स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २१६

॥ ईश्वर उवाच॥ ॥
मार्कण्डेश्वरतो देवि उत्तरे लिंगमुत्तमम्॥
धनुषां पञ्चदशभिर्गौतमेश्वरनामकम् ॥ १ ॥
गुरुं हत्वा पुरा देवि गौतमः पापदुःखितः ॥
तत्र लिंगं प्रतिष्ठाप्य तस्मात्पापाद्व्यमुच्यत ॥ २ ॥
यस्तत्र कपिलां दद्यात्स्नात्वा नद्यां विधानतः ॥
संपूज्य विधिवल्लिंगं मुच्यते पञ्चपातकैः ॥३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनंनाम षोडशोत्तरद्विशततमोऽध्यायः ॥२१६॥ ॥