स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०२४

॥ देव्युवाच ॥ ॥
कस्मिन्काले जगन्नाथ तत्र लिंगं प्रतिष्ठितम् ॥
कथमाराधनं चक्रे कृतार्थो रोहिणीपतिः ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
त्रेतायुगे च दशमे मनोर्वैवस्वतस्य हि ॥
संजातो रोहिणीनाथो युक्तो दुर्वाससा प्रिये ॥ २ ॥
तस्मिन्काले तदा तत्र गते वर्षसहस्रके ॥
ततः कृत्वा तपश्चायं प्रत्यक्षीकृतशंकरः ॥ ३ ॥
लिंगं प्रतिष्ठयामास ब्रह्मणा लोककर्तॄणा ॥
पुनर्वर्षसहस्रं तु पूजयामास शंकरम्॥ ४ ॥
ततः संपूज्य विधिना निजकार्यार्थसिद्धये ॥
स्तुतिं चक्रे निशानाथः प्रत्यक्षीकृतशंकरः ॥ ५ ॥
॥ चंद्र उवाच ॥
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥
[१]नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥ ६ ॥
यं पठंति सदा सांख्याश्चितयंति च योगिनः ॥
परं प्रधानं पुरुषं तस्मै [२]ज्ञेयात्मने नमः ॥ ७ ॥
उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः ॥
देवासुरमनुष्याणां तस्मै [३]ज्ञानात्मने नमः ॥ ८ ॥
यमव्ययमनाद्यंतं यं नित्यं शाश्वतं ध्रुवम् ॥
निष्कलं परमं [४]ब्रह्म तस्मै योगात्मने नमः ॥ ९ ॥
यः पवित्रं पवित्राणामादिदेवो महेश्वरः ॥
पुनाति दर्शनादेव तस्मै तीर्थात्मने नमः ॥ 7.1.24.१० ॥
यतः प्रवर्त्तते सर्वं यस्मिन्सर्वं विलीयते ॥
पालयेद्यो जगत्सर्वं तस्मै सर्वात्मने नमः ॥ ११ ॥
अनिष्टोमादिभिर्यज्ञैर्यं यजंति द्विजातयः ॥
संपूर्णदक्षिणैरेव तस्मै यज्ञात्मने नमः ॥ १२ ॥
॥ ईश्वर उवाच ॥ ॥
एवं स संस्तुते यावद्दिवारात्रौ निशाकरः ॥
अब्रवीद्भगवान्प्रीतः प्रहसन्निव शंकरः ॥ १३ ॥
॥ शंकर उवाच ॥ ॥
परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन शीतगो ॥
वरं वरय भद्रं ते भूयो यत्ते मनोगतम् ॥ १४ ॥
॥ चंद्र उवाच ॥ ॥
यदि देयो वरोऽस्माकं यदि तुष्टोऽसि मे प्रभो ॥
सांनिध्यं कुरु देवेश लिंगेऽस्मिन्सर्वदा विभो ॥१५॥
ये त्वां पश्यंति चात्रस्थं भक्त्या परमया युताः ॥
तेषां तु परमा सिद्धिस्त्वत्[५]प्रसादात्सुरेश्वर ॥ ॥ १६ ॥
॥ शंभुरुवाच ॥ ॥
अग्रे तु मम सांनिध्यमस्मिँल्लिंगे महाप्रभो ॥
विशेषतोऽधुना चंद्र तव भक्त्या निरंतरम् ॥ १७ ॥
स्थातव्यमद्यप्रभृति क्षेत्रेऽस्मिन्नुमया सह ॥
यस्मात्त्वया प्रभा लब्धा क्षेत्रेऽस्मिन्मत्प्रसादतः ॥
तस्मात्प्रभासमित्येवं नामास्य प्रभविष्यति ॥ १८ ॥
यस्मात्प्रतिष्ठितं लिंगं त्वया सोम शुभं मम ॥
सोमनाथेति मे नाम तस्मात्ख्यातिं[६] गमिष्यति ॥ १९ ॥
यन्ममाग्रेतनं नामख्यातं ब्रह्मावसानिकम्॥
सोमनाथेति च पुनस्तदेव प्रचरिष्यति॥
द्रक्ष्यंति हि नरा ये मामत्रस्थं भक्तितत्पराः ॥ 7.1.24.२० ॥
शृणु तेषां फलं वत्स भवि[७]ष्यति निशाकर ॥
न तेषां जायते व्याधिर्न दारिद्र्यं न दुर्गतिः ॥
न चेष्टेन वियोगश्च मम चंद्र प्रभावतः ॥ २१ ॥
यात्रां कुर्वंति ये भक्त्या मम दर्शनकांक्षिणः ॥
पदे पदेश्वमेधस्य तेषां फलमुदाहृतम्॥ २२ ॥
किं कृतैर्बहुभिर्यज्ञैरुपवासैर्निशाकर ॥
सकृत्पश्यंति मां येऽत्र ते सर्वे लेभिरे[८] फलम् ॥। २३ ॥
एकमासोपवासं तु कुरुते भक्तितत्परः ॥
यावद्वर्षसहस्रं तु एकः पश्यंति मामिह ॥ २४ ॥
[९]द्वाभ्यामपि फलं तुल्यं नास्ति काचिद्विचारणा ॥ २५ ॥
एको भवेद्ब्रह्मचारी यावज्जीवं निशाकर ॥
सकृत्पश्यति मामत्र समं [१०]ताभ्यां फलं स्मृतम् ॥ २६ ॥
एको दानानि सर्वाणि प्रयच्छति द्विजातये ॥
एकः पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥ २७ ॥
एको व्रतानि सर्वाणि कुरुते मृगलांछन ॥
अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम्॥ २८॥
एकस्तीर्थानि कुरुते जपजाप्यानि भूरिशः ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ २९ ॥
एको ज्ञानादियोगेन मुमुक्षुर्जायते ध्रुवम्॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्॥7.1.24.३॥।
एकस्तु भृगुपातेन याति मृत्युं निशाकर॥
अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम् ॥ ३१ ॥
एकः स्नाति सदा माघं प्रयागे नरसत्तमः ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ३२ ॥
एकः पिण्डप्रदानं च पितृतीर्थे समाचरेत् ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ ३३ ॥
गोसहस्रप्रदो ह्येको ब्राह्मणे वेदपारगे॥
एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ ३४ ॥
पञ्चाग्निं साधयेदेको ग्रीष्मकाले सुदारुणे ॥
एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ॥ ३५ ॥
स्नातः सोमग्रहे चन्द्र सोमवारे च भक्तितः ॥
यो मां पश्यति सर्वेषामेतेषां लभते फलम् ॥ ३६ ॥
सरस्वती समुद्रश्च सोमः सोमग्रहस्तथा ॥
दर्शनं सोमनाथस्य सकाराः पञ्च दुर्ल्लभाः ॥ ३७ ॥
नैरंतर्येण षण्मासान्विधिना यः प्रपूजयेत् ॥
पुण्यं तदेव सफलं लभते विषुवार्चनात् ॥ ३८ ॥
एतदेव तु विज्ञेयं ग्रहणे चोत्तरायणे ॥
संक्रांतिदिनच्छिद्रेषु [११]षडशीतिमुखेषु च ॥ ३९ ॥
मासैश्चतुर्भिर्यत्पुण्यं विधिनाऽऽपूज्य शंकरम् ॥
कार्त्तिक्यां स लभेत्पुण्यं चैत्र्यां तद्द्विगुणं स्मृतम् ॥
पुण्यमेतत्तु फाल्गुन्यामाषाढ्यामेवमेव तु ॥ 7.1.24.४० ॥
एको दद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे ॥
एको ममार्चयेल्लिंगं तस्य पुण्यं ततोऽधिकम् ॥ ४१ ॥
मासेमासे च योऽश्नीयाद्यावज्जीवं सुरेश्वरि ॥
यश्चार्च्चयेत्सकृल्लिंगं सममेतन्न संशयः ॥ ४२ ॥
तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥
सुवर्णकोटिं यद्दत्त्वा तत्फलं कुसुमेन तु ॥ ४३ ॥
अर्कपुष्पेऽपि चैकस्मिञ्छिवाय विनिवेदिते ॥
दश दत्त्वा सुवर्णानि यत्फलं तदवाप्नुयात् ॥ ४४ ॥
अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ॥
करवीर सहस्रेभ्यो द्रोणपुष्पं विशिष्यते ॥ ४५ ॥
द्रोणपुष्पसहस्रेभ्यो ह्यपामार्गं विशिष्यते ॥
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ॥
कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ ४६ ॥
शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते ॥
करवीरसमा ज्ञेया जातीविजयपाटलाः ॥ ४७ ॥
श्वेतमंदार कुसुमं [१२]सितंपद्मसमं भवेत् ॥
नागचंपकपुन्नागधत्तूरकुसुमं स्मृतम् ॥ ४८ ॥
केतकीजातिमुक्तं च कन्दयूथीमदन्तिकाः ॥
शिरीषसर्जजंबूककुसुमानि विवर्ज्जयेत् ॥ ४९ ॥
आकुलीकुसुमं पत्रं करंजेन्द्रसमुद्भवम् ॥
बिभीतकानि पुष्पाणि कुसुमानि विवर्ज्जयेत् ॥ 7.1.24.५० ॥
कनकानि कदंबानि रात्रौ देयानि शंकरे ॥
देवशेषाणि पुष्पाणि दिवा रात्रौ च मल्लिका ॥ ५१ ॥
प्रहरं तिष्ठते मल्ली करवीरमहर्निशम् ॥
कीटकेशापविद्धानि रात्रौ पर्युषितानि च ॥ ५२ ॥
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥
तुलसी शतपत्रं च गन्धारी दमनस्तथा ॥ ५३ ॥
सर्वासां पत्रजातीनां श्रेष्ठो मरुबकः स्मृतः ॥
एतैः पुष्पविशेषैस्तु पूज्यः सोमेश्वरः सदा ॥ ५४ ॥
यात्रायाः फलमाप्नोति स्वर्गलोके महीयते॥
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत ॥ ५५ ॥
चन्द्रमा यक्ष्मणा मुक्तः स्वस्थाननिरतोऽभवत् ॥
आहूय विश्वकर्माणं प्रासादं पर्यकल्पयत् ॥
शुद्धस्फटिकसंकाशं गोक्षीरधवलोज्ज्वलम् ॥ ५६ ॥
प्रासादं मेरुनामानं हेमप्राकारतोरणम् ॥
चतुर्दशान्ये परितः प्रासादाः परिकल्पिताः ॥
तेषां नामानि वक्ष्यामि प्रत्येकं तानि मे शृणु ॥ ५७ ॥
केसरी सर्वतोभद्रो नदनो [१३]नन्दिशालकः ॥
नन्दीशो मन्दरश्चैव श्रीवृक्षो ह्यमृतोद्भवः ॥ ५८ ॥
हिमवान्हेमकूटश्च कैलासः पृथिवीजयः ॥
इन्द्रनीलो महानीलो भूधरो रत्नकूटकः ॥ ५९ ॥
वैडूर्यः पद्मरागश्च वज्रको मुकुटोज्ज्वलः ॥
ऐरावतो राजहंसो गरुडो वृषभस्तथा ॥ 7.1.24.६० ॥
मेरुः प्रासादराजा च देवानामालयो हि सः ॥
आदौ पञ्चाण्डको ज्ञेयः केसरीनामतः स्थितः ॥ ६१ ॥
[१४]चतुर्थांशा च तद्वृद्धिर्यावन्मेरुः प्रकीर्तितः ॥ ६२ ॥
एवं पृथक्कारयित्वा प्रासादांश्च चतुर्दश ॥
ब्रह्मादीनां देवतानां समीपस्थानवासिनाम् ॥ ६३ ॥
दश चान्यान्भूधरादीन्वृषभान्तान्वरानने ॥
आदौ कपर्द्दिनं कृत्वा प्रासादान्पर्यकल्पयत् ॥ ६४ ॥
मेरुः प्रासादराजो वै स तु सोमेश्वरे कृतः ॥
त्रेतायुगे तु दशमे मनोवैर्वस्वतस्य च ॥ ६५ ॥
कारयित्वा मंडपांश्च प्रतिष्ठाप्य यथाविधि ॥
नदानां तु शतं कृत्वा वापीकूप सहस्रकम् ॥ ६६ ॥
गृहाणां तु सहस्राणि दीनानाथाश्रयाणि च ॥
कारयित्वा विधानेन विप्रेभ्यः प्रददौ पृथक् ॥ ६७ ॥
निवेश्य नगरं सोमः श्रीसोमेश्वरसन्निधौ ॥
स्वकर्मणां प्रचारार्थमथाभ्यर्थयत द्विजान् ॥ ६८ ॥
सोमोऽस्मि भवतां राजा प्रसादात्परमेष्ठिनः ॥
तथापि विनयेनैव भक्त्या[१५] विज्ञापयामि वः ॥ ६९ ॥
धनं हिरण्यरत्नादि धान्यं व्रीहियवादिकम् ॥
गोमहिष्यादिपशवो वस्त्राणि विविधानि च ॥ ॥ 7.1.24.७० ॥
कदलीनालिकेराणि तांबूलीपूगमालिनः ॥
मनोऽभिरामचरमा[१६] आरामाः परितः स्थिताः ॥ ७१ ॥
जंबूद्वीपाधिपाः सर्वे भवतामत्रवासि नाम्॥
आदेशं च करिष्यंति शिरस्याधाय शोभनम्[१७] ॥७२॥
द्वीपांतरादागतैश्च कर्पूरागुरुचंदनैः ॥
अन्यैश्च विविधैर्द्रव्यैः संपूर्णा भवतां गृहाः ॥७३॥
पण्यानां शतसंख्यानां व्यवहारनिदर्शिनः ॥
[१८]ब्रह्मोत्तराणि तन्वंति वणिजो लाभकांक्षिणः ॥ ७४ ॥
भवत्सु भृत्यभावेन वर्त्तमाना हितैषिणः ॥
ते चान्ये च तथा पौरा नावसीदंति कर्हिचित् ॥ ७५ ॥
एवं संपूर्णविभवैर्भवद्भिः श्रेयसे मम ॥
क्रतुक्रिया वितन्यंतां विधिवद्भूरिदक्षिणाः ॥ ७६ ॥
[१९]ब्रह्मादीनि च सर्वाणि प्रवर्तंतामहर्निशम् ॥
दीनांधकृपणादीनां क्रियतामार्तिनाशनम् ॥ ७७ ॥
अभ्यागतानामौचित्यादातिथ्यं च विधीयताम्॥
तीर्थयात्राप्रसंगेन समेतानां महात्मनाम् ॥ ७८ ॥
ब्रह्मर्षीणामाश्रमेषु दीयतामाश्रयाः सदा ॥
मयात्र स्थापितं लिंगं सर्वकालं दृढव्रताः ॥ ७९ ॥
पवित्रैरुपचारैश्च पूजयंतु द्विजोत्तमाः ॥
अष्टौ प्रमाणपुरुषाः पौराणां कार्यदर्शिनः ॥ 7.1.24.८० ॥
व्यवहारानवेक्षध्वं स्मृत्याचारविशारदाः ॥
व्यवस्थां मत्कृतामेतां भवंतोऽत्र द्विजोत्तमाः ॥ ८१॥
धारयंतु महात्मानो दिग्गजा इव मेदिनीम् ॥
एवं प्रभुत्वमास्थाय स्थानेऽस्मिञ्छिवशालिनि ॥८२॥
श्रुतिस्मृतिपुराणोक्तान्धर्मानाचरत द्विजाः ॥
निशम्य सोमस्य वचो विनीतमिति ते द्विजाः ॥ ८३ ॥
उवाच कौशिकस्तेषु गोत्राणां प्रथमो द्विजः ॥
साधूपदिष्टमस्माकं द्विजराजेन सर्वथा ॥८४॥
सर्वमेतत्करिष्यामः किंतु किंचिन्निशामय ॥
नियोगतः पूजयतां शिवनिर्माल्यसेविनाम् ॥ ॥ ८५ ॥
पातित्यं जायतेऽस्माकं श्रुतिस्मृतिविगर्हितम् ॥
श्रुतिस्मृती हि रुद्रस्य यस्मादाज्ञाद्वयं महत् ॥ ८६ ॥
कस्तदुल्लंघयेन्मूढः प्राणैः कंठग तैरपि ॥ ८७ ॥
[२०]अष्टमूर्तेः पुनर्मूर्त्तावग्नौ देवमुखे मखान् ॥
कुर्वाणाः श्रुतिमार्गेण प्रीणयामोऽखिलं जगत् ॥ ८८ ॥
जगद्भगवतो रूपं व्यक्तमेत त्पुरद्विषः ॥
मिथो विभिन्नमित्येतदभिन्नं पुनरीश्वरात् ॥ ८९ ॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ 7.1.24.९० ॥
श्रुतिस्मृतिपुराणादिसदभ्यासप्रसंगिनाम् ॥
तत्तदर्थेषु पुण्यार्थं प्रवृत्ताखिलकर्मणाम् ॥ ९१ ॥
अस्माकमवकाशोऽपि विरलो लिंग पूजने ॥
रुद्रजाप्यैर्महायज्ञैर्यजानाश्चैवमीश्वरम् ॥ ९२ ॥
यथाक्षणं यथाकालं लिंगं वेदमुपास्महे ॥
यत्तु तेऽभिमतं सोम श्रीसोमेश्वरपूजनम् ॥
तच्च संपादयिष्यामः सविशेषं महामते ॥ ९३ ॥
येन त्वदीप्सितं सिध्येत्तमुपायं निशामय ॥
गौरीशंकरसंवादं श्रुत्वा भगवतो मुखात् ॥ ९४ ॥
नारदः प्राह नः पूर्वं कथयामस्तमेव ते ॥
ब्रह्मदेवद्विषः पूर्वं शतशो दैत्यदानवाः ॥
तपोभिरुग्रैर्विविधैः शंकरं प्रतिपेदिरे ॥ ९५ ॥
तेषामत्युग्रतपसामनन्यासक्तचेतसाम् ॥
प्रसादमीश्वरश्चक्रे कारुण्यामृतसागरः ॥ ९६ ॥
स हि त्रिभुवनस्वामी देवदेवो महेश्वरः ॥
अपेक्षते वरं दातुं भक्तिमेवानपायिनीम् ॥ ९७ ॥
ददौ स भुवनैश्वर्य्यप्रायानभिमतान्वरान् ॥
तेषां भक्त्यैव संतुष्टो देवब्रह्मद्विषामपि ॥ ९८ ॥
ब्रह्मणा विष्णुना चापि यस्यांतो नाधिगम्यते ॥
तस्यातर्क्यप्रभावस्य को नु वेदाशयं प्रभोः ॥ ९९ ॥
दुर्वृत्तेभ्योऽपि दैत्येभ्यस्तपोभिर्वरदायिनम् ॥
पप्रच्छ स्वच्छ्हृदया पार्वती परमेश्वरम् ॥ 7.1.24.१०० ॥
॥ पार्वत्युवाच ॥ ॥
भगवन्प्रसादं ते प्राप्य धृष्यंतो भुवनत्रयम् ॥
उपद्रवंतींद्रमुखान्देवान्संक्षोभयंति[२१] च ॥ १०१ ॥
वरं ददासि किं तेषां तादृशानां दुरात्मनाम् ॥
जगतः स्वस्तये येषां न मनागपि चेष्टितम् ॥ १०२॥
त्वया दत्तवरानेतान्दिव्यान्भोगोपभोगिनः ॥
अवधीर्य तवैश्वर्यं कथं विष्णुर्निहंति च ॥ १०३ ॥
हतानां च पुनस्तेषां का गतिः स्याद्वद प्रभो ॥ १०४ ॥
॥ ईश्वर उवाच ॥ ॥
सात्त्विका राजसाश्चैव तामसाश्चेति वै त्रिधा ॥
भवंति लोकास्तेष्वेते तमःप्राया दुरासदाः ॥ १०५ ॥
सुरैः सह स्पर्धमानास्तपोभिरपि तामसैः ॥
मां भजंते मुहुर्मोहाज्जगदुत्सादनोद्यताः ॥ १०६ ॥
वरं ददामि यत्तेषां भक्तिस्तत्र तु कारणम् ॥
अहं हि भक्त्या सुग्राह्यो नात्र कार्या विचारणा ॥ ॥१०७॥
तपोनुरूपानासाद्य वरांस्ते पापकारिणः ॥
विष्णुना यन्निहन्यते तच्च देवि निबोध मे॥१०८॥
अहं हरिश्च यद्भिन्नौ गुणभागोऽत्र कारणम् ॥
परमार्थादभिन्नौ च रहस्यं परमं ह्यदः॥१०९॥
आराध्याराधकादिश्च भेदः सामान्य एव नौ॥
तथा ह्यहमिमां गंगां विष्णोः पादाग्रनिःसृताम्॥7.1.24.११॥।
वहामि शिरसा भक्त्या त्वदीक्षाशंकितोऽपि सन् ॥
अपि विष्णुस्त्रिभुवनं परित्रातुं व्यवस्थया ॥१११॥
मामुपास्य चिरं लेभे चक्रं दुष्टनिबर्हणम्॥
त्वां च तस्य महामायामप्रमेयात्मनो हरेः ॥ ११२॥
आराधयामि तद्भक्त्या त्रिजगजन्मकारणम् ॥
शिरस्याधाय चान्यां मे शक्तिरूपां तथा हरिः ॥११३॥
अजोऽपि जन्मान्यासाद्य लोकरक्षां करोति वै ॥
हंतुं हिरण्यकशिपुं नरसिंहवपुश्च सः ॥११४॥
जगज्जिघांसुः शमितो मया शरभ रूपिणा ॥
मां च बाणपरित्राणे त्रिशूलोद्यमकारिणम् ॥ ११५ ॥
मानुष्येऽप्यवतारेऽसौ स्तंभयित्वा स लीलया ॥
प्रभावं महिमानं च वर्द्धयन्मामकं हरिः ॥
[२२]वरिवस्यति मां नित्यमंतरात्मापि मे विभुः ॥ ११६ ॥
अथाहं परमात्मानमेनमाद्यंतवर्जितम् ॥
ध्यानयोगैः समाधौ च भावयामि निरंतरम् ॥ ११७ ॥
तदेवं नावयोर्भेदो विद्यते पारमार्थिकः ॥
भेदं च तारतम्यं च मूढा एव वितन्वते ॥ ११९ ॥
वैष्णवं रूपमास्थाय दुर्वृत्तान्हन्मि तानहम् ॥
गतिं च तेषामधुना महेश्वरि निशामय ॥ ११९ ॥
मयि भक्त्यवसाने तु हरेः संदर्शनेन च ॥
क्रोधदर्पाभिभूतत्वान्न मुक्तिं प्राप्नुवंति ते ॥ 7.1.24.१२० ॥
आवयोस्तु प्रभावेन ते पुनर्द्धौतकल्मषाः ॥
ब्रह्मर्षीणां कुले जन्म संप्राप्ता मुक्तिहेतुकम् ॥ १२१ ॥
ब्रह्मचारिव्रता दूर्ध्वं योगं पाशुपतं श्रिताः ॥
[२३]प्राचीनकर्मसंस्कारात्ते पुनर्मामुपासते ॥ १२२ ॥
भक्तियोगेन चास्थाय व्रतं पाशुपतादिकम् ॥
श्मशानवासिनो नग्ना अपरे चैकवाससः ॥ १२३ ॥
भिक्षाभुजो भूतिभृतो मल्लिंगान्यर्च्चयंति ते ॥
तथा मदेकाग्रधियो मद्ध्यानैकदृढव्रताः ॥ १२४ ॥
ये त्वामपि नमस्यंति जगतां मम चेश्वरीम्॥
देहावसानयोगेन मुक्तिं तेषां ददाम्यहम् ॥ १२५ ॥
सारूप्यसालोक्यमयीं मय्यावेशितचेतसाम् ॥
सायुज्यमुक्तये नायं योगः पाशुपतो यतः ॥
स्मृत्याचारेण मुनिभिः स सद्भिस्तेन गर्हितः ॥ १२६ ॥
॥ द्विजा ऊचुः ॥ ॥
तीर्थयात्राप्रसंगेन तानि होपगतान्द्विजान् ॥
[२४]स्वमानमुपनेष्यामो भक्त्यावर्ज्जितमानसान् ॥ १२७ ॥
शुचिभिक्षान्नकौपीनकमण्डल्वादिसत्कृताः ॥
अनन्यकार्य्याः सततमिहागत्य तपस्विनः ॥ १२८ ॥
भवत्प्रदत्तैर्विविधैरुपहारैरतंद्रिताः ॥
[२५]तत्त्वतस्तत्त्वसंख्यास्ते शिवधर्मैकतत्पराः ॥ १२९ ॥
श्रीसोमेश्वरमभ्यर्च्य तव श्रेयोऽभिवर्द्धकाः ॥
मुक्तिमंते गमिष्यंति देवस्यातिसुदुर्ल्लभाम्॥ 7.1.24.१३० ॥
ततोऽन्येऽथ ततोऽप्यन्ये ततश्चान्ये तपोधना ॥
परीक्षितास्तु तेऽस्माभिर्भवितारो निशापते ॥ १३१ ॥
॥ द्विजा ऊचुः ॥ ॥
इत्याह भगवान्देव्या पृष्टः स च त्रिलोचनः ॥
तत्रैव नारदः सर्वं संवादं शिवयेरितम्(?)॥ १३२ ॥
श्रुत्वा नः कथयामास कथां गोष्ठीषु पृच्छताम्॥
तव चास्माभिरधुना सर्वमेतदुदीरितम् ॥ १३३ ॥
एवमुक्तस्तु तैः प्रीतः सोमः स्वभवनं ययौ ॥
तदाज्ञया च तत्सर्वं यथोक्तं तेऽपि कुर्वते ॥ १३४ ॥
॥ देव्युवाच ॥ ॥
एवं प्रभावो देवेशः सोमेशः पापनाशनः ॥
केनोपायेन तुष्येत व्रतेन नियमेन वा ॥ १३५ ॥
॥ ईश्वर उवाच ॥ ॥
कथयामि स्फुटं धर्म्मं मानुषाणां हिताय वै ॥
स येन तुष्यते देवः शृणु त्वं सुरसुन्दरि ॥ १३६ ॥
नित्योपवासनक्तानि व्रतानि विविधानि च ॥
तीर्थे दानानि सर्वाणि पात्रे दत्तान्यशेषतः ॥ १३७ ॥
तपश्च तप्तं तेनैव स्नातं तेनैव पुष्करे ॥
केदारे तु जलं तेन गत्वा पीतं [२६]तु निश्चितम् ॥ १३८ ॥
तेन दृष्टं वरारोहे ज्योतिर्लिंगं महाप्रभम् ॥
सोमवारव्रतं दिव्यं येन चीर्णं तु संश्रये ॥ १३९ ॥
किमन्यैर्बहुभिर्दानैर्दत्तैः पात्रेषु सुन्दरि ॥ 7.1.24.१४० ॥
पूजितं येन भावेन सोमवारदिनाष्ट कम् ॥
तेन सर्वं कृतं देवि चीर्णं तत्र महाव्रतम् ॥ १४१ ॥
इतिहासमिमं पूर्वं कथयामि तव प्रिये ॥
यथावृत्तं महादेवि सोमवारव्रतं प्रति ॥ १४२ ॥
॥ ईश्वर उवाच ॥ ॥
कैलासस्य महेशानि उत्तरे च व्यवस्थिता॥
निषधोपरि विस्तीर्णा पुरी नाम स्वयंप्रभा ॥ ॥ १४३ ॥
नानारत्नसुशोभाढ्या नानागन्धर्वसंकुला ॥
सर्वावयवसंपूर्णा शक्रस्येवामरावती ॥ १४४ ॥
[२७]घनवाहननामा च गन्धर्वस्तत्र तिष्ठति ॥
भुंक्ते तत्र महाभोगान्देवैरपि सुदुर्लभान् ॥ १४५ ॥
नवयौवनसंयुक्ता भार्या तस्य मनोहरा ॥
प्रौढवाक्या सुशीला च पीनोन्नतपयोधरा ॥ १४६ ॥
तया सार्द्धं तु सम्भोगान्भुंक्ते गंधर्वनायकः ॥
उत्पन्ना तस्य कालेन पुत्री पुत्राष्टकोपरि ॥ १४७ ॥
सर्वावयवसंपन्ना सर्वविज्ञानवेदिनी ॥
गंधर्वसेना विख्याता नाम्ना सा परमेश्वरि ॥ १४८ ॥
कन्यानां तु सहस्रेषु प्रवरा रूपशालिनी ॥
कौतूहलेन सा पित्रा प्रोक्ता क्रीडस्व भामिनि ॥ १४९ ॥
उद्याने रमणीयेऽत्र नानाद्रुमलताकुले ॥
वृक्षैरनेकैः संकीर्णे फलपुष्पसमन्विते ॥ 7.1.24.१५० ॥
एवं सा रमते नित्यं कन्यापरिवृता सदा ॥
एवं दृष्ट्वा क्रीडमाना माता भर्तारमब्रवीत् ॥१५१ ॥
जीवितं निष्फलं स्वामिन्मम ते सह बांधवैः ॥
यस्येदृशी गृहे कन्या तिष्ठते भर्तृवर्ज्जिता ॥ १५२ ॥
इत्युक्तः स तु गंधर्वो भार्यां वचनमब्रवीत् ॥
अन्वेषयामि भर्त्तारं पुत्र्यर्थे तु मनोहरम् ॥ १५३ ॥
इत्युक्त्वाऽऽह्वापयामास[२८] पुत्रीं तां घनवाहनः[२९]
आहूता पितृमातृभ्यां त्वरिताऽऽगत्य सुन्दरि ॥ १५४ ॥
अनुक्रमेण सर्वेषां पतिता पादयोः शुभा ॥
आदेशं देहि मे तात कि नु कार्यं मयाऽऽधुना ॥ १५५ ॥
उक्तं च घनवाहेन हर्षितेन वचस्ततः ॥
हे पुत्रि तव यः कश्चिद्वरः संप्रति रोचते ॥
दिव्यं द्रक्ष्ये त्वत्सदृशं गंधर्वाणां शिरोमणिम् ॥ १५६ ॥
इत्युक्ता क्रोधताम्राक्षी पितरं वाक्यमब्रवीत् ॥
मम रूपस्य कोट्यंशे किं कोप्यस्ति जगत्त्रये ॥
तच्छ्रुत्वा चाद्भुतं वाक्यं पिता माता च मोहितौ॥ १५७ ॥
सर्वे विषादमापन्ना बांधवाश्च परे जनाः ॥
अशोभनमिदं वाक्यं कन्यया यत्प्रभाषितम् ॥
इत्युक्त्वा तु गताः सर्वे जननीजनबांधवाः ॥ १५८ ॥
सा तत्रैव महोद्याने रमते सखिसंयुता ॥
हिंडोलके समारूढा वसंते मासि भामिनि॥ ॥ १५९ ॥
तावद्दिव्यविमानस्थः शिखण्डी गणनायकः ॥
गच्छन्खे ददृशे कन्यां रूपौदार्य्यसमाकुलाम् ॥ 7.1.24.१६० ॥
गीतवाद्येन नृत्येन रमतीं दुदुभिस्वनैः ॥
स माध्याह्निकसंध्यायामवतीर्य विमानतः ॥ १६१ ॥
क्रीडमानोऽप्सरोभिस्तु तत्रोद्याने स्थितस्ततः ॥
शुश्राव वाक्यं कन्याया गंधर्वदुहितुस्तदा ॥ १६२ ॥
न कोऽपि सदृशो लोके मम रूपेण दृश्यते ॥
देवो वा दानवो वापि कोट्यंशे मम रूपतः ॥ १६३ ॥
इति वाक्यं ततः श्रुत्वा गणः क्रोधसमन्वितः ॥
शशाप तां सुचार्वंगीं साहंकारां गणेश्वरः ॥ १६४ ॥
॥ गण उवाच ॥ ॥
मां दृष्ट्वा यद्विशालाक्षि रूपसौभाग्यगर्विता ॥
समाक्षिपसि गंधर्वान्देवाद्यांश्चैव गर्विता ॥ १६५ ॥
तस्मात्ते गर्वसंयुक्ते कुष्ठमंगे भविष्यति ॥
श्रुत्वा शापं ततः कन्या भयभीता तपस्विनी ॥ १६६ ॥
साष्टांगं प्रणिपत्याथानुग्रहार्थमयाचत ॥
भगवन्मम दीनायाः शापस्यानुग्रहं प्रभो ॥
प्रयच्छ त्वं महा भाग नैवं कर्त्री पुनः क्वचित् ॥ १६७ ॥
इत्युक्तस्तव कारुण्याच्छिखण्डी गणनायकः ॥
अनुग्रहं ददौ तस्या गंधर्वदुहितुस्तदा ॥ १६८ ॥। ॥
॥ शिखण्ड्युवाच ॥ ॥
जातिरूपेण संयुक्तो विद्याहंकारसंपदा ॥
यो येन गर्वितः प्राणी स तं प्राप्य विनश्यति ॥ १६९ ॥
तस्माद्गर्वो नैव कार्यो गर्वस्यैतत्फलं स्मृतम् ॥
शृणुष्वानुग्रहं बाले श्रुत्वा चैवावधारय ॥ 7.1.24.१७०॥
हिमवद्वनमध्यस्थो गोशृंग ऋषिपुंगवः ॥
करिष्यत्युपकारं स एवमुक्त्वा गतः प्रिये ॥ १७१ ॥
तावत्संध्या समायाता तत्क्षणाद्भुवनांतरे ॥ १७२ ॥
ततो गंधर्व्वतनया भग्नोत्साहा नतानना ॥
परित्यज्य वनं रम्यमागता पितुरंतिके ॥ १७३ ॥
कथयामास तत्सर्वं कारणं कुष्ठसंभवम् ॥
तच्छ्रुत्वा शोकसंतप्तौ पितरौ विगतप्रभौ ॥ १७४ ॥
हिमवंतं गिरिं प्राप्तौ त्वरितौ सुतया सह ॥
गोशृंगस्य ऋषेस्तत्र ददृशाते तथाश्रमम् ॥ १७५ ॥
तत्र मध्यस्थितं दृष्ट्वा गोशृंगमृषिपुंगवम् ॥
प्रणम्य दण्डवद्भूमौ स्तुत्वा स्तोत्रैरनेकधा ॥ १७६ ॥
उपविष्टोग्रतस्तस्य प्रणिपत्य पुनःपुनः ॥
प्रोवाच वचनं तत्र पूर्ववृत्तं यथाऽभवत् ॥ १७७ ॥
कथिते चैव वृत्तांते पुनः पप्रच्छ कारणम्॥
पृष्टे तु कारणे तत्र गंधर्वः प्रोक्तवांस्तदा ॥ १७८ ॥
॥ गंधर्व उवाच ॥ ॥
दुहितुर्मे शरीरं तु व्याधिकुष्ठेनपीडितम् ॥
येनोपशमनं याति तत्त्वं कर्त्तुमिहार्हसि ॥ १७९ ॥
प्रसादं कुरु विप्रर्षे मम दीनस्य सांप्रतम् ॥
यथा कुष्ठं शमं याति मम पुत्र्यास्तु कारणम्[३०] ॥ ॥ 7.1.24.१८० ॥ ॥
गोशृंग उवाच ॥ ॥
भारते तु महातेजास्तिष्ठत्युदधिसन्निधौ ॥
देवः सोमेश्वरोनाम सर्वदेवनमस्कृतः ॥ १८१ ॥
[३१]क्षणं कृत्वा हि संपूज्य एकाहारेण मानवैः ॥
सर्वव्याधिविनाशाय सर्वकार्यार्थसिद्धये ॥ १८२ ॥
सोमवारव्रतेनेशं समाराधय शंकरम् ॥
एवं कृते व्याधिनाशस्तव पुत्र्या भविष्यति ॥ १८३ ॥
॥ ईश्वर उवाच ॥ ॥
इति तद्वचनं श्रुत्वा महर्षेर्भावितात्मनः ॥
तत्र गंतुं मनश्चक्रे सोमेशाराधनं प्रति ॥ १८४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वर वर्णने सोमवारव्रतमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥


  1. एतदर्धपद्यं पुनरुक्तमिति न भ्रमितव्यम् - किं तु - भक्त्त्यतिशयद्योतकार्धश्लोकपुनरुद्घोषणम् - "महादेव महादेव महादेव नमोऽस्तु ते॥ महादेव महादेव महादेव नमोऽस्तु ते॥" इत्यादिषु भक्त्यतिशयस्मारकोक्तेरुपलब्धेः - इति ध्येयं सुधीभिः।
  2. यज्ञात्मने - इति पाठः।
  3. सर्वात्मने-इति, यागात्मने - इति च पाठः
  4. बुधाः विदुः - इति पूर्वच्छेषः।
  5. अस्तु इति शेषः।
  6. सिद्धिम् - इति पाठः।
  7. यत् - इति शेषः।
  8. लेभिरे - लप्स्यंते - इत्यर्थः।
  9. द्वाभ्यामपि - द्वयोरपि - इत्यर्थः।
  10. ताभ्याम् - तयोः इत्यर्थः।
  11. धनुर्मिथुनकन्यामीनसंक्रातिदिनेषु - इत्यर्थः। तथा चोक्तम् - षडशीत्याननं चापनृयुक्कन्याझषे भवेत्।' इति मुहूर्तचिन्तामणौ।
  12. शतपत्रसमम् - इति पाठः।
  13. नन्दशालकः - इति पाठः।
  14. चतुर्थांशा च तद्वृद्धिर्यावन्मेरुः प्रकीर्तितः। एतदुच्चत्वापेक्षया चतुर्गुणमुच्चत्वं मेरोः - चतुर्थांशेनास्योच्चत्वम् - इत्यर्थः। एतेनास्य मेर्वपेक्षया चतुर्थांशेनापकृष्टत्वं सूचितम्।
  15. भक्तः - इति पाठः।
  16. मनोभिरामचरमाः - सुन्दरप्रान्तावृतिभागाः - इत्यर्थः।
  17. शिष्याध्यापनशोभिनाम् - इति पाठः।
  18. ब्रह्मोत्तराणि - पण्यवस्तुविक्रये जायमानस्य लाभस्य केचिदंशा नियमेन ब्राह्मणेभ्यो ये वणिग्भिर्दीयते - तानि ब्रह्मोत्तराणि - इत्युच्यन्ते "धर्मदायभाग" इति लोके प्रसिद्धिः।
  19. ब्रह्मादीनि - वेदाध्ययनादीनि। व्रतादीनि च - इति पाठः।
  20. अग्नेरप्यष्टमूर्तेः शंकरस्याष्टमूर्त्यन्यतममूर्तित्वमस्त्यतस्मिन्नेव श्रुतिमार्गेण मखान्कृत्वा अखिलं जगत्प्रीणयामः। इति योजना। इष्टापूर्ते पुनः कृत्वा - इति पाठः।
  21. संक्षोभयन्ति - व्यग्रान्कुर्वन्ति - इत्यर्थः।
  22. वरिवस्यति - पूजयति - इत्यर्थः।
  23. प्राचीनजन्मसंस्कारात् - इति पाठः।
  24. स्वमानम् - स्वयोग्यताम् - इत्यर्थः। स्थामानम्- इति पाठः।
  25. तत्त्वसंख्याः - चतुर्विंशतिसंख्याः - इत्यर्थः।
  26. सुनिर्मलम् - इति पाठः।
  27. घनवाहाख्यगन्धर्वस्तत्र तिष्ठति सर्वदा- इति पाठः।
  28. आह्वानयामास - इति पाठः।
  29. मेधवाहनः - इत्यपि पाठान्तरम्।
  30. कारणम् - अत्र - इदम् - इति शेषः। इदं त्वत्समीपं प्रत्यस्माकमागमनकारणम् - इत्यर्थः।
  31. क्षणम् - तत्र निवासावधिनियमम् - इत्यर्थः।