स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २३३

॥ ईश्वर उवाच ॥ ॥
तत्रैव पूजयेद्देवि पंच लिंगानि भावितः ॥
प्रतिष्ठितानि देवेशि पांडवैश्च महात्मभिः ॥ १ ॥
यस्तान्पूजयते भक्त्या स मुक्तः पातकैर्भवेत् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पांडवेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३३ ॥