स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४१

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कपर्दी यत्र संस्थितः ॥
तस्यैव उत्तरे भागे नातिदूरे व्यवस्थितः ॥
चिंतितार्थप्रदो देवि चिन्तामणिरिवापरः ॥ १ ॥
चतुर्थ्यां तं तु देवेशि अंगारकदिने पुनः ॥
स्नापयित्वा तु संपूज्य नैवेद्यैर्विविधैः शुभैः ॥
सन्तर्प्य विघ्नराजेशं सर्वान्कामानवाप्नुयात् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपर्दिचिन्तामणिमाहात्म्यवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥