स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २३०

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं गणपतिप्रियम् ॥
तत्रैव संस्थितं सम्यङ्मया तत्र नियोजितः ॥ १ ॥
गङ्गाया दक्षिणे देवि क्षेत्ररक्षणतत्परः ॥
माघे कृष्णचतुर्दश्यां यस्तं पूजयते नरः ॥ २ ॥
दिव्यमोदकनैवेद्यैः पुष्पधूपादिभिः क्रमात् ॥
न तस्य जायते विघ्नं यावत्क्षेत्रे वसत्यसौ ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणपतिमाहात्म्यवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३० ॥ ॥