स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५२

॥ ईश्वर उवाच ॥ ॥
पंचाथ सिद्धलिंगानि कथयामि यशस्विनि ॥
येषां दर्शनतो देवि सिद्धा यात्रा भवेन्नृणाम् ॥ १ ॥
सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥
तस्याश्च पूर्वदिग्भागे देवं सिद्धेश्वरं परम् ॥
अभिगम्य नरो भक्त्या अणिमादिकमाप्नुयात् ॥ २ ॥
सिद्धैः प्रतिष्ठितं लिंगं दृष्ट्वा भक्त्या तु मानवः ॥
मुच्यते पातकैः सर्वैः सिद्धलोकं स गच्छति ॥ ३ ॥
विघ्नानि नाशमायांति तत्र क्षेत्रनिवासिनाम् ॥
कामः क्रोधो भय लोभो रागो मत्सर एव च ॥ ४ ॥
ईर्ष्या दंभस्तथाऽऽलस्यं निद्रा मोहस्त्वहंकृतिः ॥
एतानि विघ्नरूपाणि सिद्धेर्विघ्नकराणि तु ॥ ५ ॥
तानि नाशं समायांति तत्र सिद्धे श्वरार्चनात् ॥
एवं ज्ञात्वा तु यत्नेन तत्र यात्रां समाचरेत् ॥ ६ ॥
इत्येवं कथितं देवि सिद्धेश्वरमहोदयम्॥
सर्वकामप्रदं नृणां श्रुतं पातकनाशनम् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥