स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २२१
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं च ऋणमोचनम् ॥
तस्मिन्दृष्टे ऋणं न स्यान्मातापितृसमुद्भवम् ॥ १ ॥
पितरस्तु पुरा सर्वे दिव्यक्षेत्रं समागताः ॥
प्रभासे तपसा युक्ताः स्थिता वर्षगणान्बहून् ॥ २ ॥
अग्निष्वात्ता बर्हिषदः सोमपा आज्यपास्तथा ॥
लिंगं संस्थापयामासुः सर्वे भक्तिपरायणाः ॥ ३ ॥
ततः कालेन महता तुष्टस्तेषां महेश्वरः ॥
ततः प्रत्यक्षतां गत्वा वाक्यमेतदुवाच ह ॥ ४ ॥
परितुष्टोऽस्मि भद्रं वो ब्रूत यन्मनसेप्सितम् ॥५॥
॥ पितर ऊचुः ॥ ॥
अस्माकं दीयतां वृत्तिर्जगत्यस्मिन्स्वयं कृते ॥
देवानां च ऋषीणां च मानुषाणां महीतले ॥ ६ ॥
भवानेव परो लोके सर्वेषां पद्मसंभव॥
आगत्य वर्णाश्चत्वार इह ये श्रद्धयान्विताः ॥ ७ ॥
पैतृकात्तु ऋणान्मुक्ता भवंतु गतकल्मषाः ॥
व्यन्तरत्वं सुरश्रेष्ठ येषां वै पितरो गताः ॥ ८ ॥
सर्प्पे वह्नि विषैर्वा ये नाशं नीताः पितामहाः ॥
अपुत्रा वा सपुत्रा वा सपिण्डीकरणं विना ॥ ९ ॥
न कृतानि पुरा येषामेकोद्दिष्टानि षोडश ॥
तथा नैव वृषोत्सर्गो गोहताश्चाथ चान्त्यजैः ॥ 7.1.221.१० ॥
अथापरे ये च मृताः शौचेन तु विना कृताः ॥
ते चात्र तर्पिताः सर्वे प्रयान्तु परमां गतिम् ॥ ११ ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
स्नात्वा तु सलिले पुण्ये पितृणां चैव तर्पणम् ॥
ये करिष्यंति मनुजाः पितृभक्तिपरायणाः ॥ १२ ॥
अहं वरप्रदस्तेषां तारयिष्यामि तत्क्षणात् ॥
पितृन्सर्वान्न संदेहो यदि पापशतैर्वृताः ॥ १३ ॥
अस्मिंस्तीर्थे नरः स्नात्वा यो लिंगं पूजयिष्यति ॥
युष्माभिः स्थापितं लिंगं स मुक्तः पैतृकादृणात् ॥ १४॥
यस्मादृणात्प्रमुच्येत अस्य लिंगस्य दर्शनात् ॥
तस्मान्मया कृतं नाम ह्येतस्य ऋणमोचनम् ॥ । १५ ॥
॥ ईश्वर उवाच ॥ ॥
हिरण्यं मस्तके दत्त्वा यः स्नाति ऋणमोचने ॥
आत्मा वै तारितस्तेन दत्तं भवति गोशतम् ॥ १६ ॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥
तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥
पूजयेत्तन्महादेवि पितृलिंगं सुरप्रियम् ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋणमोचनमाहात्म्यवर्णनंनामैकविंशत्युत्तरद्विशततमो ऽध्यायः ॥ २२१ ॥