स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २४४

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विचित्रेश्वरमुत्तमम् ॥
हिरण्यातीरनिलयं महापातकनाशनम् ॥ १ ॥
विचित्रेण महादेवि लेखकेन यमस्य च ॥
तपः कृत्वा महारौद्रं लिंगं तत्र प्रतिष्ठितम्॥ २ ॥
तं दृष्ट्वा मानवो देवि यमलोकं न पश्यति ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये विचित्रेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४४ ॥