स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८६
॥ ईश्वर उवाच ॥ ॥
तस्यास्तु दक्षिणे भागे स्थितं लिंगं महाप्रभम् ॥
पांडवेश्वरनामाढ्यं पंचभिः स्थापितं क्रमात् ॥ १ ॥
गुप्तचर्यां यदा याताः पांडवा वनवासिनः ॥
तीर्थयात्राप्रसंगेन प्रभासं क्षेत्रमागताः ॥ २ ॥
तस्मिन्काले महादेवि सं प्राप्ते सोमपर्वणि ॥
स्थापयामासुस्ते सर्वे लिंगं संनिहिता तटे ॥ ३ ॥
मार्कण्डप्रमुखान्कृत्वा ऋत्विजो ब्राह्मणोत्तमान् ॥
वेदोक्तैः कारयामासुरभिषेकं वृषान्ददुः ॥ ४ ॥
ततः प्रसन्ना ऋषयो मार्कंडप्रमुखाः प्रिये ॥
प्रतिष्ठितस्य लिंगस्य पांडवैर्वरवर्णिनि ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
ये चैतत्पूजयिष्यंति लिंगं पांडवपूजितम् ॥
ते वै पूज्या भविष्यंति देवदानवरक्षसाम् ॥ ६ ॥
अश्वमेधफलं तेषां सम्यक्छ्रद्धार्चनेन वै ॥
भविष्यति न संदेहो ह्यस्मद्वाक्यप्रभावतः ॥ ७ ॥
स्नात्वा संनिहिताकुंडे योऽर्चयेत्पांडवेश्वरम् ॥
माघे मासि समग्रे तु स साक्षात्पुरुषोत्तमः ॥ ८ ॥
दर्शनेनापि तस्यापि पापं याति सहस्रधा ॥
विष्णुरूपो हि स प्रोक्तो नात्र कार्या विचारणा ॥ ९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्ये पांडवेश्वरमाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः ॥ ८६ ॥