स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २०९

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मार्कण्डेयेशमुत्तमम् ॥
तस्मादुत्तरदिग्भागे मार्कण्डेन प्रतिष्ठितम् ॥१॥
सावित्र्याः पूर्वभागे तु नातिदूरे व्यवस्थितम् ॥
महर्षिरभवत्पूर्वं मार्कण्डेय इति श्रुतः ॥ २ ॥
अजरश्चामरश्चैव प्रसादात्पद्मयोनिनः ॥
स गत्वा तत्र विप्रेन्द्रो देवदेवस्य शूलिनः ॥
लिंगं तु स्थापयामास ज्ञात्वा तत्क्षेत्रमुत्तमम् ॥ ३ ॥
स तं पूज्य विधानेन स्थित्वा दक्षिणतो मुनिः ॥
पद्मासनधरो भूत्वा ध्यानावस्थस्तदाऽभवत् ॥ ४ ॥
तस्य ध्यानरतस्यैव प्रयुतान्यर्बुदानि च ॥
युगानां समतीतानि न जानाति मुनीश्वरः ॥ ५ ॥
अथ लोपं समापन्नः प्रासादः शांकरः स्थितः ॥
कालेन महता देवि पांसुभिर्मारुतोद्भवैः ॥ ६ ॥
कस्यचित्त्वथ कालस्य प्रबुद्धो मुनिसत्तमः ॥
अपश्यत्पांसुभिर्व्याप्तं तत्सर्वं शिवमन्दिरम् ॥ ७ ॥
ततः कृच्छ्रात्स निष्क्रान्तः खनित्वा मुनिपुंगवः ॥
अकरोत्सुमहाद्वारं पूजार्थं तस्य भामिनि ॥ ८ ॥
प्रविश्य तत्र यो भक्त्या पूजयेद्वृषभध्वजम् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ॥ ९ ॥
देव्युवाच ॥
अमरत्वं कथं प्राप्तो मार्कंण्डो मुनिसत्तमः ॥
अभवत्कौतुकं ह्येतत्तस्मात्त्वं वक्तुमर्हसि ॥ 7.1.209.१० ॥
अमरत्वं यतो नास्ति प्राणिनां भुवि शंकर ॥
देवानामपि कल्पांते स कथं न मृतो मुनिः ॥ ११ ॥
॥ ईश्वर उवाच ॥ ॥
अथातस्त्वां प्रव क्ष्यामि यथासावमरोऽभवत् ॥
आसीन्मुनिः पुराकल्पे मृकण्ड इति विश्रुतः ॥ १२ ॥
भृगोः पुत्रो महाभागः सभार्यस्तपसि स्थितः ॥
तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे ॥ १३ ॥
स पाञ्चवार्षिको भूत्वा बाल एव गुणान्वितः ॥
कस्यचित्त्वथ कालस्य ज्ञानी तत्र समागतः ॥१४॥
तेन दृष्टस्तदा बालः प्रांगणे विचरन्प्रिये ॥
स्मृत्वाऽहसच्चिरं कालं भाव्यर्थं प्रति नोदितः ॥ १५ ॥
तस्य पित्रा स दृष्टस्तु सामुद्रज्ञो विदुत्तमः ॥
हास्यस्य कारणं पृष्टो विस्मयान्वितचेतसा ॥ १६ ॥
कस्मान्मे सुतमालोक्य स्मितं विप्र कृतं त्वया ॥
तत्र मे कारणं ब्रह्मन्यथावद्वक्तुमर्हसि ॥ ॥ १७ ॥
इति तस्य वचः श्रुत्वा ज्ञानी विप्रो वचोऽब्रवीत् ॥ १८ ॥
अयं पुत्रस्तव मुने सर्वलक्षणसंयुतः ॥
अद्यप्रभृति षण्मासमध्ये मृत्युमवाप्स्यति ॥ १९ ॥
यदि जीवेत्पुनरयं चिरायुर्वै भविष्यति ॥
अतो मया कृतं हास्यं विचित्रा कर्मणो गतिः ॥ 7.1.209.२० ॥
एतच्छ्रुत्वा वचो रौद्रं ज्ञानिना समुदाहृतम् ॥
व्रतोपनयनं चक्रे बालकस्य पिता तदा ॥ २१ ॥
आह चैनमृषिः पुत्रं दृष्ट्वा ब्राह्मणमागतम्॥
अभिवाद्यास्त्रयो वर्णास्ततः श्रेयो ह्यवाप्स्यसि ॥ २२ ॥
एवमुक्तः स वै विप्रः करोत्येवाभिवादनम् ॥
न वर्णावरजं वेत्ति बालभावाद्वरानने ॥ २३ ॥
पंचमासा ह्यतिक्रान्ता दिवसाः पञ्चविंशतिः ॥
एतस्मिन्नेव काले तु प्राप्ताः सप्तर्षयोऽमलाः ॥ २४ ॥
तीर्थयात्राप्रसंगेन तेन मार्गेण भामिनि ॥
कालेन तेन सर्वेऽथ यथावदभिवादनैः ॥
आयुष्मान्भव तैरुक्तः स बालो दण्डवल्कली ॥ २५ ॥
उक्त्वा ते तु पुनर्बालं वीक्ष्य वै क्षीणजीवितम् ॥
दिनानि पंच ते ह्यायुर्ज्ञात्वा भीतास्ततोऽनृतात् ॥ २६ ॥
ब्रह्मचारिणमादाय गतास्ते ब्रह्मणोऽन्तिके ॥
प्रतिमुच्याग्रतो बालं प्रणेमुस्ते पितामहम् ॥ २७ ॥
ततस्तेनापि बालेन ब्रह्मा चैवाभिवादितः ॥
चिरायुर्ब्रह्मणा बालः प्रोक्तोऽसावृषिसन्निधौ ॥ २८ ॥
ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात् ॥
पितामहस्तु तान्दृष्ट्वा ऋषीन्प्रोवाच विस्मितान् ॥
केन कार्येण वाऽऽयाताः केन बालो निवेदितः ॥२९॥
॥ ऋषय ऊचुः ॥ ॥
भृगोः पुत्रो मृकण्डस्तु क्षीणायुस्तस्य बालकः ॥
अकालेन पिता ज्ञात्वा बबंधास्य च मेखलाम् ॥ 7.1.209.३० ॥
यज्ञोपवीतं च ततस्तेन विप्रेण बोधितः ॥
यं कञ्चिद्द्रक्ष्यसे लोके भ्रमन्तं भूतले द्विजम् ॥ ३१ ॥
तस्याभिवादनं कार्यं नित्यमेव च पुत्रक ॥
 ततो वयमनेनैव दृष्टा बालेन सत्तम ॥ ॥ ३२ ॥
तीर्थयात्राप्रसंगेन दैवयोगात्पितामह ॥
चिरायुरेष वै प्रोक्तो ह्यमीभिश्चाभिवादितैः ॥ ३३ ॥
त्वत्सकाशं समानीतस्त्वया चैवमुदाहृतः ॥
कथं वागनृता देव ह्यस्माकं भवता सह ॥ ३४ ॥
उवाच बालमुद्दिश्य प्रहसन्पद्मसंभवः ॥
मत्समानायुषो बालो मार्कण्डेयो भविष्यति ॥ ३५ ॥
कल्पस्यादौ तथा चान्ते सहायो मे भविष्यति ॥
ततस्तु मुनयः प्रीता गृहीत्वा मुनिदारकम् ॥
तस्मिन्नेव प्रदेशे तु मुमुचुश्चेष्टितं यतः ॥ ३६ ॥
तीर्थयात्रां गता विप्रा मार्कण्डेयो गृहं ययौ ॥
गत्वा गृहमथोवाच मृकण्डं मुनिसत्तमम् ॥ ३७ ॥
ब्रह्मलोकमहं नीतो मुनिभिस्तात सप्तभिः ॥
उक्तोऽयं ब्रह्मणा कल्पस्यादौ चान्ते च मे सखा ॥ ३८ ॥
भविष्यति न संदेहो मत्समायुश्च बालकः ॥
ततस्तैः पुनरानीतो मुक्तश्चैवाश्रमं प्रति ॥ ३९ ॥
मत्कृते हि द्विजश्रेष्ठ यातु ते मनसो ज्वरः ॥
मार्कण्डेयवचः श्रुत्वा मृकण्डो मुनिसत्तमः ॥
जगाम परमं हर्षं क्षणमेकं सुदुःसहम् ॥ 7.1.209.४० ॥
ततौ धैर्यं समास्थाय वाक्यमेतदुवाच ह ॥ ४१ ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥
यत्त्वया मे सुपुत्रेण दृष्टो लोकपितामहः ॥ ४२ ॥
वाजपेयसहस्रेण राजसूयशतेन च ॥
यं न पश्यन्ति विद्वांसः स त्वया लीलया सुत ॥ ४३ ॥
दृष्टश्चिरायुरप्येवं कृतस्तेनाब्जयोनिना ॥
दिवारात्रमहं तात तव दुःखेन दुखितः ॥
न निद्रामनुगच्छामि तन्मेदुःखं गतं महत् ॥ ४४ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनंनाम नवोत्तरद्विशततमोऽध्यायः ॥ ॥ २०९.॥