स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १७४

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुन्तीश्वरमनुत्तमम् ॥
सावित्र्याः पूर्वभागस्थं खातमध्ये व्यवस्थितम् ॥ १ ॥
कुन्त्या प्रतिष्ठितं देवि क्षेत्रे प्राभासिके प्रिये ॥
पाण्डवास्तु यदा पूर्वं प्रभासक्षेत्रमागताः ॥ २ ॥
तीर्थयात्राप्रसंगेन कुन्त्या चैव समन्विताः ॥
तस्मिन्काले महादेवि ज्ञात्वा क्षेत्रमनुत्तमम्॥३॥
कुन्त्या प्रतिष्ठितं लिंगं सर्वपापभयापहम्॥
कार्तिक्यां तु विशेषेण यस्तं पूजयते नरः॥
स सर्वकामतृप्तात्मा रुद्रलोके महीयते॥४॥
वाचिकं मानसं पापं कर्मणा यदुपार्जितम्॥
तत्सर्वं नश्यते देवि तस्य लिंगस्य दर्शनात्॥५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुन्तीश्वरमाहात्म्यवर्णनंनाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ ॥ १७४ ॥