कुर्याद्विचक्षणः ॥
मंत्रेणानेन वै साध्व्यः श्रद्धया परया युतः ॥ ३२ ॥
नमस्ते गोपरूपाय विष्णवे परमात्मने ॥
गोप्रचारे जगन्नाथ गृहाणार्घ्यं नमोऽस्तु ते ॥ ३३ ॥
अर्घ्यं दत्त्वा विधानेन मृदमालिप्य पाणिना ॥
स्नायाच्छ्रद्धासमायुक्तस्तर्पयेत्पितृदेवताः ॥ ३४ ॥
श्राद्धं कुर्य्यात्ततो भक्त्या एकचित्तः समाहितः ॥
यथोक्तदक्षिणा दद्याद्रजतं रुक्ममेव च ॥ ३५ ॥
विशेषतः प्रदातव्यं तांबूलं कज्जलं तथा ॥
दुकूलानि च देयानि तथा कौसुंभकानि च ॥ ३६ ॥
दंपत्योर्वाससी चैव भूषणानि स्वशक्तितः ॥
गावो देया द्विजातिभ्यो वृषभाश्च धुरंधराः ॥
दीनांधकृपणानां च दानं देयं स्वशक्तितः ॥ ३७ ॥
एवं कृत्वा नरः सम्यगुत्तमां गतिमाप्नुयात् ॥
प्रयांति परमं लोकं पितरस्त्रिकुलोद्भवाः ॥ ३८ ॥
लभते पुत्रकामस्तु पुत्रानिष्टान्मनोरमान् ॥ ३९ ॥
यं यं कामयते कामं स्वर्गमोक्षादिकं नरः ॥
तत्सर्वं समवाप्नोति यः स्नाति गोपिकासरे ॥ 7.4.13.४० ॥
यावल्लोका भविष्यंति तावत्स्थास्यति वै सरः ॥
यावत्सरो यशस्तावद्भवतीनां भविष्यति ॥ ४१ ॥
यावत्कीर्तिर्मनुष्येषु तावत्स्वर्गे महीयते ॥
विमुक्ताः सकलात्पापाद्यास्यंति परमां गतिम् ॥ ४२ ॥
तत्पुण्यं गोपीसर इदं जलैः पूर्णं सदैव हि ॥
अवगाह्यं मया गोप्यो नभस्ये नियमेन हि ॥ ४३ ॥
भवत्यः पतिभावेन ब्रह्मभावेन वा पुनः ॥
चिंतयंत्यः परं मां हि परागतिमवाप्स्यथ ॥ ४४ ॥
॥ प्रह्लाद उवाच ॥ ॥
अनुज्ञाता भगवता ततस्ता गोपकन्यकाः ॥
नमस्कृत्य च गोविंदं ययुः सर्वा यथागता ॥ ४५ ॥
भगवानपि गोविंद उद्धवेन समन्वितः ॥
विसृज्य गोपिकाः कृष्णः स्वकं मंदिरमाविशत् ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोपीसरस्तीर्थमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥