स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४८
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कूपं कुंडलसंभवम् ॥
तस्यैव चोत्तरे भागे ब्रह्मकुण्डसमीपतः ॥ १ ॥
यत्र सिद्धो महादेवि रूपकुंडलहारकः ॥
तत्र स्नात्वा नरो देवि मुच्येत्स्तेयकृतादघात् ॥ २ ॥
सप्त जन्मानि देवेशि न तस्यान्वयसंभवः ॥
चौरः कश्चिद्भवेत्क्रूरस्तत्र स्नानप्रभावतः ॥ ३ ॥
शिवरात्र्यां विशेषेण पिंडदानादिकां क्रियाम् ॥
कुर्याच्छस्त्रहतानां च पापिनां तत्र मुक्तये ॥ ४ ॥
॥ देव्युवाच ॥ ॥
कथं कुण्डलरूपं तु पृथिव्यां ख्यातिमागतम् ॥
एतत्कथय मे देव विस्तराद्वदतां वर ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि महापुण्यां कथां पापप्रणाशनीम् ॥
यां श्रुत्वा मुच्यते पापान्नरो जन्मशतार्जितात् ॥ ६ ॥
प्रभासक्षेत्रमाहात्म्याच्छिवरात्र्यामुपोषितः ॥
आसीत्सुदर्शनो राजा पृथिव्यामेकराट् सुधीः । ॥ ७ ॥
धन्यो हि स धनाढ्यश्च प्रजां यत्नैरपालयत् ॥
राज्यं तस्य सुसंपन्नं ब्राह्मणैरुपशोभितम् ॥
समृद्धमृद्धिसंयुक्तं विटतस्करवर्जितम् ॥ ८ ॥
तस्मिञ्जनपदे रम्ये पुरी भगवती शुभा ॥
चातुर्वर्ण्यसमायुक्ता पुरप्राकारमंडिता ॥ ९ ॥
तस्मिन्पुरवरे रम्ये राज्यं निहतकण्टकम् ॥
करोति बान्धवैः सार्द्धमृद्धियुक्तः सुदर्शनः ॥
हिरण्यदत्तस्य सुतो जातो गांधारकन्यया ॥ 7.1.148.१० ॥
तस्य भार्या प्रिया साध्वी भर्तृव्रतपरायणा ॥
सुनंदा नामविख्याता काशिराजसुता शुभा ॥ ११ ॥
तया सार्धं हि राजेन्द्रो भोगान्स बुभुजे सदा ॥
भुंजमानस्य भोगान्वै चिरकालो गतस्तदा ॥१२॥
अकरोत्स महायज्ञान्ददौ दानानि भूरिशः ॥
एवं कालो गतस्तस्य भार्यया सह सुव्रते ॥ १३ ॥
कदाचिन्माघमासे तु शिवरात्र्यां वरानने ॥
सस्मार पूर्वजातिं स भार्यामाहूय चाब्रवीत् ॥ १४ ॥
॥ सुदर्शन उवाच ॥ ॥
शिवरात्रिव्रतं देवि मया कार्यं वरानने ॥
व्रतस्यास्य प्रभावेन प्राप्तं राज्यं मया किल ॥ १५ ॥
॥राज्ञ्युवाच ॥ ॥
महान्प्रभावो राजेन्द्र एवमुक्तं त्वया मम ॥
एतन्मे कारणं ब्रूहि आश्चर्यं हृदि वर्तते ॥ १६॥ ॥
॥ राजोवाच ॥ ॥
शृणु तीर्थस्य माहात्म्यं शिवरात्रिमुपोषणात् ॥
तस्मिञ्छिवपुरे रम्ये स्वर्गद्वारे सुशोभने॥१७॥
आदितीर्थे प्रभासे तु कामिके तीर्थ उत्तमे ॥ १८॥
ऋद्धियुक्ते पुरे तस्मिन्नित्यं धर्मानुसेविते ॥
शिवरात्र्यां गतो राज्ञि तिथीनामुत्तमा तिथिः ॥ १९॥
मानवास्तत्र ये केचित्पुरराष्ट्रनि वासिनः॥
तत्रागता वरारोहे शिवरात्र्यामुपोषितुम् ॥ 7.1.148.२० ॥
धननामा वणिक्कश्चित्तत्रैव वसते सदा ॥
धनाढ्यः स तु धर्मात्मा सदा धर्मपरायणः ॥ ॥२१ ॥
स भार्यासहितस्तत्र शिवरात्रिमुपोषितः ॥
तस्य भार्याऽभवत्साध्वी रूपयौवनसंवृता ॥ २२ ॥
प्रचलन्मेखलाहारा सर्वाभरणभूषिता ॥
स तया भार्यया सार्धं कामक्रोधविवर्जितः ॥२३॥
प्रभासस्याग्रतो भूत्वा स्नातः शुक्लांबरः शुचिः ॥
यथोक्तेन विधानेन भक्त्या निद्राविवर्जितः ॥२४॥
तत्राहं चौररूपेण पापः स्तैन्यं समाश्रितः ॥
सच्छूद्राणां कुले जातो देवब्राह्मणपूजकः ॥ २५ ॥
पूर्वकर्मानुसंयोगाद्विकर्मणि रतः सदा ॥
तस्यां रात्र्यामहं तत्र जनमध्ये तु संस्थितः ॥ २६ ॥
कुण्डलीनः स्थितस्तत्र रंध्रापेक्षी वरानने ॥
वणिजस्तस्य भार्यायाश्छिद्रान्वेषणतत्परः ॥ २७ ॥
सा रात्रिर्जाग्रतस्तस्य गता मे विजने तथा ॥
गीतनृत्यादिनिर्घोषैर्वेदमंगलपाटकैः ॥ २८ ॥
तालशब्दैस्तथा बन्धैः पुस्तकानां च वाचकैः ॥
एवं रात्र्यां तु शेषायां यावत्तिष्ठति तत्र वै ॥ २९ ॥
निरोधेन समायुक्ता पीड्यमाना शुचिस्मिता ॥
धनिभार्या निरोधार्ता देवागाराद्बहिर्गता ॥ 7.1.148.३० ॥
तस्याः कर्णौ त्रोटयित्वा पुप्लुवेऽहं जले स्थितः ॥
ततः कोलाहलस्तत्र कृतस्तत्पुरवासिभिः ॥ ३१ ॥
श्रुत्वा कोलाहलं शब्दं कर्णत्रोटनजं तदा ॥
धाविता रक्षकास्तत्र राजशासनकारकाः ॥ ३२ ॥
तैरहं शस्त्रहस्तैश्च उल्काहस्तैः समंततः ॥
निरीक्षितोऽथ न प्राप्तं सुवर्णं मन्मुखे स्थितम् ॥ ॥ ३३ ॥
खड्गेन तीक्ष्णधारेण छित्त्वा शीर्षं तदा मम ॥
उल्काहस्ता निरीक्षन्तो नापश्यन्स्वर्णमण्वपि ॥ ३४ ॥
हित्वा मां ते गताः सर्वे गत्वा राज्ञे न्यवेदयन् ॥
न किञ्चित्तत्र संप्राप्तं हतोऽस्माभिश्च तत्क्षणात् ॥ ३५ ॥
कथयित्वा तु ते सर्वे यथादेशं गताः पुनः ॥
ततो वै बन्धुना तत्र भयभीतेन चेतसा ॥ ३६ ॥
निखातं मम तत्रैव शिरः कायेन संयुतम् ॥
खातं कृत्वा प्रिये तत्र ब्रह्मतीर्थस्य चोत्तरे ॥ ३७ ॥
पिहितोऽहं तु तत्रैव प्रभासे तीर्थ उत्तमे ॥
शिवरात्रिप्रभावेन तज्जातिस्मरतां गतः ॥ ३८ ॥
राज्यं निष्कण्टकं प्राप्तं समृद्धं वरवर्णिनि ॥
एतत्प्रभासमाहात्म्यं शिवरात्रेरुपोषणात् ॥
एतत्फलं मया लब्धं गत्वा तस्मादुपोषये ॥ ३९ ॥
॥ राज्ञ्युवाच ॥ ॥
गच्छावस्तत्र यत्रैव कपालं पतितं तव ॥
स्फोटिते च कपाले च हिरण्यं दृश्यते यदि ॥
प्रत्ययो मे भवेत्पश्चात्तव वाक्यं न संशयः ॥ 7.1.148.४० ॥
॥ राजोवाच ॥ ॥
कल्पं हि तिष्ठते चास्थि यावद्भूमिविपर्ययः ॥
उत्तिष्ठ व्रज भद्रं ते प्रभासं क्षेत्रमुत्तमम् ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा यद्राज्ञा समुदीरितम् ॥
गमनाय मतिं चक्रे शिवरात्र्या उपोषणे ॥ ४२ ॥
ततोऽश्वैर्जवनैयुर्क्तं रथं हेमविभूषितम् ॥
आस्थाय सह पत्न्या च प्रभासं क्षेत्रमेयिवान् ॥ ४३ ॥
व्रतं कृत्वा प्रभासे तु यथोक्तं वरवर्णिनि ॥
ब्रह्मतीर्थे समागत्य उद्धृत्य सकलं ततः ॥४४॥
हिरण्यं दर्शयामास स्फोटयित्वा शवं स्वयम् ॥ ४५ ॥
॥ ईश्वर उवाच ॥ ॥
जातसंप्रत्यया भार्या तस्य राज्ञो बभूव ह ॥
जगाम परमं स्थानं यत्र कल्याणमुत्तमम् ॥ ४६ ॥
जनोऽपि विस्मितः सर्वो दृष्ट्वा चित्रं तदद्भुतम् ॥ ॥ ४७ ॥
नदी चित्रपथानाम तत्रोत्पन्ना वरानने ॥
चित्रादित्यस्य पूर्वेण ब्रह्मतीर्थस्य चोत्तरे ॥ ४८ ॥
तस्यां तत्तिष्ठते तत्र सर्वपापप्रणाशनम् ॥ ॥ ४९ ॥
श्रावणे मासि संप्राप्ते तस्मिन्कूपे विधानतः ॥
यः स्नानं कुरुते देवि श्राद्धं तत्र विशेषतः ॥ 7.1.148.५० ॥
चित्रादित्यं तु संपूज्य शिवलोके महीयते ॥ ५१ ॥
एतत्ते कथितं सर्वं शिवरात्र्या महत्फलम् ॥
भुक्तिमुक्तिप्रदं पुण्यं सर्वपापप्रणाशनम् ॥ ५२ ॥
य इदं पठते नित्यं शृणुयाद्वापि मानवः ॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ ५३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये कुण्डलकूपमाहात्म्यवर्णनंनामाष्टाचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४८ ॥ ॥ छ ॥