स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०३९
॥ ईश्वर उवाच ॥ ॥
अथ संपूज्य विधिना देवदेवं कपर्द्दिनम् ॥
ततो गच्छेन्महादेवि लिगं केदारसंस्थितम् ॥ १ ॥
तस्यैवाग्नेयभागस्थं भीमेश्वरसमीपगम्॥
स्वयंभूतं महादेवि कल्पलिंगं मम प्रियम् ॥ २ ॥
मया संपूजितं देवि वृद्धिलिंग महाप्रभम्॥
निराहारस्तु यस्तत्र करोत्येकं प्रजागरम् ॥ ३ ॥
चतुर्दश्यां विशेषेण तस्य लोकाः सनातनाः ॥
रुद्रेश्वरेति देवस्य त्वासीन्नाम पुरा युगे ॥ ४ ॥
तिष्येस्मिंस्तु पुनः प्राप्ते म्लेच्छस्पर्शभयातुरः ॥
अस्मिँल्लिंगे लयं यातः केदारश्चाब्धिसंनिधौ ॥ ५ ॥
तेन केदारनामेति तस्य ख्यातं धरातले ॥
माघे मासि यताहारः स्नात्वा तु लवणोदधौ ॥६॥
पद्मके तु महाकुंडे मध्येस्य लवणांभसः ॥
रुद्रेशाद्दक्षिणे भागे धनुषां दशके स्थिते ॥ ७ ॥
स्नात्वा विधानतो देवि रुद्रेशं चार्चयिष्यति ॥
सम्यक्केदारया त्रायाः फलं तस्य भविष्यति ॥ ८ ॥
ब्रह्महत्यादिपापानां पूजनान्नाशनं महत् ॥
अथ तस्यैव देवस्य इतिहासं पुरातनम् ॥ ९ ॥
सर्वकामप्रदं नृणां कथ्यते ते सुरप्रिये ॥
आसीद्राजा पुरा देवि शशबिंदुरिति श्रुतः ॥ 7.1.39.१० ॥
सार्वभौमो महीपालो विपक्षगणसूदनः ॥
कलिद्वापरयोः संधौ सभूतः पृथिवीपतिः ॥ ११ ॥
तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥
न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥ १२ ॥
तादृग्रूपा वरारोहे यथाऽस्य शुभलोचना॥
तस्य हेममयं पद्मं शतपत्रं मनोरमम्॥१३॥
खेचरं वेगि नित्यं च तस्य राज्ञो महात्मनः॥
स तेन पर्यटँल्लोकान्सर्वान्देवि स्वकामतः॥१४॥
एकदा फाल्गुने मासि शुक्लपक्षे वरानने ॥
चतुर्द्दश्यां तु संप्राप्तः प्रभासक्षेत्रमुत्तमम्॥१५॥
अथापश्यदृषीन्सर्वाञ्छ्रीसोमेशपुरःस्थितान् ॥
रात्रौ जागरणार्थाय जपहोमपरायणान्॥ १६ ॥
स दृष्ट्वा सोमनाथं तु प्रणिपत्य विधानतः ॥
पूजयामास सर्वां स्तान्यथार्हं भक्तिसंयुतः ॥ १७ ॥
ततः केदारमासाद्य संस्नाप्य विधिवत्प्रिये ॥
पूजयित्वा विचित्राभिः पुष्पमालाभिरीश्वरम् ॥ १८ ॥
नैवेद्यैर्विविधैर्वस्त्रैर्भूषणैश्च मनोहरैः ॥
ततोऽत्र कारयामास जागरं सुसमाहितः ॥ १९ ॥
ततस्ते मुनयः सर्वे कुतूहलसमन्विताः ॥
च्यवनो याज्ञवल्क्यश्च शांडिल्यः शाकटायनः ॥ 7.1.39.२० ॥
रैभ्योऽथ जैमिनिः क्रौंचो नारदः पर्वतः शिलः ॥
मार्कंडं पुरतः कृत्वा जग्मुस्तस्य समीपतः ॥ २१ ॥
चक्रुः कथाः सुविचित्रा इतिहासानि भूरिशः ॥
कीर्त्तयंतः स्थितास्तत्र पप्रच्छू राजसत्तमम् ॥ २२ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्मात्सोमेश्वरं देवं परित्यज्य नराधिप ॥
केदारस्य पुरोऽकार्षीर्जागरं तद्ब्रवीहि नः ॥
नूनं वेत्सि फलं चास्य लिंगस्य त्वं महोदयम् ॥ २३ ॥ ॥
॥ राजोवाच ॥ ॥
शृण्वंतु ब्राह्मणाः सर्वे अन्यदेहोद्भवं मम ॥
पुराऽहं शूद्रजातीय आसं ब्राह्मणपूजकः ॥ २४ ॥
सौराष्ट्रविषये शुभ्रे धनधान्यसमाकुले ॥
अथ कालांतरे तत्र अनावृष्टिरभूद्द्विजाः ॥ २५ ॥
ततोऽहं क्षुधयाविष्टः प्रभासं क्षेत्रमास्थितः ॥
अथापश्यं सरः शुभ्रं हरिणीमूलसंस्थितम् ॥ २६ ॥
तच्च रामसरोनाम पद्मिनीषण्डमंडितम् ॥
क्षीरोदांबुधिसंकाशं दृष्ट्वा स्नातः क्लमान्वितः ॥ २७ ॥
संतर्प्य च पितॄन्देवान्पीत्वा स्वच्छमथोदकम् ॥
ततोऽहं भार्यया प्रोक्तो गृहाणेमान्सरोरुहान् ॥ २८ ॥
एतत्समीपतो रम्यं दृश्यते स्थानमुत्तमम् ॥
विक्रीणीमोऽत्र गत्वा तु येन स्याद्भोजनं विभो ॥ २९ ॥
अथावतीर्य सलिलं गृहीतानि मया द्विजाः ॥
कमलानि सुभू रीणि प्रस्थितश्च पुरं प्रति ॥ 7.1.39.३० ॥
तत्र गत्वा च रथ्यासु चत्वरेषु त्रिकेषु च ॥
प्रफुल्लकमलान्येव क्रेतुं वै मुनिसत्तमाः ॥ ३१ ॥
न कश्चित्प्रति गृह्णाति अस्तं प्राप्तो दिवाकरः ॥
प्रासादं कंचिदासाद्य सुप्तोहं सह भार्यया ॥३२॥
तत्र सुप्तस्य मे बुद्धिः श्रुत्वा गीतध्वनिं तदा ॥
समुत्पन्ना सभा र्यस्य क्षुधार्तस्य विशेषतः ॥
नूनं जागरणं ह्येतत्कस्मिंश्चिद्विबुधालये ॥ ३३ ॥
सरोरुहाणि चादाय व्रजाम्यत्र सुरालये ॥
यदि कश्चित्प्रगृह्णाति प्राणयात्रा ततो भवेत् ॥ ३४ ॥
अथोत्थाय समायातो ह्यत्राहं मुनिपुंगवाः ॥
अपश्यं लिंगमेतत्तु पूजितं कुसुमैः शुभैः ॥ ३५ ॥
रुद्रेश्वराभिधमिदं वृद्धलिंगं स्वयंभुवम् ॥
वेश्यानंगवतीनाम्नी शिवरात्रिपरायणा ॥ ३६ ॥
जागर्त्ति पुरतस्तस्य गीतनृत्योत्सवादिना ॥
ततः कश्चिन्मया दृष्टः किमेतद्रात्रिजागरम् ॥३७॥
केयं स्त्री दृश्यतेऽत्यर्थं गीतनृत्योत्सवे रता ॥
सोऽब्रवीच्छिवधर्मोक्ता शिवरात्रिः सुधर्मदा ॥३८॥
तां चानंगवतीनाम्नी वेश्येयं धर्मसंयुता ॥
जागर्त्ति परमं श्रेयः शिवरात्रिव्रतं शुभम्॥ ३९ ॥
शिवरात्रिव्रतं ह्येतद्यः सम्यक्कुरुते नरः ॥
न स दुःखमवाप्नोति न दारि द्र्यं न बंधनम्॥ 7.1.39.४० ॥
दुष्टं चारिष्टयोगं वा न रोगं न भयं क्वचित् ॥
सुखसौभाग्यसंपन्नो जायते सत्कुले नरः ॥ ४१ ॥
तेजस्वी च यशस्वी च सर्वकल्याणभाजनम् ॥
भवेदस्य प्रसादेन एवमाहुर्मनीषिणः ॥ ४२ ॥
॥ राजोवाच ॥ ॥
अथ मे बुद्धिरुत्पन्ना तद्व्रतं प्रति निश्चला ॥
चिंतितं मनसा ह्येतन्मयाब्राह्मणसत्तमाः ॥ ४३ ॥
अन्नाभावान्ममोत्पन्न उपवासो बलाद्यतः ॥
तदहं पद्मके तीर्थेस्नात्वा च लवणांभसि ॥ ४४ ॥
एतैः सरोरुहैर्देवं पूजयामि महेश्वरम्॥
ततो मया सभार्येण रुद्रेशः संप्रपूजितः ॥ ४५ ॥
पद्मैश्च भक्तियुक्तेन सभार्येण विशेषतः ॥
जाग्रत्स्थितस्तु देवाग्रे तां रात्रिं सह भार्यया ॥ ४६ ॥
ततः प्रभातसमय उदिते सूर्यमण्डले ॥
सा वेश्या मामुवाचेदं कलधौतपलत्रयम् ॥ ४७ ॥
गृहाणमूल्यं पद्मानां न गृहीतं मया हि तत् ॥
सात्त्विकं भावमास्थाय सभार्येण द्विजोत्तमाः ॥ ४८ ॥
ततो भिक्षां समाहृत्य प्राणयात्रा मया कृता ॥
कालेन महता प्राप्तः कालधर्मं मुनीश्वराः ॥ ४९ ॥
इयं मे दयिता साध्वी प्राणेभ्योऽपि गरीयसी ॥
मम देहं समादाय प्रविष्टा हव्यवाहनम्॥ ॥ 7.1.39.५० ॥
तत्प्रभावादहं जातः सर्वभौमो महीपतिः ॥
जातिस्मरः सभार्यस्तु सत्यमेतद्द्विजोत्तमाः ॥ ५१ ॥
एतस्मात्कारणादस्य भक्तिर्लिंगस्य चोपरि ॥
मम नित्यं सभार्यस्य सत्यमेतद्ब्रवीमि वः ॥ ५२ ॥
मया क्रियाविहीनेन भक्तिबाह्येन सत्तमाः ॥
व्रतमेतत्समाचीर्णं तस्येदं सुमहत्फ लम्॥ ५३ ॥
अधुना भक्तियुक्तस्य यथोपकरणान्मम ॥
भविष्ये यत्फलं किंचिन्नो वेद्मि च मुनीश्वराः ॥
येन सोमेशमुत्सृज्य अत्राहं भक्ति तत्परः ॥ ५४ ॥
॥ ईश्वर उवाच ॥ ॥
एवं श्रुत्वा तु ते विप्रा विस्मयोत्फुल्ललोचनाः ॥
साधुसाध्विति जल्पंतो राजानं संप्रशंसिरे ॥ ५५ ॥
पूजयामासुरनिशं लिंगं तत्र स्वयंभुवम् ॥
ततोऽसौ पार्थिवश्रेष्ठो लिंगस्यास्यप्रसादतः ॥
संसिद्धिं परमां प्राप्तो दुर्ल्लभां त्रिदशैरपि ॥ ५६ ॥
सा च वेश्या भगवती शिवरात्रिप्रभावतः ॥
तस्य लिंगस्य माहात्म्याद्रंभानामाप्सराऽभवत् ॥ ५७ ॥
तस्मात्सर्वप्रयत्नेन तल्लिंगं पूजयेद्बुधः ॥
धर्मकामार्थमोक्षं च यो वांछत्यखिलप्रदम् ॥ ५८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये केदारेश्वर (रुद्रेश्वर)लिङ्गमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः॥३९॥