स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २४८
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पूर्वोक्तं ब्रह्मपूजितम् ॥
सरस्वत्यास्तटे संस्थं पर्णादित्यस्य पश्चिमे ॥ १ ॥
तस्योत्पत्तिं प्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ॥
सृजतो ब्रह्मणः पूर्वं भूतग्रामं चतुर्विधम् ॥ २ ॥
उत्पन्नाद्भुतरूपाढ्या नारी कमललोचना ॥
कंबुग्रीवा सुकेशांता बिंबोष्ठी तनुमध्यमा ॥ ३ ॥
गंभीरनाभिः सुश्रोणी पीनश्रोणिपयोधरा ॥
पूर्णचन्द्रमुखी सा तु गूढगुल्फा सितानना ॥ ४ ॥
न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥
यादृग्रूपा वरारोहा तादृशी सा व्यजायत ॥ ५ ॥
तां दृष्ट्वा रूपसंपन्नां ब्रह्मा कामवशोऽभवत् ॥
अथ तां प्रार्थयामास रत्यर्थं वरवर्णिनि ॥ ६ ॥
अथ प्रार्थयतस्तस्य न्यपतत्पंचमं शिरः ॥
खररूपं महादेवि तेन पापेन तत्क्षणात्॥ ७ ॥
ततो ज्ञात्वा महत्पापं दुहितुः कामसंभवम् ॥
घृणया परया युक्तः प्रभासं क्षेत्रमागतः ॥ ८ ॥
न कायस्य यतः शुद्धिर्विना तीर्थावगाहनात् ॥
स स्नातः सलिले पुण्ये सरस्वत्या वरानने ॥ ९ ॥
लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥
ततो विकल्मषो भूत्वा जगाम स्वगृहं पुनः ॥ 7.1.248.१० ॥
स्नात्वा सारस्वते तोये यस्तल्लिंगं प्रपश्यति ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ११ ॥
चैत्रे शुक्लचतुर्दश्यां यस्तं पश्यति मानवः ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनामाष्टचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४८ ॥