स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १९०

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र मुक्तिप्रदं हरिम् ॥
प्रभासान्नैर्ऋते भागे नातिदूरे व्यवस्थितम् ॥ १ ॥
एकादश्यां जिताहारो यस्तं देवि प्रपूजयेत् ॥
माघेमासे विशेषेण सोऽग्निष्टोमफलं लभेत् ॥ २ ॥
यस्तत्रानशनं कुर्याद्व्रतं चान्द्रायणादिकम् ॥
सोऽन्य तीर्थात्कोटिगुणं प्राप्नुयात्फलमीप्सितम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये मोक्षस्वामिमाहात्म्यवर्णनंनाम नवत्युत्तरशततमोऽध्यायः ॥ १९० ॥