स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५६

॥ ईश्वर उवाच ॥ ॥
अथ ते पंचमं वच्मि सिद्धलिगं महाप्रभम् ॥
ब्रह्मणो नैर्ऋते भागे धनुषां षोडशे स्थितम् ॥ १ ॥
राहुलिंगस्य चाभ्याशे लिंगं धनदनिर्मितम् ॥
धनदत्वं च संप्राप्तो यत्र तप्त्वा महत्तपः ॥ २ ॥
संस्थाप्य विधिवत्पूज्य लिंगं वर्षसहस्रकम् ॥
अलकाधिपतिर्जातस्तत्र शंभोः प्रसादतः ॥ ३ ॥
जातिं स्मृत्वा पूर्विकां तु ज्ञात्वा दीपदशाफलम् ॥
शिवरात्रे प्रभावं तु प्रभासं पुनरागतः ॥ ४ ॥
प्रभावातिशयं ज्ञात्वा स्थापयामास शंकरम् ॥
तत्र प्रत्यक्षतां नीतस्तपसा येन शंकरः ॥ ५ ॥
महाभक्त्या महादेवि तस्मिँल्लिंगेऽवतारितः ॥
तं दृष्ट्वा मानवो भक्त्या पूजयित्वा यथाविधि ॥ ६ ॥
पञ्चोपचारैः सद्भक्त्या गन्धधूपानुलेपनैः ॥
तस्यान्वये दरिद्रश्च कदापि न भविष्यति ॥ ७ ॥
ये चैतत्पूजयिष्यंति लिंगं भक्तियुता नराः ॥
अजेयास्ते भविष्यंति शत्रूणां दर्पनाशनाः ॥ ८ ॥
इति ते कथितं सर्वं धनदेशमहोदयम् ॥
श्रुत्वानुमोद्य यत्नेन दरिद्रो नैव जायते ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये धनदेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशोऽध्यायः ॥ ५६ ॥