स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८९

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे कपालीश्वरमुत्तमम् ॥
रुद्रं तृतीयं पापघ्नं नीलरुद्रस्यपूर्वतः ॥ १ ॥
बुधेश्वरात्पश्चिमतो धनुषां सप्तके स्थितम् ॥
छिन्नं मया पुरा देवि ब्रह्मणः पंचमं शिरः ॥ २ ॥
तत्कपालं करे लग्नं प्रभासक्षेत्रमागतः ॥
ततो वर्षसहस्रं तु संस्थितः क्षेत्रमध्यतः ॥ ३ ॥
कपालधारी दिग्वासाः कपाली तेन च स्मृतः ॥
तन्मया पूजितं लिंगं वर्षाणामयुतं प्रिये ॥ ४ ॥
कपालिरूपमास्थाय कपालीशस्ततः स्मृतः ॥
सर्वपापहरो नृणां दर्शनात्स्पर्शनादपि ॥ ५ ॥
मया तत्र नियुक्ता वै रक्षार्थं शूलपाणयः ॥
गणाः सहस्रशो देवि पापिनां दुष्टचेतसाम् ॥ ६ ॥
तस्मात्सर्वप्रयत्नेन सम्यक्छ्रद्धासमन्वितः ॥
पूजयेत्तं महादेवं कपालिनमनामयम् ॥ ७ ॥
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
पूजयित्वा विधानेन सम्यक्तत्पुरुषाणुना ॥ ८ ॥
जन्मप्रभृति यत्पापं प्राणिभिः समुपार्जितम् ॥
षडशीतिमुखे दृष्ट्वा तल्लिंगं तु व्यपोहति ॥ ९ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
कपालिरुद्रदेवस्य तृतीयस्य वरानने ॥ 7.1.89.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कपा लीश्वरमाहात्म्यवर्णनंनामैकोननवतितमोऽध्यायः ॥ ८९ ॥