स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २१४

॥ ईश्वर उवाच ॥ ॥
धनुषामष्टभिस्तस्मादीशाने कश्यपेश्वरात् ॥
कौशकेश्वरनामानं महापातकनाशनम् ॥ १ ॥
वसिष्ठतनयान्हत्वा तत्र कौशिकसत्तमः ॥
स्थापयामास तल्लिंगं मुक्तपापस्ततोऽभवत् ॥ २ ॥
तं दृष्ट्वा पूजयित्वा तु लभते वाञ्छितं फलम्॥३॥
इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कौशिकेश्वरमाहात्म्यवर्णनंनामचतुर्दशोत्तरद्विशततमोऽध्यायः॥ ॥ २१४ ॥