स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०२

ततो गच्छेन्महादेवि देवीं कंटकशोधिनीम् ॥
तस्यैवोत्तरदिग्भागे धनुर्द्वितयसंस्थिताम् ॥ १ ॥
महिषघ्नीं महाकायां ब्रह्मदेवर्षिपूजिताम् ॥
पुरा ये कल्मषोपेता दानवा देवकंटकाः ॥ २ ॥
युगेयुगे शोधयेत्तांस्तेन कंटकशोधिनी ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां तामथार्चयेत् ॥ ३ ॥
पशुपुष्पोपहारैश्च दीपधूपैस्तथोत्तमैः ॥
तस्याऽरयो न जायंते यावद्वर्षं वरानने ॥ ४ ॥
यस्तां पश्यति सद्भक्त्या भूताया नित्यमेव वा ॥ । ॥
तं पुत्रमिव कल्याणी संरक्षति न संशयः ॥ ५ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
देवि कंटकशोधिन्याः श्रुतं रक्षाकरं परम् ॥ ६ ॥
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यसमीपवर्तिकंटकशोधिनीमाहात्म्यवर्णनंनाम द्व्युत्तरशततमोध्यायः ॥ १०२ ॥ ॥ छ ॥