स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १९७

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि जमदग्नीश्वरं शिवम् ॥
वृद्धप्रभाससामीप्ये नातिदूरे व्यवस्थितम् ॥ १ ॥
सर्वपापोपशमनं स्थापितं जमदग्निना ॥
तं दृष्ट्वा मानवो देवि मुच्यते च ऋणत्रयात् ॥ २ ॥
स्नात्वा निधानवाप्यां च संपूज्य प्राप्नुयाद्धनम् ॥
निधानं पांडवैर्लब्धं तत्र स्थाने पुरा प्रिये ॥ ३ ॥
निधानेनैव सा ख्याता वापी त्रैलोक्यवंदिता ॥ ४ ॥
तस्यां स्नात्वा महादेवि दुर्भगा सुभगा भवेत् ॥
लभते वाञ्छितान्कामानिति प्रोक्तं मया तव ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जमदग्नीश्वरमाहात्म्यवर्णनंनाम सप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७ ॥ ॥