स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ११४
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विष्णुं पापप्रणाशनम् ॥
वामनस्वामिनामानं सर्वपातकनाशनम् ॥ १ ॥
पुष्करान्नैर्ऋते भागे धनुर्विशतिभिः स्मृतम् ॥
यदा बद्धो बलिर्देवि विष्णुना प्रभविष्णुना ॥ २ ॥
तदा तत्र पदं न्यस्तं दक्षिणं विश्वरूपिणा ॥
द्वितीयं मेरुशृंगे तु तृतीयं गगने प्रिये ॥ ३ ॥
यावदूर्ध्वं चोत्क्षिपति तावद्भिन्नं सुदूरतः ॥
पादाग्रेण तु ब्रह्माण्डं निष्क्रान्तं सलिलं ततः ॥ ४ ॥
ततः स्वजानुमात्रेण संप्राप्तं पृथिवीतले ॥
ततो विष्णुपदी गंगा प्रसिद्धिमगमत्क्षितौ ॥ ५ ॥
पूर्वं सा पुष्करे प्राप्ता पुष्करात्सा महानदी ॥
पुष्करं कथ्यते व्योम पुष्करं कथ्यते जलम् ॥
तेन तत्पुष्करं ख्यातं संनिधानं प्रजापतेः ॥ ६ ॥
तत्र स्नानं नरः कृत्वा यः पश्यति हरेः पदम् ॥
स याति परमं स्थानं यत्र देवो हरिः स्वयम् ॥ ७ ॥
तत्र पिंडप्रदानेन तृप्तिः स्यात्कोटिवार्षिकी ॥
पितॄणां च वरारोहे ह्येतदाह हरिः स्वयम् ॥ ८ ॥
अत्र गाथा पुरा गीता वसिष्ठेन महर्षिणा ॥
वामनस्वामिनं दृष्ट्वा तां शृणुष्व समाहिता ॥ ९ ॥
स्नात्वा तु पुष्करे तीर्थे दृष्ट्वा विष्णुपदं ततः ॥
अपि कृत्वा महत्पापं किमतः परितप्यते ॥ 7.1.114.१० ॥
यस्तत्रोपानहौ दद्याद्ब्राह्मणाय यतव्रतः ॥
स यानवरमारूढो विष्णुलोके महीयते ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्र माहात्म्ये वामनस्वामिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥