स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २३५

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येल्लिंगत्रयमनुत्तमम् ॥
शतमेधं सहस्रमेधं कोटिमेधमिति क्रमात् ॥ १ ॥
दक्षिणे शतमेधं तु शतयज्ञफलप्रदम् ॥
कार्तवीर्य्येण तत्रैव कृतं यज्ञशतं पुरा ॥ २ ॥
प्रतिष्ठाप्य महालिंगं सर्वपातकनाशनम् ॥
मध्यभागेऽत्र यल्लिंगं कोटिमेधेति विश्रुतम् ॥ ३ ॥
तत्रेष्टा ब्रह्मणा पूर्वं कोटि संख्या मखोत्तमाः ॥
संस्थाप्य तु महादेवं शंकरं लोकशंकरम ॥ ४ ॥
तस्य उत्तरभागस्थं सहस्रक्रतुसंज्ञकम् ॥
शक्रश्च देवराजोऽपि सहस्रं यष्टवान्क्रतून् ॥ ५ ॥
प्रतिष्ठाप्य महालिंगं देवानामादिदैवतम् ॥
गंधपुष्पादिविधिना पंचामृतरसोदकैः ॥ ६ ॥
स प्राप्नुयात्फलं देवि लिंगनामोद्भवं क्रमात् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥७॥
दशलक्षाणि तीर्थानां तत्र तिष्ठंति भामिनि ॥
लिंगत्रयं तथा मध्ये सर्वपातकनाशनम् ॥ ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्ये शतमेधादि लिंगत्रयमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३५ ॥