स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः २०

॥ प्रह्लाद उवाच ॥ ॥
ब्रह्मघोषध्वनिं श्रुत्वा दानवो दुर्मुखस्तदा ॥
क्रोधसंरक्तनयनो दुर्वाससमथाब्रवीत् ॥ १ ॥
हन्यमानस्त्वमस्माभिर्यदि मुक्तोसि वै द्विज ॥
कस्मात्पुनः समायातो मरणाय च दुष्टधीः ॥ २ ॥
इत्युक्त्वा मुष्टिना हन्तुं प्राद्रवद्दानवाधमः ॥
प्राह प्रधावमानं तं दुर्वासा मुनिसत्तमः ॥ ३ ॥
स्पर्शं मा कुरु पापिष्ठ ब्राह्मणं मां कृताह्निकम् ॥
तं दृष्ट्वा दानवं विष्णुर्ब्राह्मणं हन्तुमुद्यतम् ॥ १३ ॥
तस्य क्रुद्धो जगन्नाथो दुर्वाससः कृते तदा ॥
चक्रेण क्षुरधारेण शिरश्चिच्छेद लीलया ॥ ५ ॥
॥ प्रह्लाद उवाच ॥ ॥
दुर्मुखं निहतं दृष्ट्वा दानवो दुःसहस्तदा ॥
आक्रोशदुच्चैर्दितिजाञ्छीघ्रमागम्यतामिति ॥६॥
श्रुत्वा दैत्यगणाः सर्वे दुर्मुखं निहतं तदा ॥
दुर्वाससं पुनस्तत्र परित्रातं च विष्णुना ॥ ॥ ७ ॥
कूर्मपृष्ठो गोलकश्च क्रोधनो वेददूषकः ॥
यज्ञघ्नो यज्ञहंता च धर्मान्तकस्तपस्विहा ॥ ८ ॥
एते चान्ये च बहवो विविधायुधपाणयः ॥ ॥
क्रोधसंरक्तनयनाः शपन्तो ब्राह्मणं तथा ॥ ९ ॥
परिक्षिप्य तदात्रेयं विष्णुं संकर्षणं तथा ॥
तोमरैर्भिन्दिपालैश्च मुशलैश्च भुशुंडिभिः ॥ 7.4.20.१० ॥
अस्त्रैर्नानाविधैश्चापि युयुधुः क्रोधमूर्छिताः ॥
दानवैः संवृतो विष्णुः समन्ताद्घोरदर्शनैः ॥ ११ ॥
संकर्षणश्च शुशुभे चंद्रादित्यौ घनैरिव ॥
गृहीत्वा धनुषी दिव्ये शीघ्रं संयोज्य चाशुगान् ॥ १२ ॥
तान्मार्गणगणैर्दैत्याञ्जघ्नतुस्ते महामृधे ॥
ते हन्यमानाः समरे विष्णुना विद्रुता दिशः ॥ १३ ॥
दानवान्विद्रुतान्दृष्ट्वा विष्णुना निहतान्परान् ॥
गोलकः कूर्मपृष्ठश्च मानं कृत्वा न्यवर्तताम् ॥ १४ ॥
संकर्षणं गोलकश्च ह्याजघान त्रिभिः शरैः ॥
अनन्तं व्यथितं दृष्ट्वा गोलकः क्रोधमूर्छितः ॥१५ ॥
उत्पत्य तरसा मूर्ध्नि दुर्वाससमताडयत् ॥
स मुष्टिघाताभिहतश्चुक्रोश पतितः क्षितौ ॥१६॥
संकर्षणस्तु पतितं दृष्ट्वा मूर्ध्नि प्रताडितम् ॥
दृष्ट्वा चुकोप भगवांस्तिष्ठतिष्ठेति चाब्रवीत् ॥
संगृह्य मुशलं वीरो जघान समरे रिपुम् ॥ १७ ॥
मुशलेनाहतो मूर्ध्नि गोलको विकलेन्द्रियः ॥
संभिन्नमस्तकश्चैव पपात च ममार च ॥ १८ ॥
गोलकं पतितं दृष्ट्वा क्रन्दंतं ब्राह्मणं तथा ॥
कूर्मपृष्ठं च भगवान्विष्णुर्हन्तुं मनो दधे ॥
नाराचेन सुतीक्ष्णेन जघान हृदये रिपुम् ॥ १९ ॥
स विष्णुबाणाभिहतस्त्यक्तशस्त्रः पलायितः ॥
तस्मिन्प्रभिन्नेऽतिबले गते वै कूर्मपृष्ठके ॥
अभज्यत बलं सर्वं विद्रुतं च दिशो दश ॥ 7.4.20.२० ॥
तत्प्रभग्रं बलं सर्वं निहतं गोलकं तथा ॥
द्वारस्थः कथयामास दैत्यराज्ञे कुशाय सः ॥ २१ ॥
गोलकं निहतं श्रुत्वा दैत्यानन्यांश्च दैत्यराट् ॥
योधानाज्ञापयामास सन्नद्धान्स्वबलस्य च ॥ २२ ॥
आज्ञां कुशस्य ते लब्ध्वा दैत्याः पंचजनादयः ॥
युद्धायाभिमुखाः सर्वे रथैर्नागैश्च निर्ययुः ॥ २३ ॥
अनीकं दशसाहस्रं कूर्मपृष्ठस्य निर्ययौ ॥
अयुते द्वे रथानां तु नागानामयुतं तथा ॥ २४ ॥
दशायुतानि चाश्वानामुष्ट्राणां च तथैव च ॥
बकश्च निर्ययौ दैत्यो बहुसैन्यसमन्वितः ॥ २५ ॥
तथा दीर्घनखो दैत्यः स्वेनानीकेन संवृतः ॥
मंत्रिपुत्रो महामायो दैत्यराज कुशस्य वै ॥
निर्ययौ विघसो दैत्यः प्रघसश्च महाबलः ॥ २६ ॥
ऊर्द्ध्वबाहुर्वक्रशिराः कञ्चुकश्च शिवोलुकैः ॥
ब्रह्मघ्नो यज्ञहा दैत्यो राहुर्बर्बरकस्तथा ॥ २७ ॥
सुनामा वसुनामा च मंत्रिणौ बुद्धिसत्तमौ ॥
सेनापतिश्चोग्रदंष्टस्तस्य भ्राता महाहनुः ॥ २८ ॥
एते चान्ये च बहवो दैत्याः क्रोधसमन्विताः ॥
महता रथघोषेण निर्ययुर्युद्धकांक्षिणः ॥ २९ ॥
स्नात्वा शुक्लांबरधरः शुक्लमालाविभूषितः ॥
कुशः शंभुं महादेवं भवानीपतिमव्ययम् ॥
आर्चयमास भूतेशं परमेण समाधिना ॥ 7.4.20.३० ॥
पंचामृतेन संस्नाप्य तथा गन्धैर्वि लिप्य च ॥
अर्चयामास दैत्येन्द्रो ह्यनेककुसुमोत्करैः ॥ ३१ ॥
गीतवादित्रशब्दैश्च तथा मंगलवाचकैः ॥
पूजयित्वा महादेवं ब्राह्मणान्स्वस्ति वाच्य च ॥ ३२ ॥
भूषयित्वा भूषणैश्च मणिवज्रविभूषणैः ॥
मुकुटेनार्कवर्णेन ज्वलद्भास्कररोचिषा ॥ ३३ ॥
भ्राजमानो दैत्यराजो हारेणाऽतीव शोभितः ॥
संनह्य च महाबाहुः सारथिं समुदैक्षत ॥ ३४ ॥
सुनामानं वसुं चैव मंत्रिणौ वाक्यमब्रवीत् ॥
कश्चायमसुरान्हंति किमर्थं ज्ञायतामिति ॥ ॥ ३५ ॥
तस्य तद्वचनं श्रुत्वा रुरुर्वचनमब्रवीत् ॥
गतेह्नि ब्राह्मणः स्नातुं गोमत्याः संगमे किल ॥ ३६ ॥
आगतः प्रतिषिद्धः सन्दैत्यैस्तत्र मही पते ॥
तेन विष्णुः समानीतः संकर्षणसमन्वितः ॥ ३७ ॥
सोऽस्मान्हंति महाराज ब्रह्मण्यो जगदीश्वरः ॥
तेन ते बहवो दैत्या हताः केचित्पलायिताः ॥ ३८ ॥
॥ सुनामोवाच ॥ ॥
स्नात्वा गच्छतु विप्रोऽसौ वासुदेवसमन्वितः ॥
राजन्वृथा विग्रहेण किं कार्यं कथयस्व नः ॥ ३९ ॥
तस्य तद्वचनं श्रुत्वा कुशः क्रोधसमन्वितः ॥
कथं गोलकहंतारं न हनिष्यामि केशवम् ॥7.4.20.४०॥
एतावदुक्त्वा स क्रुद्धो ययौ दैत्यपतिस्तदा ॥
ततो वादित्र शब्दैश्च भेरीशब्दैः समन्वितः ॥ ४१ ॥
ददर्श तत्र देवेशं सहस्रशिरसं प्रभुम् ॥
तथा विष्णुं चक्रपाणिं दुर्वाससमकल्मषम् ॥ ४२ ॥
ईश्वरांशं च तं दृष्ट्वा न हन्तव्योऽयमीश्वरः ॥
विष्णुमुद्दिश्य तान्सर्वान्प्रेरयामास दानवान् ॥ ४३ ॥
नागैः पर्वतसंकाशै रथैर्जलदसन्निभैः ॥
अश्वैर्महाजवैश्चैव परिवव्रुः समंततः ॥ ४४ ॥
ततो युद्धं समभवद्देवयोर्दानवैः सह ॥
आच्छादितौ तौ ददृशुर्दैत्यैर्देवगणास्तदा ॥ ४५ ॥
ततो गृहीत्वा मुशलं हलं च बलवान्हली ॥
जघान दैत्यप्रवरान्कालानलयमोपमान् ॥ ४६ ॥
ते हन्यमाना दैतेया बलेन बलशालिना ॥
सर्वतो विद्रुता भग्नाः कुशमेव ययुस्तदा ॥ ४७ ॥
बकश्च यज्ञकोपश्च ब्रह्मघ्नो वेददूषकः ॥
महामखघ्नो जंभश्च राहुर्वक्रशिरास्तथा ॥४८॥
एते चान्ये च बहवः प्रवरा दानवोत्तमाः ॥
क्रोधसंरक्तनयना बिभिदुस्ते जनार्द्दनम् ॥ ४९ ॥
ततः क्रोधसमायुक्तौ संकर्षणजनार्दनौ ॥
चक्रलांगलघातेन जघ्नतुर्दानवोत्तमान् ॥ 7.4.20.५० ॥ ।
चक्रेण च शिरः कायाच्चिच्छेदाशु बकस्य वै ॥
चूर्णयामास मुशली यज्ञहंतारमेव च ॥ ५१ ॥
राहुं जघान चक्रेण तथान्यान्मुशलेन च ॥
ते हता हन्यमानाश्च भग्ना जग्मुर्दिशो दश ॥५२॥
कुशः स्वां वाहिनीं दृष्ट्वा विद्रुतां निहतां तथा ॥
क्रोधसंरक्तनयनः प्राह याहीति सारथिम् ॥५३॥
स तयोरंतिकं गत्वा नाम विश्राव्य चात्मनः ॥
उवाच कस्त्वं दैतेयान्मम हंसि गदाधर ॥ ५४ ॥
॥ श्रीवासुदेव उवाच ॥ ॥
यस्माद्विमुक्तिदं पुण्यं गोमत्युदधिसंगमम् ॥
रुद्धं दुरात्मभिः पापैस्तस्मात्ते निहता मया ॥ ५५ ॥
॥ कुश उवाच ॥ ॥
मां न जानासि चात्रस्थं कथं जीवन्प्रयास्यसि ॥
युध्यस्व त्वं स्थिरो भूत्वा ततस्त्यक्ष्यसि जीवितम् ॥ ५६ ॥
इत्युक्त्वा पंचविंशत्या ताडयामास केशवम् ॥
अनंतं चाष्टभिर्बाणैर्हत्वाऽऽत्रेयं निरीक्ष्य तम् ॥
ईश्वरांशं च तं दृष्ट्वा प्राह याहीति मा चिरम् ॥ ५७ ॥
स बाणैर्भिन्नसर्वांगः शार्ङ्गं हि धनुषां वरम् ॥
विकृष्य घातयामास चतुर्भिश्चतुरो हयान् ॥ ५८ ॥
सारथेस्तु शिरः कायादर्द्धचंद्रेण पत्त्रिणा ॥
चिच्छेद धनुरेकेन ध्वजमेकेन चिच्छिदे ॥ ५९ ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
प्रगृह्य च महाखङ्गमुवाच वचनं तदा ॥ 7.4.20.६० ॥
यदि त्वां पातयिष्यामि कीर्तिर्मे ह्यतुला भवेत् ॥
पातितोऽहं त्वया वीर यास्यामि परमां गतिम् ॥ ६१ ॥
तिष्ठतिष्ठ हरे स्थाने शरणं मे सदाशिवः ॥
धावंतमतिसंक्रुद्धं खङ्गहस्तं निरीक्ष्य तम् ॥
चक्रेण शितधारेण शिरश्चिच्छेद लीलया ॥ ६२ ॥
तं छिन्नशिरसं भूमौ पतितं वीक्ष्य दानवम् ॥
अथोवाह रथेनाजौ दैत्यः खंजनकस्तथा ॥ ६३ ॥
अपयाते कुशे दैत्ये विष्णुः संकर्षणस्तदा ॥
दुर्वाससा च सहितः संन्यवर्तत हर्षितः ॥ ६४ ॥
शिवालये तु पतितं कुशं निक्षिप्य दानवः ॥
स्नानगन्धार्चनैर्धूपैर्गीतवाद्यैरतोषयत् ॥ ६५ ॥
अवाप जीवितं सद्यः प्रसादाच्छंकरस्य च ॥
उत्थितः स तदा दैत्यो ब्रुवञ्छिवशिवेति च ॥ ६६ ॥
तं पुनर्जोवितं दृष्ट्वा दैत्यं दैत्यगणस्तदा ॥
उवाच सुमना वाक्यं वर्द्धस्व सुचिरं विभो ॥६७॥
स्नापयित्वा यदि पुनर्ब्राह्मणं विनिवर्त्तते ॥
यथेष्टं गच्छतु तदा किं वृथा विग्रहेण ते ॥ ६८ ॥
तस्य तद्वचनं श्रुत्वा कुशो वचनमब्रवीत् ॥
गच्छ प्रेषय तौ शीघ्रं विप्रत्राणकरावुभौ ॥ ६९ ॥
स च राज्ञा समादिष्ट सुमना मुनिसत्तमाः ॥
उवाच विष्णुमानम्य नमस्कृत्य हलायुधम् ॥ 7.4.20.७० ॥
कुशेन प्रेषितश्चास्मि समीपे ते जनार्दन ॥
किं तवापकृतं नाथ येन दैत्याञ्जिघांससि॥ ७१॥
दुर्वाससं स्नापयित्वा गच्छ मुक्तोऽसि मानद ॥
अमरत्वं महादेवात्प्राप्तं विद्धि कुशेन हि ॥ ७२ ॥ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
मुक्तितीर्थमिदं रुद्धं भवद्भिः पापकर्मभिः ॥
तस्माद्धनिष्ये सर्वांश्च दानवान्नात्र संशयः ॥७३॥
दुर्वाससश्च ये दर्भास्तिलाश्चैवाक्षतैः सह ॥
पुनस्तानानयध्वं हि क्षिप्ता ये वरुणालये ॥ ७४ ॥
सवाहनपरीवाराः सजातिकुलबांधवाः ॥
पुण्यतीर्थमिदं हित्वा प्रविशध्वं धरातले ॥ ७५ ॥
सुमनास्तद्वचः श्रुत्वा क्रोधसंरक्तलोचनः ॥
युध्यध्वमिति तं चोक्त्वा नैतदेवं भविष्यति ॥ ७६ ॥
कुशाय कथयामास यदुक्तं शार्ङ्गधन्विना ॥
क्रुद्धस्तद्वचनं श्रुत्वा मंत्रिणा समुदीरितम् ॥ ७७ ॥
रथमारुह्य वेगेन ययौ योद्धुमरिंदमः ॥
संस्मृत्य मनसा देवं पिनाकिं वृषभध्वजम् ॥ ७८ ॥
ततः प्रववृते युद्धं सुमहल्लोमहर्षणम् ॥
अन्येषां दानवानां च केशवस्य कुशस्य च ॥ ७९ ॥
यज्ञघ्नो गदया गुर्व्या संकर्षणमताडयत् ॥
संकर्षणहतः शीर्ष्णि मुसलेन पपात ह ॥ 7.4.20.८० ॥
कञ्चुकं च जघानाशु चक्रेण भगवान्हरिः ॥
उल्मुकश्चाथ निहतो ब्रह्मघ्नश्च निपातितः ॥ ॥ ८१ ॥
एते चान्ये च बहवो घातिताः केशवेन हि ॥
दानवान्पतितान्दृष्ट्वा कुशः परमकोपितः ॥८२॥
जघान युधि संरब्धः परमास्त्रेण केशवम् ॥
भगवान्क्रोधसंयुक्तश्चक्रेण चाहरच्छिरः ॥ ८३ ॥
तं छिन्नशिरसं भूमौ पातितं वीक्ष्य केशवः ॥
चिच्छेद बाहू पादौ च खङ्गेन तिलशस्तथा ॥८४॥
खंडशो घातितं दृष्ट्वा केशवेन कुशं तदा ॥
संगृह्य ते पुनर्देत्या निन्युः सर्वे शिवालयम् ॥ ८५ ॥
प्रसादाच्छूलिनः सद्यो जीवितं प्राप्य दानवः ॥
उत्थितः सहसा क्रुद्धः क्व विष्णुरिति चाब्रवीत् ॥ ८६ ॥
गदामुद्यम्य संक्रुद्धो योद्धुमागाज्जनार्द्दनम् ॥
तमुद्यतगदं दृष्ट्वा निहतं जीवितं पुनः ॥ ॥ ८७ ॥
दुर्वाससमथोवाच किमिदं न म्रियेत यत् ॥
मयाऽसकृच्छिरश्छिन्नं खंडशस्तिलशः कृतम् ॥ ८८ ॥
जीवत्ययं पुनः कस्मात्कारणं कथ यस्व नः ॥
इत्युक्तश्चिंतयामास ध्यानेन ऋषिसत्तमः ॥ ८९ ॥
ज्ञात्वा तत्कारणं सर्वमुवाच मधुसूदनम् ॥
महादेवेन तुष्टेन कुशोऽयममरः कृतः ॥ ॥ 7.4.20.९० ॥
खंडशश्च कृतश्चापि न च प्राणैर्वियुज्यते ॥
ततः स विस्मयाविष्टो हंतव्योऽयं मया कथम् ॥ ९१ ॥
उपायं च करिष्यामि येनायं न भवे दिति ॥
ततः स जीवितं प्राप्य प्रसादाच्छंकरस्य च ॥
चर्मखङ्गमथादाय तिष्ठतिष्ठेति चाब्रवीत् ॥ ९२ ॥
तमायांतं ततो दृष्ट्वा कुशं शिवपरिग्रहम् ॥
जघान गदया गुर्व्या गदाहस्तं तदा कुशम् ॥ ९३ ॥
स भिन्नमूर्द्धा न्यपतत्केशवेनाभिताडितः ॥
भूमौ निपतितं वेगात्परिगृह्य कुशं हरिः ॥ ॥ ९४ ॥
गर्ते निक्षिप्य तद्देहं पूरयामास वै पुनः ॥
लिंगं संस्थापयामास तस्योपरि जनार्द्दनः ॥ ९५ ॥
स लब्धसंज्ञो दनुजः शिवलिंगमपश्यत ॥
आत्मोपरिस्थितं तच्च तदा चिन्तापरोऽभवत्॥ ९६ ॥
इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थे राक्षसकुशविष्णुयुद्धे कुशराक्षसोपरि विष्णुना शिवलिंगस्थापनवर्णनंनाम विंशतितमोऽध्यायः ॥ २० ॥