स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १३४

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुष्करावर्तकां नदीम् ॥
ब्रह्मकुंडादुत्तरतो नातिदूरे व्यवस्थिताम् ॥ १ ॥
पुरा यज्ञे वर्तमाने सोमस्य तु महात्मनः ॥
ब्रह्मा सुरगणैः सार्धं प्रभासं क्षेत्रमागतः ॥२॥
सोमनाथप्रतिष्ठार्थमृक्षराजनिमंत्रितः ॥
प्रतिज्ञातं पुरा तेन ब्रह्मणा लोककारिणा ॥ ३ ॥
यावत्स्थास्याम्यहं मर्त्ये कस्मिंश्चित्कारणांतरे ॥
तावत्संध्यात्रयं वंद्यं नित्यमेव त्रिपुष्करे ॥ ४ ॥
एतस्मिन्नेव काले तु लग्नकाल उपस्थिते ॥
आदिष्टं शोभनं कालं ब्राह्मणैर्दैवचिन्तकैः ॥ ५ ॥
ततस्तं प्रस्थितं ज्ञात्वा पुष्करे तु पितामहम् ॥
संध्यार्थं रात्रिनाथो वै वाक्यमेतदुवाच ह ॥ ६ ॥।
दैवज्ञैः कलितः काल एष एव शुभोदयः ॥
यथा कालात्ययो न स्यात्तथा नीतिर्विधीयताम् ॥ ७ ॥
तं ज्ञात्वा सांप्रतं कालं ब्रह्मा लोकपितामहः ॥
मनसा चिन्तयामास पुष्कराणि समाहितः ॥ ८ ॥
तानि वै स्मृतमात्राणि ब्रह्मणा वरवर्णिनि ॥
प्रादुर्भूतानि तत्रैव नद्यास्तीरे सुशोभने ॥ ९ ॥
आवर्तास्तत्र सञ्जाता ज्येष्ठमध्यकनीयसः ॥
अथ नामाकरोत्तस्या ब्रह्मा लोकपितामहः ॥ 7.1.134.१० ॥
पुष्करावर्तका नाम्ना अद्यप्रभृति शोभना ॥
नदी प्रयास्यते लोके ख्यातिं मम प्रसादतः ॥ ११ ॥
अत्र स्नात्वा नरो भक्त्या तर्पयिष्यति यः पितॄन् ॥
त्रिपुष्करसमं पुण्यं लप्स्यते स तथेप्सितम् ॥ १२ ॥
श्रावणे शुक्लपक्षस्य तृतीयायां नरोत्तमः ॥
यः पितॄंस्तर्पयेत्तत्र तृप्तिः कल्पायुतं भवेत् ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करावर्तकानदीमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३४॥