स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४४

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तृतीयं पुष्करं महत् ॥
तस्यैव पूर्वदिग्भागे किञ्चिदीशानगोचरे ॥
कनीयः संस्मृतं कुंडं पुष्करंनाम नामतः ॥ १ ॥
यत्र मध्याह्नसमये ब्रह्मणा समुपासिता ॥
सन्ध्या त्रैलोक्यजननी प्रतिष्ठार्थं गतेन च ॥ २ ॥
तत्र यः कुरुते स्नानं पौर्णमास्यां समाहितः ॥
सम्यक्कृतं भवेत्तेन स्नानं तत्रादिपुष्करे ॥ ३ ॥
हिरण्यं तत्र दातव्यं सर्वपापापनुत्तये ॥ ४ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं तव पौष्करम् ॥
श्रुतं पापहरं नॄणां सर्वकामप्रदं तथा ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करकुण्डमाहात्म्य वर्णनंनाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४४ ॥