स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १५२

॥ ॥ ईश्वर उवाच ॥ ॥
तृतीयो भैरवः प्रोक्तश्चतुर्थं भैरवं शृणु ॥
ब्रह्मेशात्पश्चिमे भागे धनुषां त्रितये स्थितम् ॥ १ ॥
सर्वपापप्रशमनं सर्व कामप्रदं नृणाम् ॥
नारदेश्वरनामानं स्थापितं नारदेन वै ॥ २ ॥
ब्रह्मलोके स्थितः पूर्वं नारदो भगवानृषिः ॥
तत्र दृष्ट्वा महावीणां दिव्यां तंत्र्ययुतै र्युताम् ॥ ३ ॥
सरस्वत्या विनिर्मुक्तां ब्रह्मलोके महाप्रभाम् ॥
तेनासौ कौतुकाविष्टो वादयामास तां तदा ॥ ४ ॥
तंत्रीभ्यो वाद्यमानाभ्यो ब्राह्मणाः पतिता भुवि ॥
सप्त स्वरास्ते विख्याता मूर्च्छिताः षड्जकादयः ॥ ५ ॥
तान्दृष्ट्वा विस्मयाविष्टो मुक्त्वा वीणां प्रयत्नतः ॥
पप्रच्छ देवं ब्रह्माणं किमिदं कौतुकं विभो ॥ ६ ॥
वाद्यमानासु तन्त्रीषु पतिता ब्राह्मणा भुवि ॥
क एते ब्राह्मणा देव किं मृता इव शेरते ॥ ७ ॥
॥ ब्रह्मोवाच ॥ ॥
एते स्वरा महाभाग मूर्च्छिताः पतिता भुवि ॥
अज्ञानवादनेनैव पापं जातं तवाधुना ॥ ८ ॥
सप्तब्राह्मणविध्वंसपातकं ते समा गतम् ॥
तस्माच्छीघ्रं व्रज मुने प्रभासं क्षेत्रमुत्तमम् ॥ ९ ॥
समाराधय देवेशं सर्वपापविशुद्धये ॥
इत्युक्तो नारदस्तत्र संतप्य च मुहुर्मुहुः ॥ 7.1.152.१० ॥
कृत्वा विषादं बहुशः प्रभासं क्षेत्रमागतः ॥
तत्रैव ब्रह्मकुण्डं तु समासाद्य प्रयत्नतः ॥ ११ ॥
भैरवं पूजयामास दिव्याब्दानां शतं प्रिये ॥
ततो निष्कल्मषो भूत्वा गीतज्ञश्चाभवत्तथा ॥ १२ ॥
ततः प्रभृति तल्लिंगं नारदेश्वरभैरवम् ॥
ख्यातं लोके महादेवि सर्वपातकनाशनम् ॥ १३ ॥
अज्ञानाद्वादयेद्यस्तु वीणां चैव तथा स्वरान् ॥
स तत्पातकशुद्ध्यर्थं तत्र गच्छेन्महेश्वरि ॥ १४ ॥
माघे मासि जिताहारस्त्रिकालं योऽर्चयेत्ततः ॥
नारदेशं भैरवं स स्वर्गरामामनोहरः ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये ब्रह्मकुण्डमाहात्म्ये नारदेश्वरभैरवमाहात्म्यवर्णनंनाम द्विपंचाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥ ॥ छ ॥