स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१३

← अध्यायः ०१२ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्
अध्यायः ०१३
वेदव्यासः
अध्यायः ०१४ →

॥ देव्युवाच ॥ ॥
यदा भ्रमिस्थः सविता तक्षितः क्षुरधारया ॥
श्वशुरेण महादेव जामाता प्रीतिपूर्वकम्॥ १ ॥
तत्तेजः शातितं भूरि प्रभासे यत्पपात वै ॥
तदभूत्किं तदा देव प्रभासात्कथयस्व मे ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि सूर्यमाहात्म्यमुत्तमम् ॥
यच्छ्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः ॥३॥
देहावतारो देवस्य प्रभासेऽर्कस्थलस्य च ॥
पुराणाख्यानमाचक्षे तव देवि यशस्विनि ॥ ४ ॥
शाकद्वीपे महादेवि भ्रमिस्थस्य तदा रवेः ॥
वर्षाणां तु शतं साग्रं तक्ष्यमाणे विभावसौ ॥ ५ ॥
यदाद्य भागजं तेजस्तत्प्रभासेऽपतत्प्रिये ॥
पतितं तत्र तत्तेजः स्थलाकारं व्यजायत ॥ ६ ॥
जांबूनदमयं देवि तत्पूर्वमभवत्क्षितौ ॥
तिष्यमाहात्म्ययोगेन शैलीभूतं च सांप्रतम् ॥ ७ ॥
तत्र चार्कमयं रूपं कृत्वा देवो दिवाकरः ॥
उत्पन्नः सर्वभूतानां हिताय धरणीतले ॥ ८ ॥
हिरण्यगर्भनामेति कृते सूर्येति कीर्तितम् ॥
त्रेतायां सवितानाम द्वापरे भास्करः स्मृतः ॥ ९ ॥
कलौ चार्कस्थलोनाम त्रिषु लोकेषु कीर्तितः ॥
अवतीर्णमिदं देवि स्वयमेव प्रतिष्ठितम्॥ 7.1.13.१० ॥
यदा स्वारोचिषो देवि द्वितीयोऽभून्मनुः पुरा ॥
तस्मिन्कालेऽवतीर्णोऽसौ देवस्तत्र दिवाकरः ॥ ११ ॥
भक्तिमुक्ति प्रदो देवि व्याधिदुःखविनाशकृत् ॥
तस्य तेजोद्भवैर्व्याप्तं रेणुभिः पञ्चयोजनम् ॥ १२ ॥
दक्षिणोत्तरतो देवि पञ्चपूर्वापरेण तु ॥
उत्तरेण समुद्रस्य यावन्माहेश्वरी नदी ॥ १३ ॥
न्यंकुमत्याश्चापरतो यावदेव कृतस्मरम् ॥
एतद्व्याप्तं महादेवि तत्तेजोरेणुभिः शुभैः ॥ १४ ॥
तस्य सूक्ष्मा प्रभा या तु आदितेजोविनिःसृता ॥
तया व्याप्तं महादेवि यावद्द्वादशयोजनम् ॥ १५ ॥
उत्तरे भास्करसुता दक्षिणे सरितां पतिः ॥
पूर्वपश्चिमतो देवि रुक्मिणीद्वितयं स्मृतम् ॥ १६ ॥
एतस्मिन्नन्तरे देवि सौरं तेजः प्रसर्प्पितम् ॥
तेन पावित्र्यमानीतं क्षेत्रं द्वादशयोजनम् ॥ १७ ॥
तस्य मध्यस्य यन्मध्यं तद्गृहं मम सुन्दरि ॥
तेजोमण्डलमध्यस्थं मम स्थानं महेश्वरि ॥ १८ ॥
चक्षुर्मंडलमध्ये तु यथा देवि कनीनिका ॥
पूर्वपश्चिमतो देवि गोमुखादाऽऽश्वमेधिकम्॥ १९ ॥
दक्षिणोत्तरतो देवि समुद्रात्कौरवेश्वरीम् ॥
एतस्मिन्नंतरे क्षेत्रे क्षेत्रज्ञोऽहं वरानने ॥ 7.1.13.२० ॥
यस्मादर्कस्य तेजोभिर्भासितं मम तद्गृहम् ॥
तस्मात्प्रभासनामेति कल्पेऽस्मिन्प्रथितं प्रिये ॥ २१ ॥
तत्र पश्यति यः सूर्यमर्क्करूपं नरोत्तमः ॥
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥ २२ ॥
स स्नातः सर्वतीर्थेषु तेन चेष्टं महामखैः ॥
सर्वदानानि दत्तानि पूर्वजास्तेन तोषिताः ॥ २३ ॥
अर्करूपी यतः सूर्यस्तत्र जातो महीतले ॥
तस्मात्त्याज्यः सदा चार्को भोजनेऽत्र न संशयः ॥ २४ ॥
यो दृष्ट्वार्कस्थलं मर्त्त्यश्चार्कपत्रेषु भुंजति ॥
गोमांसभक्षणं तेन कृतं भवति भामिनि ॥ २५ ॥
भक्षितो भास्करस्तेन स कुष्ठी जायते नरः ॥
तस्मात्सर्वप्रयत्नेन चार्कपत्राणि वर्जयेत् ॥ २६ ॥
यात्रायां प्रथमं देवि दृष्टो येनार्कभास्करः ॥
तं दृष्ट्वा महिषीं दद्याद्ब्राह्मणाय विपश्चिते ॥ ॥ २७ ॥
ताम्रवर्णं रक्तवस्त्रं ततस्तुष्यति भास्करः ॥
तस्य चैव तु सांनिध्ये वह्निकोणे व्यवस्थितम् ॥ २८ ॥
नातिदूरे महाभागे सिद्धेश्वरमिति स्मृतम् ॥
सर्वसिद्धिप्रदं देवि लिंगं त्रैलोक्यपूजितम् ॥ २९ ॥
जैगीषव्येश्वरंनाम पूर्वं कृतयुगेऽभवत् ॥
कलौ सिद्धेश्वरमिति प्रसिद्धिमगमत्प्रिये ॥ 7.1.13.३० ॥
तं दृष्ट्वा मनुजो देवि सर्वसिद्धिमवाप्नुयात् ॥
तत्रैव देवदेवेशि नातिदूरे व्यवस्थितम् ॥३१॥
सूर्यदक्षिणनैर्ऋत्ये पातालविवरं प्रिये ॥
मंदेहा राक्षसा यत्र तथा शालकटंकटाः ॥ ३२ ॥
सूर्यस्य तेजसा दग्धाः पातालमगमन्पुरा ॥
कलौ तद्द्वारमेवास्ति न पाताले गतिः प्रिये ॥ ३३ ॥
योगिन्यस्तत्र रक्षंति ब्राह्म्याद्या मातरस्तथा ॥
माघेकृष्णचतुर्दश्यां रात्रौ मातृगणान्यजेत् ॥
बलिपुष्पोपहारैश्च ततः सिद्धिर्भविष्यति ॥ ३४ ॥
इति हि सकलधर्मभावहेतोर्हरकमलासनविष्णुसंस्तुतस्य॥
तनुपरिलिखनं निशम्य भानोर्व्रजति दिवाकरलोकमायुषोंऽते॥३५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासपवित्रनामकरणार्कस्थलोत्पत्तिवर्णनंनाम त्रयोदशोऽध्यायः ॥ ॥ १३ ॥