स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०७८
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं वैश्वानरेश्वरम् ॥
तस्यैवाग्नेयकोणस्थं धनुषां पंचके स्थितम् ॥ १ ॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥
तत्र कश्चिच्छुकः पूर्वं नीडं देवि चकार ह ॥ २ ॥
प्रासादे भार्यया सार्द्धं निवस न्सुचिरं स्थितः ॥
ततस्तौ दंपती नित्यं प्रदक्षिणं प्रचक्रतुः ॥ ३ ॥
कुलायस्य वशाद्देवि न तु भक्त्या कथंचन ॥
कालेन महता तौ च पंचत्वं समुपस्थितौ ॥ ४ ॥
जातौ तेन प्रभावेन उक्तौ जातिस्मरौ भुवि ॥
लोपामुद्रागस्त्यनामप्रसिद्धिं परमां गतौ ॥ ५ ॥
अथ गाथा पुरी गीता अगस्त्येन महात्मना ॥
स्मरता पूर्वदेहं तु विस्मयेनानुभूतिजा ॥ ६ ॥
कृत्वा प्रदक्षिणं सम्यग्वह्नीशं यः प्रपश्यति ॥
नूनं प्रसिद्धिमाप्नोति इतश्चाहं यथा पुरा ॥ ७ ॥
एवं देवि तवाख्यातं माहात्म्यं वह्निदैवतम् ॥
श्रुतं पापहरं नृणां सर्वकामफलप्रदम् ॥ ८ ॥
घृतेन तं तु संस्नाप्य विधिना वै समर्चयेत् ॥
हेम दद्याच्च विप्रेंद्र सम्यक्छ्रद्धासमन्वितः ॥ ९ ॥
एवं कृत्वा विधानेन सम्यग्यात्राफलं लभेत् ॥
वह्निलोकं तु संप्राप्य मोदते कालमक्षयम् ॥ 7.1.78.१० ॥
इति श्रीस्कांदे महापुराण एकाशीति साहरुया संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वैश्वानरेश्वरमाहात्म्यवर्णनंनामाष्टसप्तति तमोऽध्यायः ॥ ७८ ॥