स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २४०

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि बलभद्रं सुरेश्वरम् ॥
सुभद्रां च तथा कृष्णं सर्वपातकनाशनम् ॥ १ ॥
पूर्व कल्पे महादेवि देहमत्रात्यजद्धरिः ॥
अस्मिन्कल्पेपि च पुनर्गात्रोत्सर्गमिति स्मृतम् ॥ २ ॥
तत्र ये पूजयिष्यंति नागरादित्यसंनिधौ ॥
बलभद्रं सुभद्रां च कृष्णं ते स्वर्गगामिनः ॥३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलभद्र सुभद्रा कृष्ण माहात्म्यवर्णनंनाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४० ॥