स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १८०

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्पुष्पदन्तेश्वरं शुभम् ॥
पुष्पदन्तेश्वरोनाम गणेशः शंकरस्य तु ॥१॥
तेन तप्तं तपो घोरं तत्र लिंगं प्रतिष्ठितम् ॥ २ ॥
तं दृष्ट्वा मुच्यते जंतुर्जन्मसंसारबन्धनात् ॥
प्राप्नुयादीप्सितान्कामानिह लोके परत्र च ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्पदन्तेश्वर माहात्म्यवर्णनंनामाशीत्युत्तरशततमोऽध्यायः ॥ १८० ॥