स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ००१
॥ अथश्रीस्कान्दे महापुराणे सप्तमं प्रभासखण्डम् ॥ ७ ॥
॥ श्रीगणेशाय नमः ॥
॥ अथ प्रभासखण्डं प्रारभ्यते ॥
॥ तत्रेदं प्रथमं प्रभासक्षेत्रमाहात्म्यम् ॥ ५ ॥
ॐनमः श्रीपरमात्मने परमपुरुषोत्तमाय ॥
ॐ नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यः ॥
॥ व्यास उवाच ॥ ॥
यश्चाद्यः पुरुषः पुराण इति यः संस्तूयते सर्वतः सोमेशः सुरसंयुतः क्षितितले यैर्वीक्षितो हीक्षणैः॥
ते तीर्त्वा विततांतरं भवभयं भूत्याऽभिसंभूषिताः स्वर्गं यानवरैःप्रयान्ति सुकृतैर्यज्ञै यथा यज्विनः ॥ १ ॥
प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ॥
षड्त्रिंशत्तत्त्वदेहाय नमश्चिन्मात्रमूर्तये ॥ २ ॥
अमृतेनोदरस्थेन म्रियन्ते सर्वदेवताः ॥
कंठस्थित विषेणापि यो जीवति स पातुः वः ॥ ३ ॥
सत्रान्ते सूतमनघं नैमिषेया महर्षयः॥
पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम्॥ ४ ॥
त्वया सूत महा बुद्धे भगवान्ब्रह्मवित्तमः ॥
इतिहासपुराणार्थे व्यासः सम्यगुपासितः ॥ ५ ॥
तस्य ते सर्वरोमाणि वचसा हर्षितानि यत् ॥
द्वैपायनस्यानुभावात्ततोऽभू रोमहर्षणः ॥ ६ ॥
भवन्तमेव प्रथमं व्याजहार स्वयं प्रभुः ॥
मुनीनां संहितां वक्तुं व्यासः पौराणिकीं कथाम् ॥ ७ ॥
त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः ॥
संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ ८ ॥
तस्माद्भवन्तं पृच्छामः पुराणे स्कन्दकीर्तिते ॥
प्रभासक्षेत्रमाहात्म्ये ब्राह्मी यात्रा श्रुता पुरा ॥ ९ ॥
अधुना वैष्णवीं रौद्रीं यात्रां सर्वार्थसंयुताम् ॥
वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ 7.1.1.१० ॥
मुनीना वचनं श्रुत्वा सूतः पौराणिकोत्तमः ॥
प्रणम्य शिरसा प्राह व्यासं सत्यवतीसुतम् ॥ ११ ॥
॥ रोमहर्षण उवाच ॥ ॥
श्रीवत्सांकं जगद्योनिं हरिमोंकाररूपिणम् ॥
अप्रमेयं गुरुं देवं निर्मलं निर्मलाश्रयम् ॥ १२ ॥
हंसं शुचिषदं व्योम व्यापकं सर्वदं शिवम् ॥
उदासीनं निरायासं निष्प्रपञ्चं निरञ्जनम् ॥ १३ ॥
शून्यं बिंदुस्वरूपं तु ध्येयं ध्यानविवर्जितम् ॥
अस्ति नास्तीति यं प्राहुः सुदूरे चान्तिके च यत् ॥ १४ ॥
मनोग्राह्यं परं धाम पुरुषाख्यं जगन्मयम् ॥
हृत्पंकजसमासीनं तेजोरूपं निरिन्द्रियम् ॥ १५ ॥
एवंविधं नमस्कृत्य परमात्मानमीश्वरम् ॥
कथां वदिष्ये द्विविधां द्विशरीरां तथैव तु ॥ १६ ॥
दिव्यभाषासमोपेतां वेदाधिष्ठानसंयुताम् ॥
पञ्चसंधिसमायुक्तां षडलंकारभूषिताम् ॥ १७ ॥
सप्तसाधनसंयुक्तां रसाष्टगुणरंजिताम् ॥
गुणैर्नवभिराकीर्णां दशदोषविवर्जिताम् ॥ १८ ॥
विभाषाभूषितां तद्वदेकायत्तां मनोहराम् ॥
पञ्चकारणसंयुक्तां चतुष्करणसम्मताम् ॥१९ ॥
Comments on Prabhaasa
पुनश्च द्विविधां तद्वज्ज्ञानसंदोहदायिनीम् ॥
व्यासेन कथितां पुण्यां शृणुध्वं पापनाशिनीम् ॥ 7.1.1.२० ॥
यां श्रुत्वा पापकर्मापि गच्छेद्धि परमां गतिम् ॥
दुःखत्रयविनिर्मुक्तः सर्वातङ्कविवर्जितः ॥ २१ ॥
न नास्तिके कथां पुण्यामिमां ब्रूयात्कदाचन ॥
श्रद्दधानाय शान्ताय कीर्तनीया द्विजातये ॥२२ ॥
निषेकादिः श्मशानान्तो मन्त्रैर्यस्योदितो विधिः ॥
तस्य शास्त्रेऽधिकारोऽस्ति ज्ञेयो नान्यस्य कस्यचित्॥ २३ ॥
चतुःपक्षावदातस्य विशुद्धिर्ब्राह्मणस्य च ॥
सद्वृत्तस्याधिकारोऽस्ति शास्त्रेऽस्मिन्वेदसम्मते ॥ २४ ॥
यथा सुराणां प्रवरो देवदेवो महेश्वरः ॥
नदीनां च यथा गंगा वर्णानां ब्राह्मणो यथा ॥ २५ ॥
अक्षराणां तु सर्वेषामोंकारः प्रथमो यथा ॥
पूज्यानां तु यथा माता गुरूणां च यथा पिता ॥
तथैव सर्वशास्त्राणां प्रधानं स्कन्दकीर्तितम् ॥ २६ ॥
पुरा कैलासशिखरे ब्रह्मादीनां च सन्निधौ ॥
स्कान्दं पुराणं कथितं पार्वत्यग्रे पिनाकिना ॥ ॥ २७ ॥
पार्वत्या षण्मुखस्याग्रे तेन नन्दिगणाय वै ॥
नन्दिना तु कुमाराय तेन व्यासाय धीमते ॥ २८ ॥
व्यासेन मे समाख्यातं भवद्भ्योऽहं प्रकीर्तये ॥ २९ ॥
यूयं सद्भावसंयुक्ता यतः सर्वे महर्षयः ॥
तेन मे भाषितुं श्रद्धा भवतां स्कन्दसंहिताम् ॥ 7.1.1.३० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रश्नाध्यायवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥