स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४५

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येद्विघ्नेशं पापनाशनम् ॥
गजकुंभोदरं नाम सर्वसिद्धिप्रदायकम् ॥ १ ॥
तत्र कुंडे नरः स्नात्वा चतुर्थ्यां प्रयतात्मवान् ॥
पूजयेद्यस्तु तं भक्त्या विघ्नेशस्तस्य तुष्यति ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गजकुंभोदरमाहात्म्यवर्णनंनाम पञ्चचत्वा रिंशदुत्तरशततमोऽध्यायः ॥ १४५ ॥