स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २०५

॥ देव्युवाच ॥ ॥
भगन्देवदेवेश संसारार्णवतारक ॥
ब्रूहि श्राद्धविधिं पुण्यं विस्तराज्जगतांपते ॥ १ ॥
कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् ॥
अस्मिन्सरस्वती तीर्थे प्रभासक्षेत्र उत्तमे ॥ २ ॥
कस्मिंस्तीर्थे कृतं श्राद्धं बहुपुण्यफलं भवेत् ॥
एतत्सर्वं महादेव यथावद्वक्तुमर्हसि ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
प्रातःकाले मुहूतांस्त्रीन्संगवस्तावदेव तु ॥
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ॥ ४ ॥
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥
राक्षसीनाम सा वेला गर्हिता सर्वकर्मसु ॥ ५ ॥
अह्नो मुहूर्ता विख्याता दशपंच च सर्वदा ॥
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ ६ ॥
मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः ॥
तस्मादनंतफलदस्तदारम्भो भविष्यति ॥ ७ ॥
मध्याह्नः खड्गपात्रं तु तथान्ये कालकम्बलाः ॥।
रूप्यं दर्भांस्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ ८ ॥
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ॥
अष्ट चैवं मतास्तस्मात्कुतपा इति विश्रुताः। ॥ ९ ॥
ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् ॥
मुहूर्तपञ्चकं चैव स्वधाभवनमिष्यते ॥ 7.1.205.१० ॥
विष्णोर्देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा ॥।
श्राद्धस्य रक्षणार्थाय एतत्प्राहुर्दिवौकसः ॥ ११ ॥
तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः ॥
सदर्भहस्तेनैकेन श्राद्धसेवनमिष्यते ॥ १२ ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥
त्रीणि चात्र प्रशंसंति शुद्धिमक्रोधमत्वराम् ॥ १३ ॥
दौहित्रं खड्गमित्युक्तं ललाटे शृङ्गमस्ति यत् ॥
तस्य शृंगस्य यत्पात्रं तद्दौहित्रमिति स्मृतम् ॥ १४ ॥
क्षीरिणी वापि चित्रा गौस्तत्क्षीरायद्घृतं भवेत् ॥
तद्दौहित्रमिति प्रोक्तं दैवे पित्र्ये च कर्मणि ॥ १५ ॥
दर्भाग्रं दैवमित्युक्तं समूलाग्रं तु पैतृकम् ॥
तत्रावलंबिनो ये तु कुशास्ते कुतपाः स्मृताः ॥ १६ ॥
शरीरद्रव्यदाराभूमनोमंत्रद्वि जन्मनाम् ॥
शुद्धिः सप्तसु विज्ञेया श्राद्धकाले विशेषतः॥१७॥
सप्तधा द्रव्यशुद्धिस्तु सोत्तमा मध्यमाऽधमा ॥१८॥
श्रुतं शौर्यं तपः कन्या शिष्याद्यं चान्वयागतम् ॥
धनं सप्तविधं शुक्लमुपायोप्यस्य तादृशः ॥ १९ ॥
कुत्सितं कृषिवाणिज्यं शुक्लं शिल्पानुवृत्तिभिः ॥
कृतोपकारादाप्तं च शंबलं समुदाहृतम् ॥ 7.1.205.२० ॥
उत्कोचतश्च यत्प्राप्तं यत्प्राप्तं चैव साहसात् ॥
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ २१ ॥
अन्यायोपार्जितैर्द्रव्यै र्यच्छ्राद्धं क्रियते नरैः ॥
तृप्यंति तेन चण्डालाः पुष्कसाद्यासु योनिषु ॥ २२ ॥
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥
तेन तृप्तिमुपायांति ये पिशाचत्वमागताः ॥ २३ ॥
यत्पयः स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ॥
तेन ये तरुतां प्राप्तास्तेषांतृप्तिः प्रजायते ॥ २४ ॥
यास्तु गंधांबुकणिकाः पतंति धरणीतले ॥
ताभिराप्यायनं तेषां ये देवत्वमुपागताः ॥ २५ ॥
उद्धृतेष्वपि पिण्डेषु याश्चान्नकणिका भुवि ॥
ताभिराप्यायनं तेषां तिर्यक्त्वं च कुले गताः ॥२६॥
ये चादग्धाः कुले बालाः स्त्रियो याश्चाप्यसंस्कृताः ॥
विपन्नास्ते तु विकिरसंमार्जनसुलालसाः ॥२७॥
भुक्त्वा वा भ्रमते यच्च जलं यच्चाह्नि सेवते ॥
ब्राह्मणानां तथान्नेन तेन तृप्तिं प्रयांति ते ॥ २८ ॥
पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये ॥
अथ कालान्प्रवक्ष्यामि कथ्यमा नान्निबोध मे ॥ २९ ॥
श्राद्धं कार्यममावास्यां मासिमासींदुसंक्षये ॥
तथाष्टकासु विप्राप्तौ सूर्येन्दुग्रहणे तथा ॥ 7.1.205.३० ॥
अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ॥
अमावास्याष्टकायां च कृष्णपक्षे विशेषतः ॥ ३१ ॥
आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे ॥
गजच्छायाव्यतीपाते विष्टिवैधृति वासरे ॥ ३२ ॥
वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च ॥
पंचदश्यां तु माघस्य नभस्ये च त्रयोदशी ॥ ३३ ॥
युगादयः स्मृता एता दत्त स्याक्षयकारिकाः ॥ ३४ ॥
यस्य मन्वन्तरस्यादौ रथारूढो दिवाकरः ॥
माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी ॥ ३५ ॥
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥
पंचमी चैत्रमासस्य तस्यैवान्त्या तथापरा ॥ ३६ ॥
शुक्लत्रयोदशी माघे कार्त्तिकस्य च सप्तमी ॥
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशीति च ॥
मन्वन्तराः स्मृता ह्येता दत्तस्याक्षयकारिकाः ॥ ३७ ॥
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तिथिः ॥ ३८ ॥
मन्वादयः स्मृताश्चैता दत्तस्याक्षयकारिकाः ॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मरा म्यहम् ॥ ३९ ॥
कल्पनामादयो देवि दत्तस्याक्षयकारिकाः ॥
तथा मन्वन्तरस्यादौ द्वादशैव वरानने ॥ 7.1.205.४० ॥
नित्यं नैमित्तिकं काम्यं वृद्धि श्राद्धं सपिण्डकम् ॥
पार्वणं चातिविज्ञानं गोष्ठं शुद्ध्यर्थमुत्तमम् ॥ ४१ ॥
कर्मांगं नवमं प्रोक्तं दैवकं दशमं स्मृतम् ॥
एकादशं क्षयाहं तु पुष्ट्यर्थे द्वादशं स्मृतम् ॥ ४२ ॥
सर्वेषामेव श्राद्धानां श्रेष्ठं सांवत्सरं स्मृतम् ॥
अहन्यहनि यच्छ्राद्धं नित्यं तत्परिकीर्तितम् ॥ ४३ ॥
वैश्वदेवविहीनं तु अशक्तावुदकेन तु ॥
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ॥ ४४ ॥
कामेन विहितं काम्यमभिप्रेतार्थसिद्धये ॥
वृद्धौ यत्क्रियते श्राद्धं वृद्धि श्राद्धं तदुच्यते ॥ ४५ ॥
ये समाना इति द्वाभ्यामेतच्छ्राद्धं सपिण्डनम् ॥
अमावास्यां तु यच्छ्राद्धं तत्पार्वणमुदाहृतम् ॥ ४६ ॥
गोष्ठ्यां यत्क्रि यते श्राद्धं तद्गोष्ठीश्राद्धमुच्यते ॥
क्रियते पापशुद्ध्यर्थं शुद्धिश्राद्धं तदुच्यते ॥ ४७ ॥
निषेककाले सोमे च सीमन्तोन्नयने तथा ॥
तथा पुंसवने चैव श्राद्धं कर्मांगमेव च ॥ ४८ ॥
देवमुद्दिश्य क्रियते यत्तद्दैवकमुच्यते ॥
गच्छेद्देशान्तरं यस्तु श्राद्धं कार्यं तु सर्पिषा ॥ ४९ ॥
पुष्ट्यर्थमेतद्विज्ञेयं क्षयाहं द्वादशं स्मृतम् ॥
मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात् ॥ 7.1.205.५० ॥
मातुश्चैव वरारोहे वत्सरान्ते मृतेऽहनि ॥
नाहं तस्य महादेवि पूजां गृह्णामि नो हरिः ॥ ५१ ॥
मृताहर्यो न जानाति मानवो यदि वा क्वचित् ॥
तेन कार्यममावास्यां श्राद्धं माघेऽथ मार्गके ॥ ५२ ॥
अथ विप्रान्प्रवक्ष्यामि श्राद्धे ये केचन क्षमाः ॥
विशिष्टः श्रोत्रियो योगी वेदविद्यासमन्वितः ॥ ५३ ॥
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडंगवित् ॥
दौहित्रकस्तु जामाता स्वस्रीयः श्वशुरस्तथा ॥ ५४ ॥
पञ्चाग्निकर्मनिष्ठश्च तपोनिष्ठश्च मातुलः ॥
पितृमातृपरश्चैव शिष्यसंबंधिबांधवः ॥ ५५ ॥
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः ॥
संबंधिनं तथा संतं दौहित्रं दुहितुः पतिम् ॥ ५६ ॥
भागिनेयं विशेषेण तथा बन्धुगणानपि ॥
नातिक्रमेन्नरस्त्वेतान्मूर्खानपि वरानने ॥ ५७ ॥
न ब्राह्मणान्परीक्षेत देवकर्मण्युप स्थिते ॥
पैत्रकर्मणि संप्राप्ते परीक्षेत प्रयत्नतः ॥ ५८ ॥
ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः ॥
तान्हव्यकव्ययोर्विप्राननर्हान्मनुर ब्रवीत् ॥ ५९ ॥
जटिलं चानधीयानं दुर्बलं कितवं तथा ॥
याजयंति च ये शूद्रांस्तांश्च श्राद्धे न पूजयेत् ॥ 7.1.205.६० ॥
चिकित्सकान्देवलकान्मांस विक्रयिणस्तथा ॥
विपणैः पीरजीवंतो वर्ज्याः स्युर्हव्यकव्ययोः ॥ ६१ ॥
प्रेष्यो ग्राम्यश्च राज्ञश्च कुनखी श्यावदंतकः ॥
प्रतिरोद्धा गुरोश्चैव त्यक्ता ग्निर्वार्धुषिस्तथा ॥ ६२ ॥
यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥
ब्रह्मध्रुक्परिवित्तिश्च गणाभ्यन्तर एव च ॥ ६३ ॥
कुशीलश्चैव काणश्च वृषलीपतिरेव च ॥
पौनर्भवश्च कानीनः कितवो मद्यपस्तथा ॥ ६४ ॥
पापरोग्यभिशस्तश्च दांभिको रसविक्रयी ॥
धनुःशराणां कर्त्ता च यश्च स्याद्दिधिषूपतिः ॥ ६५ ॥
मित्रध्रुड्दूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥
भ्रमरी मण्डपाली च चित्रांगः पिशुनस्तथा ॥ ६६ ॥
उन्मत्तोंऽधश्च बधिरो वेदनिन्दक एव च ॥
हयगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ॥ ६७ ॥
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥
स्रोतःसंभेदको यश्च वेश्यानां पोषणे रतः ॥ ६८ ॥
गृहसंवेशको दूतः कृष्यारोपक एव च ॥
आखेटी श्येनजीवी च कन्यादूषक एव च ॥ ६९ ॥
हिंस्रो वृषलपुत्रश्च गणानां चैव याजकः ॥
आचारहीनः क्लीबश्च नित्ययाजनकस्तथा ॥ 7.1.205.७० ॥
कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥
औरभ्रिको माहिषिकः परपूर्वा पतिस्तथा ॥
प्रेतनिर्यातकाश्चैव वर्जनीयाः प्रयत्नतः ॥ ७१ ॥
एतान्वै गर्हिताचारानपांक्तेयान्द्विजाधमान् ॥
द्विजानां सति लाभे तू भयत्रैव विवर्जयेत् ॥ ७२ ॥
वीक्षांधो वैकतः काणः कुष्ठी च वृषलीपतिः ॥
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ ७३ ॥
यावद्भिः संस्पृशत्यङ्गैर्ब्राह्मणाञ्छ्रूद्रयाजकः ॥
तावतां न भवेत्प्रेत्य दातुर्वा तस्य पैत्रिकम् ॥ ७४ ॥
आदौ माहिषकं दृष्ट्वा मध्ये च वृषलीपतिम् ॥
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥ ७५ ॥
महिषी प्रोच्यते भार्या सा वैधव्येऽभिचारिणी ॥
तस्यां यः क्षपते दोषां स वै माहिषिकः स्मृतः ॥ ७६ ॥
वृषलीत्युच्यते शूद्री तस्या यश्च पतिर्भवेत् ॥
तदोष्ठलालासंसर्गात्पतितो वृषलीपतिः ॥ ॥ ७७ ॥
स्वं वृषं तु परित्यक्त्वा परेण तु वृषायते ॥
वृषली सा तु विज्ञेया न शूद्री वृषली भवेत् ॥ ७८ ॥
चण्डाली बंधकी वेश्या रजःस्था या च कन्यका ॥
कुटिला च स्वगोत्रा च वृषल्यः सप्त कीर्तिताः ॥ ७९ ॥
पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता ॥
पतिताः पितरस्तस्याः कन्या सा वृषली भवेत् ॥ 7.1.205.८० ॥
यस्तु तां वरयेत्कन्यां ब्राह्मणो ज्ञानपूर्वतः ॥
अश्राद्धेयमपांक्तेयं तं विद्याद्वृषलीपतिम् ॥ ८१ ॥
गौरी कन्या प्रधाना वै मध्यमा कन्यका मता ॥
रोहिणी तत्समा ज्ञेया अधमा च रजस्वला ॥ ८२ ॥
अप्राप्ते रजसि गौरी प्राप्ते रजसि रोहिणी ॥
अव्यंजनकृता कन्या कुचहीना तु नग्निका ॥ ८३ ॥
सप्तवर्षा भवेद्गौरी नववर्षा तु नग्निका ॥
दशवर्षा भवेत्कन्या ह्यत ऊर्ध्वं रजस्वला ॥ ८४ ॥
व्यंजनैर्हन्ति वै पुत्रान्कुलं हन्यात्पयोधरा ॥
गतिमिष्टां तथा लोकान्हंति सा रजसा पितुः ॥ ८५ ॥
य उद्वहेद्रजोयुक्तां स ज्ञेयो वृषलीपतिः ॥ ८६ ॥
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ॥
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ८७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धानर्हब्राह्मणपरीक्षणकथनंनाम पञ्चोत्तरद्विशततमो ऽध्यायः ॥ २०५ ॥