स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०३१

॥ देव्युवाच ॥ ॥
सकारपंचकं प्रोक्तं यत्त्वया मम शंकर ॥
कथं तदत्र संवृत्तमेतन्मे संशयं महत् ॥ १ ॥
कथं वात्र समायाता कुतश्चापि सरस्वती ॥
कथं स वाडवो जातः कस्मिन्काले कथं ह्यभूत् ॥
तत्सर्वं विस्तरेणेदं यथावद्वक्तुमर्हसि ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि यथा जाता तस्मिन्क्षेत्रे सरस्वती ॥
यतश्चैव समुद्भूता सर्वपापप्रणाशिनी ॥ ३ ॥
हिरण्या वज्रिणी न्यंकुः कपिला च सरस्वती ॥ ४ ॥
ऋषिभिः पञ्चभिश्चात्र समाहूता यथा पुरा ॥
वाडवेनाग्निना युक्ता यथा जाता शृणुष्व तत् ॥ ५ ॥
पुरा देवासुरे युद्धे निवृत्ते सोमकारणात् ॥
पितामहस्य वचनात्तारां चन्द्रः समर्पयत् ॥ ६ ॥
ततो याताः सुराः स्वर्गं पश्यन्तोऽधोमुखा महीम् ॥
ददृशुस्ते ततो देवा भूम्यां स्वर्गमिवापरम् ॥ ७ ॥
आश्रमं मुनिमुख्यस्य दधीचेर्लोक विश्रुतम् ॥
सर्वर्त्तुकुसुमोपेतं पादपैरुपशोभितम् ॥
केतकीकुटजोद्भूत बकुलामोदमोदितम् ॥ ८ ॥
एवंविधं समासाद्य तदाश्रमपदं गुरु ॥
कौतुकाद्द्रष्टुमारब्धाः सर्वे देवा मनोरमम् ॥ ९ ॥
ते च तीर्थाश्रमे तस्मिन्यानान्युत्सृज्य संयताः ॥
प्रवृत्तास्तमृषिं द्रष्टुं प्राकृताः पुरुषा यथा ॥ 7.1.31.१० ॥
दृष्टवंतः सुराः सर्वे पितामहमिवापरम् ॥
ततस्त ऋषिणा सर्वे पाद्यार्घ्यादिभिरर्च्चिताः ॥ ११ ॥
यथोक्तमासनं भेजुः सर्वे देवाः सवासवाः ॥
तेषां मध्ये समुत्थाय शक्रः प्रोवाच तं मुनिम् ॥ १२ ॥
आयुधानि विमुच्याग्रे भवान्गृह्णात्विमानि हि ॥
तन्निशम्य वचः प्राह दधीचिः पाकशासनम् ॥ १३ ॥
मुक्तास्त्राणि ममाभ्याशे यूयं यात त्रिविष्टपम् ॥
तं शक्रः प्राह चैतानि कार्यकाले ह्युपस्थिते ॥ १४ ॥
देयानि ते पुनः शत्रूनभिजेष्यामहे रणे ॥
पुनःपुनस्ततः शक्रः संदिश्य मुनिसत्तमम् ॥ १५ ॥
अस्माकमेव देयानि न चान्यस्य त्वया मुने॥
बाढमित्युदिते शक्रमुक्तवान्मुनिसत्तमः॥१६॥
दास्यामि ते समस्तानि युद्धकाले विशेषतः॥
नास्य मिथ्या भवेद्वाक्यमिति मत्वा शचीपतिः॥
मुक्त्वास्त्राणि तदभ्याशे पुनः स्वर्गं गतस्तदा॥१७॥
अस्त्रार्पणं यः प्रयतः प्रयत्नाच्छृणोति राजा भुवि भावितातात्मा ॥
सोऽभ्येति युद्धे विजयं परं हि सुतांश्च धर्मार्थयशोभिरामाः ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभा सखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वडवानलोत्पत्तिवृत्तान्ते दधीचिमहर्षये सर्वदेवकृतस्वस्वशस्त्रसमर्पणवर्णनंनामैकत्रिंशोध्यायः॥ ३१ ॥