स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः २२
॥ श्रीप्रह्लाद उवाच ॥ ॥
शृणुध्वं द्विजशार्दूला यथावत्कथयामि वः ॥
स्नापयित्वा जगन्नाथं तथा गंधैर्विलिप्य च ॥
पूजयित्वा तुलस्या तु भूषयित्वा च भूषणैः ॥ १ ॥
नैवेद्येन च सन्तर्प्य तथा नीराजनादिभिः ॥
दुर्वाससं तथा पूज्य पुंडरीकाक्षमेव च ॥२॥
अनंतं वैनतेयादीन्भक्त्या सम्पूज्य मानवः ॥
दद्याद्दानं स्वशक्त्या च वित्तशाठ्यविवर्जितः ॥ ३ ॥
दीनांधकृपणांस्तत्र तर्पयेच्च समाश्रितान् ॥ ४ ॥
रुक्मिणीं च ततो गच्छेद्विदर्भतनयां नरः ॥
उपहृत्योपहारांश्च बलिभिर्गंधदीपकैः ॥ ५ ॥
पीडयंति ग्रहास्तावद्व्याधयोऽभिभवंति च ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥ ६ ॥
उपसर्गभयं तावद्दुःखं च भूतसंभवम् ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥ ७ ॥
भवेद्दरिद्री दुःखी च तावद्वै परयाचकः ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ ॥ ८ ॥
तावन्मृतप्रजा नारी दुर्भाग्या दुःखसंयुता ॥
भक्त्या न पश्यति यदा नारीकृष्णप्रियां तथा ॥ ९ ॥
तावच्छत्रुभयं पुंसां गृहभंगं च मूर्खता ॥
भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ॥7.4.22.१०॥
संपूज्य क्रृष्णं विधिवद्रुक्मिणीं पूजयेत्ततः ॥
स्नापयेद्दधिदुग्धाभ्यां मधुशर्करया तथा ॥ ११ ॥
घृतेन विविधैर्गन्धैस्तथैवेक्षुरसेन च ॥
तीर्थोदकेन संस्नाप्य सर्वान्कामानवाप्नुयात् ॥ १२ ॥
एवं यः स्नापये द्देवीं रुक्मिणीं क्रृष्णवल्लभाम् ॥
न तस्य दुर्ल्लभं किंचिदिह लोके परत्र च ॥ १३ ॥
श्रीखण्डकुंकुमेनैव तथा मृगमदेन च ॥
विलेपयेदपुत्रस्तु स पुत्रं लभते धुवम् ॥ १४ ॥
सदा स भोगी भवति रूपवाञ्जनपूजितः ॥
पूजयेन्मालतीपुष्पैः शतपत्रैः सुगन्धिभिः ॥ १५ ॥
करवीरैर्मल्लिकाभिश्च चम्पकैस्तु विशेषतः ॥
कमलैर्वारिसंभूतैः केतकीभिश्च पाटलैः ॥ १६ ॥
धूपेनागुरुणा चैव पूजयेद्गौग्गु लेन च ॥
वस्त्रैः सुकोमलैः शुभ्रैर्नानादेशसमुद्भवैः ॥ १७ ॥
भक्त्या संछाद्य वैदर्भीं रुक्मिणीं कृष्णवल्लभाम् ॥
भूषणैर्भूषयेद्देवीं मणिरत्न समन्वितैः ॥ १८ ॥
तस्मिन्कुले नाऽसुखः स्यान्नाऽधर्मो नाऽधनस्तथा ॥
नाऽपुत्रो न विकर्मस्थः कितवो नीचसेवकः ॥ १९ ॥
यैः पूजिता जगन्माता रुक्मिणी मानवैः कलौ ॥
नैवेद्यैर्भक्ष्यभोज्याद्यैर्देवी मे प्रीयतामिति ॥
तांबूलं च सकर्पूरं भावेन विनिवेदयेत् ॥ 7.4.22.२० ॥
गृहीत्वा च फलं शुभ्रं ह्यक्षतैश्च समन्वितम्॥
मन्त्रेणानेन वै विप्रा ह्यर्घ्यं दद्याद्विधानतः ॥ २१ ॥
कृष्णप्रिये नमस्तुभ्यं विदर्भाधिपनंदिनि ॥
सर्वकामप्रदे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ २२ ॥
आरार्तिकं ततः कुर्याज्ज्वलन्तं भावनान्वितः ॥
नीराजनं प्रकर्तव्यं कर्पूरेण विशेषतः ॥ २३ ॥
शंखे कृत्वा तु पानीयं भ्रामयेद्भावसंयुतः ॥
भ्रामयित्वा च शिरसा धारणीयं विशुद्धये ॥ २४ ॥
दण्डवत्प्रणमेद्भूमौ नमः कृष्णप्रियेति च ॥
विप्रपत्नीश्च विप्रांश्च पूजयेच्छक्तितो द्विजाः॥ २५ ॥
ग्रीवासूत्रकसिन्दूरैर्वासोभिः कञ्चुकैस्तथा ॥
सुगन्धकुसुमैरर्च्य कुंकुमेन विलिप्य च ॥ २६ ॥
कौसुंभकैः कज्जलेन तांबूलेन च तोषयेत् ॥
भक्ष्यैर्भोज्यैमोदकैश्च इक्षुभिर्मधुसर्पिभिः ॥ २७ ॥
प्रीतो भवति देवेशो रुक्मिण्या सह केशवः ॥
विशेषतः फलानीह दातव्यानि द्विजोत्तमाः ॥ २८ ॥
उन्मत्तकं ततो देवं द्वारपालं प्रपूजयेत् ॥
स्नापयित्वा सुगन्धेन कुंकुमेन विलिप्य च ॥ २९ ॥
धूपेन धूपयित्वा तु पुष्पाद्यैः संप्रपूजयेत ॥
नैवेद्यैर्भक्ष्यभोज्यैश्च मांसेन सुरया तथा ॥ 7.4.22.३० ॥
प्रभूतबलिभिश्चैव पिष्टेन विविधेन च ॥
योगिनीनां चतुःषष्टिं तस्मिन्पीठे प्रपूजयेत् ॥ ३१ ॥
अर्चयेद्धरसिद्धिं च क्षेत्रपालं च सर्वशः ॥
विरूपस्वामिनीं तत्र तथा वै सप्तमातरः ॥ ३२ ॥
अष्टमूर्तीः कृष्णपत्नीः पीठे तस्मिन्प्रपूजयेत् ॥
रुक्मिणीं सत्यभामां च शुभां जांबवतीं तथा ॥ ३३ ॥
मित्रविन्दां च कालिन्दीं भद्रां नाग्नजितीं तथा ॥
अष्टमीं लक्ष्मणां तत्र पूजयेत्कृष्णवल्लभाः ॥ ३४ ॥
एताः संपूज्य विधिवत्संतर्प्य दधिपायसैः ॥
गीतवादित्रघोषेण दीपैर्जागरणेन च ॥ ३५ ॥
पुत्र पौत्रसमायुक्तो धनधान्यसमन्वितः ॥
सर्वान्कामानवाप्नोति तस्य विष्णुः प्रसीदति ॥ ३६ ॥
किं तस्य वहुदानैस्तु किं व्रतैर्नियमैस्तथा ॥
येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥ ३७ ॥
किं यज्ञैर्बहुभिस्तस्य संपूर्णवरदक्षिणैः ॥
येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥ ३८ ॥
तेन दत्तं हुतं तेन जप्तं तेन सनातनम् ॥
येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा ॥३९॥
हेलया तेन संप्राप्ताः सिद्धयोऽष्टौ न संशयः ॥
गत्वा द्वारवतीं येन दृष्टा केशववल्लभा ॥ 7.4.22.४० ॥
सफलं जीवितं तस्य सफलाश्च मनोरथाः ॥
कलौ कृष्णपुरीं गत्वा दृष्ट्वा माधववल्लभाम् ॥ ४१ ॥
देव राज्येन किं तस्य तथा मुक्तिपदेन च ॥
न दृष्टा चेज्जगन्माता रुक्मिणी कृष्णवल्लभा ॥ ४२ ॥
तस्मात्सर्वप्रयत्नेन रुक्मिणी कृष्णवल्लभा ॥
सदाऽर्चनीया मनुजैर्द्रष्टव्या सर्वकामदा॥४३॥
विशेषतः पूजनीया नवरात्रे सदाश्विने ॥
नवम्यां तु नरैर्यैस्तु पूजिता हरिवल्लभा॥४१॥
स्नानगन्धादि वस्त्रैस्तु प्रभूतबलिभिस्तथा ॥
गीतवादित्रघोषेण दीपजागरणेन च ॥
तोषिता भीष्मकसुता सर्वान्कामान्प्रयच्छति ॥ ४५ ॥
तथा दीपोत्सवदिने चतुर्द्दश्यां समाहितः ॥
पूजयित्वा यथाशास्त्रमीप्सितं लभते फलम् ॥ ४६ ॥
माघमासे सिताष्टम्यां कन्दर्प्पजननी तु यैः ॥
पूजिता गन्धपुष्पाद्यैरुपहारैरनेकशः ॥
सफलं जीवितं तेषां सफलाश्च मनोरथाः ॥ ४७ ॥
द्वादश्यां चैत्रमासे तु कृष्णेन सह रुक्मिणीम् ॥
ये पश्यंति नरा देवीं रुक्मिणीं मधुमाधवे ॥
कृष्णेन सह गच्छन्तीं धन्यास्ते मानवा भुवि ॥४८॥
पुत्रपौत्रसमायुक्ता धनधान्यसमन्विताः॥
जीविते व्याधिनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ४९ ॥
ज्येष्ठाष्टम्यां नरैर्यैस्तु पूजिता कुष्णवल्लभा ॥
तेषां मनोरथावाप्तिर्जायते नात्र संशयः ॥ 7.4.22.५० ॥
तथा भाद्रपदे मासि मातुः पूजा कृता तु यैः ॥
सर्वपापविनिर्मुक्ता यांति विष्णुपदे नराः ॥ ५१ ॥
कार्त्तिके मासि द्वादश्यां रुक्मिणीं कृष्णसंयुताम् ॥
ये पश्यंति नरास्तेषां न भयं विद्यते क्वचित् ॥ ५२ ॥
यस्त्वेकत्र स्थितां पश्येद्रुक्मिणीं कृष्णसंयुताम् ॥
सफलं जीवितं तस्य ह्यक्षया पुत्रसंततिः ॥
अक्षयं धनधान्यं च कदा नैव दरिद्रता ॥ ५३ ॥
य एवं रुक्मिणीं पश्येत्पूजयेत्कृष्णवल्लभाम् ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५४ ॥
यः स्नायात्सर्वतीर्थेषु दानं शक्त्या ददाति यः ॥
तस्य पुण्यफलं चैव लोके यज्जायते द्विजाः ॥
कथितं तदशेषेण कलौ कृष्णस्य संस्थितौ ॥ ५५ ॥
द्वारावतीं विना विप्रा मुक्तिर्न प्राप्यते कलौ ॥
पुराणसंहितामेतां कृतवान्बलिबन्धनः ॥
ददौ स तु प्रसादेन पूर्वं मह्यं द्विजोत्तमाः ॥ ५६ ॥
इहार्थे च पुरा प्रोक्तं इतिहासो द्विजोत्तमाः ॥
प्रद्युम्नेन सुसंवादे मार्कण्डेन महात्मना ॥ ५७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीपूजनमाहात्म्यवर्णनंनाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥ छ ॥ ॥