स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २४२

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यत्र देवीकुमारिका ॥
तस्यैव पूर्वदिग्भागे स्थिता रक्षार्थमेव हि ॥ १ ॥
पुरा रथंतरे कल्पे रुरुर्नाम महासुरः ॥
उत्पन्नः स महाकायः सर्वलोकभयावहः ॥ २ ॥
तेन देवाः सगन्धर्वास्त्रासितास्त्रिदशा लयात् ॥
तस्य भीत्या ततः सर्वे ब्रह्मलोकमधिस्थिताः ॥ ३ ॥
तथा भूमितले विप्रान्यज्वनोऽथ तपस्विनः ॥
निजघान स दुष्टात्मा ये चान्ये धर्मचारिणः ॥ ४ ॥
निःस्वाध्यायवषट्कारं तदाऽऽसीद्धरणीतलम्॥
नष्टयज्ञोत्सवं सर्वं रुरोर्भयनिपीडितम्॥ ५ ॥
ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः ॥
समेत्यामंत्रयन्मंत्रं वधार्थं तस्य दुर्मतेः ॥ ६ ॥
ततः कायोद्भवः स्वेदः सर्वेषां समजायत ॥
तेषां चिंतयतां देवि निरोधाज्जगृहुश्च तम् ॥ ॥७॥
तत्र कन्या समुत्पन्ना दिव्या कमललोचना ॥
व्यापयंती दिशः सर्वाः सर्वेषां पुरतः स्थिता ॥८॥
सर्वान्देवांस्ततः प्राह किमर्थं निर्मितास्म्य हम् ॥
तद्वः कार्यं करिष्यामि श्रुत्वा तस्यास्तदा गिरम्॥ ९ ॥
आचख्युः संकटं तस्यास्ते देवा रुरुचेष्टितम् ॥
श्रुत्वा जहास सा देवी देवानां कार्य सिद्धये ॥ 7.1.242.१० ॥
तस्या हसंत्या निश्चेरुर्वरांगाः कन्यकाः पुनः ॥
पाशांकुशधराः सर्वाः पीनश्रोणिपयोधराः ॥ ११ ॥
फेत्कारारावमात्रेण त्रास यंत्यश्चराचरम् ॥
अन्वगात्सा रुरुर्यत्र ताभिः सार्द्धं यशस्विनी ॥ १२ ॥
अथाभूत्तुमुलं तासां युद्धं घोरं तु तैः सह ॥
शस्त्रास्त्रैर्विविधैर्घोरैः शत्रुपक्ष क्षयंकरैः ॥ १३ ॥
ताभिस्तदनुगाः सर्वे प्रहारैर्जर्जरीकृताः॥
पराङ्मुखाः क्षणेनैव जाताः केचिन्निपातिताः ॥ १४ ॥
ततो हतं बलं दृष्ट्वा रुरुर्मायामथाऽसृजत् ॥
तामसींनाम देवेशि तयामुह्यत नैव सा ॥ १५ ॥
तमोभूते ततस्तत्र देवी दैत्यं तदा रुरुम् ॥
शक्त्या बिभेद हृदये ततो मूर्छां जगाम ह ॥ १६ ॥
मुहूर्त्ताल्लब्धसंज्ञोऽथ ज्ञात्वा तस्याः पराक्रमम् ॥
पलायनकृतोत्साहः समुद्राभिमुखो ययौ ॥ १७ ॥
साऽपि देवी जगामाथ पृष्ठतोऽस्य दुरात्मनः ॥
स्तूयमाना सुरगणैः किंनरैः समहोरगैः ॥ १८ ॥
ततः प्रविश्य जलधिं तं दृष्ट्वा दानवं रुषा ॥
खङ्गाग्रेण शिरश्छित्त्वा चर्ममुण्डधरा ततः ॥ १९ ॥
निश्चक्राम पुनस्तस्मात्प्रभासं क्षेत्रमागता ॥
कन्या सैन्येन संयुक्ता बहुरूपेण भास्वता ॥ 7.1.242.२० ॥
देवैः सुविस्मितैर्दृष्टा चर्ममुण्डधरा वरा ॥
ततो देवाः स्तुतिं चक्रुः कृतांजलिपुटाः स्थिताः ॥ २१ ॥
॥ देवा ऊचुः ॥ ॥
जय त्वं देवि चामुंडे जय भूतापहारिणि ॥
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ २२ ॥
भीमरूपे शिवे विद्ये महामाये महोदये ॥
महाभागे जये जृम्भे भीमाक्षि भीमदर्शने ॥ २३ ॥
महामाये विचित्रांगि गेयनृत्यप्रिये शुभे ॥
विकरालि महाकालि कालिके कालरूपिणि ॥ २४ ॥
प्रासहस्ते दण्डहस्ते भीमहस्ते भयानने ॥
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ॥
शवयानस्थिते देवि प्रेतसंघनिषेविते ॥ २५ ॥
एवं स्तुता तदा देवी सर्वैः शक्रपुरोगमैः ॥
प्रहृष्टवदना भूत्वा वाक्यमेतदुवाच ह ॥ २६ ॥
वरं वृणुध्वं भद्रं वो नित्यं यन्मनसि स्थितम् ॥
अहं दास्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम् ॥ २७ ॥
॥ देवा ऊचुः ॥ ॥
कृतकृत्यास्त्वया भद्रे दानवस्य निषूदनात् ॥ २८ ॥
स्तोत्रेणानेन यो देवि त्वां वै स्तौति वरानने ॥
तस्य त्वं वरदा देवि भव सर्वगता सती ॥ २९ ॥
यश्चेदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ॥
सर्वपापविनिर्मुक्तः स प्राप्नोतु परां गतिम् ॥ 7.1.242.३० ॥
अस्मिन्क्षेत्रे त्वया देवि स्थितिः कार्या सदा शुभे ॥ ३१ ॥
अत्र त्वां पूजयेद्यस्तु शुक्लपक्षे समाहितः ॥
नवम्यामाश्विने मासि तस्य कार्यं सदा शुभम्॥ ३२ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्ता महादेवी तत्रैव निरताऽभवत् ॥
देवास्त्रिविष्टपं जग्मुः प्रहृष्टा हतशत्रवः ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारीमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४२॥ ॥