स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १७२

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महा देवि लिंगं तद्भरतेश्वरम् ॥
तस्मादुत्तरकोणस्थं नातिदूरं व्यवस्थितम् ॥ १ ॥
भरतोनाम राजाऽभूदाग्नीध्रः प्रथितः क्षितौ ॥
यस्येदं भारतं वर्षं नाम्ना लोकेषु गीयते ॥ २ ॥
स च चक्रे तपो घोरं क्षेत्रेऽस्मिन्पार्वति प्रिये ॥
दिव्यं वर्षसहस्रं तु प्रतिष्ठाप्य महेश्वरम् ॥ ३ ॥
पुत्रकामो नरश्रेष्ठः पूजयामास शंकरम् ॥
ततस्तुष्टः स भगवान्वरं दातुं समुत्सुकः ॥ ४ ॥
अष्टौ पुत्रान्ददौ तस्मै कन्यां चैकां यशस्विनीम् ॥
स तु प्राप्याभिलषितं कृतकृत्यो नराधिपः ॥ ५ ॥
भारतं नवधा कृत्वा पुत्रेभ्यः प्रददौ पृथक् ॥
तेषां नामांकितान्येव ततो द्वीपानि जज्ञिरे ॥ ६ ॥
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ चारुणः ॥ ७ ॥
अयं तु नवमो द्वीपः कुमार्या संज्ञितः प्रिये ॥
अष्टौ द्वीपाः समुद्रेण प्लाविताश्च तथापरे ॥ ८ ॥
ग्रामादिदेशसंयुक्ताः स्थिताः सागरमध्यगाः ॥
एक एव स्थितस्तेषां कुमार्याख्यस्तु सांप्रतम् ॥ ९ ॥
बिंदुसरः प्रभृत्येव सागराद्दक्षिणोत्तरम् ॥
योजनानां सहस्रं तु एकं विस्तीर्ण एव तु ॥ 7.1.172.१० ॥
योजनानां सहस्राणि नव दैर्घ्यं प्रकीर्तितम् ॥
तस्यैतज्जृम्भितं देवि भरतस्य महात्मनः ॥ ११ ॥
षट्पञ्चाशदश्वमेधान्गंगामनु चकार यः॥
यस्त्रिंशद्यमुनाप्रान्ते भरतो लोकपूजितः ॥ १२ ॥
स चेश्वरप्रसादेन मोदते दिवि देववत् ॥ १३ ॥
यस्तत्प्रतिष्ठितं लिंगं भारतं पूजयिष्यति ॥
स सर्वयज्ञदानानां फलं प्रापयिता धुवम् ॥ १४ ॥
कार्त्तिक्यां कृत्तिका योगे यस्तं पश्यति मानवः ॥
न स पश्यति स्वप्नेपि नरकं घोरदारुणम् ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भरतेश्वरमाहात्म्यवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥ १७२ ॥