स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३२

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वैष्णवीं शक्तिमुत्तमाम् ॥
सोमेशादीशदिग्भागे नातिदूरे व्यवस्थिताम् ॥ १ ॥
सिद्धलक्ष्मीति विख्याता ह्यत्र पीठाधिदेवता ॥ २ ॥
ब्रह्माण्डे प्रथमं पीठं यत्प्रभासं व्यवस्थितम् ॥
तत्र देवि महापीठे योगिन्यो भूचराः खगाः ॥
भैरवेण समे तास्तु क्रीडन्ते स्वेच्छया प्रिये ॥ ३॥
जालंधरं महापीठं कामरूपं तथैव च ॥
श्रीमद्रुद्रनृसिंहं च चतुर्थं पीठमुत्तमम् ॥ ४ ॥
रत्नवीर्यं महापीठं काश्मीरं पीठमेव च ॥
एतानि देवि पीठानि यो वेत्ति स च मन्त्रवित् ॥ ५ ॥
सर्वेषां चैव पीठानामाधारं पीठमुत्तमम् ॥
सौराष्ट्रे तु महादेवि नाम्ना ख्यातं महोदयम् ॥
कामरूपधरं ज्ञानं यत्राद्यापि प्रवर्तते ॥ ६ ॥
तत्र पीठे स्थिता देवी महालक्ष्मीति विश्रुता ॥
सर्वपापप्रशमनी सर्वकार्यशुभप्रदा ॥ ७ ॥
श्रीपञ्चम्यां नरो यस्तु पूजयेत्तां विधानतः ॥
गन्धपुष्पादिभिर्भक्त्या तस्यालक्ष्मीभयं कुतः ॥ ८ ॥
उत्तरां दिशमास्थाय महाल क्ष्म्यास्तु सन्निधौ॥
यो जपेन्मन्त्रराज्ञीं तां सिद्धलक्ष्मीति विश्रुताम् ॥ ९ ॥
लक्षजाप्यविधानेन दीक्षास्नानादिपूर्वकम् ॥
दशांशहोमसंयुक्तं त्रिमधु- श्रीफलेसुभिः ॥ 7.1.132.१० ॥
एवं प्रत्यक्षतां याति तस्य लक्ष्मीर्न संशयः ॥
ददाति वांछितां सिद्धिमिह लोके परत्र च ॥ ११ ॥
तृतीयायामथा ष्टम्यां चतुर्दश्यां विधानतः ॥
यस्तां पूजयते भक्त्या तस्य सिद्धिः करे स्थिता ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धलक्ष्मीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ ॥