स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २५७

॥ ईश्वर उवाच ॥ ॥
[१]ततो गच्छेन्महादेवि त्रितकूपमिति स्मृतम्॥
नंदादित्यस्य पूर्वेण योजनत्रितयेन तु ॥ १ ॥
पुरा बभूव राजेन्द्रः सौराष्ट्रविषये सुधीः ॥
आत्रेय इति विख्यातो वेदवेदांगपारगः ॥२॥
तस्य पुत्रत्रयं जज्ञ ऋतुकालाभिगामिनः ॥
एकतश्चद्वितश्चैव त्रितश्चैवेति भामिनि ॥३॥
त्रितस्तेषां कनिष्ठोऽभूद्वेदवेदांगपारगः ॥
सर्वैरेव गुणैर्युक्तो मूर्खो ज्येष्ठौ बभूवतुः ॥ ४ ॥
कस्यचित्त्वथकालस्य आत्रेयो द्विज सत्तमः ॥
तपः कृत्वा तु विपुलं कालधर्ममुपेयिवान्॥ ५ ॥
ततस्तेषां त्रितो राजा बभूव गुणवत्तरः ॥
धुरमाकर्षयामास पुत्रोऽयं तस्य या पुरा ॥ ६॥
तस्य बुद्धिः समुत्पन्ना कथं यज्ञं करोम्यहम् ॥
सन्निमंत्र्य द्विजश्रेष्ठान्यज्ञकर्मस्वधिष्ठितान् ॥ ७ ॥
इन्द्रादींश्च सुरान्सर्वानावाह्य विधिपूर्वकम् ॥
दक्षिणार्थं द्विजेन्द्राणां प्रभासं स जगाम ह ॥
गृहीत्वा भ्रातरौ ज्येष्ठौ गवार्थं प्रस्थितो द्विजः ॥ ८ ॥
यस्य यस्य गृहे याति स त्रितो वेदपारगः ॥
तत्र तत्र वरां पूजां लेभे गाश्चैव पुष्कलाः ॥ ९ ॥
एवं स गोधनं प्राप्य भ्रातृभ्यां सहितस्तदा ॥
गृहाय प्रस्थितो देवि निर्वृतिं परमां गतः ॥ 7.1.257.१० ॥
त्रितस्ताभ्यां पुरो याति पृष्ठतो भ्रातरौ च तौ ॥
गोधनं चालयंतस्ते प्रभासं क्षेत्रमागताः ॥ ११ ॥
अथ तद्गोधनं दृष्ट्वा भूरि दानार्थमाहृतम् ॥
भ्रातृभ्यां त्रितये चेति पापा मतिरजायत ॥ १२ ॥
परस्परमूचतुस्तौ भ्रातरौ दुष्टचेतसौ ॥
त्रितो यज्ञेषु कुशलो वेदेषु कुशलस्तथा॥ १३ ॥
मान्यः पूज्यश्च सर्वत्र आवां मूर्खौ निरर्थकौ ॥
एतद्धि गोधनं सर्वं त्रितो दास्यति सन्मखे ॥ १४ ॥
अस्माकं पितृपर्यातो यदाप्तं तत्समं भवेत्॥
तस्मादत्रैव युक्तोऽस्य वधो वै त्रितयज्ञिनः ॥ १५ ॥
एवं तौ निश्चयं कृत्वा प्रस्थितौ भ्रातरावुभौ ॥
त्रितस्तु पुरतो याति निर्विकल्प ऋजुः सुधीः ॥१६॥
अनु तत्र समुत्तस्थौ व्याघ्रो रौद्रतराकृतिः ॥
व्यादितास्यो रवं देवि व्यनद्भैरवं ततः ॥ १७ ॥
तस्य शब्देन ता गावो नष्टा जग्मुर्दिशो दश ॥
अन्धकूपो महांस्तत्र प्रदेशे दारुणोऽभवत् ॥ १८ ॥
एकतो दारुणो व्याघ्रः कूपोऽन्यत्र सुदारुणः ॥
दृष्ट्वा ते भ्रातरः सर्वे भयोद्विग्नाः प्रदुद्रुवुः॥१९ ॥
अथ ते विषमं प्राप्य तटं कूपस्य भामिनि ॥
स्थिता यावद्गतो व्याघ्रस्ततो गंतुं मनो दधुः ॥ 7.1.257.२० ॥
अथ ताभ्यां त्रितो देवि भ्रातृभ्यां नृपसत्तम ॥
प्रक्षिप्तो दारुणे कूपे जीर्णे तोयविवर्जिते ॥ २१ ॥
ततस्तद्गोधनं गृह्य प्रस्थितौ हृष्टमानसौ ॥
त्रितस्तु पतितस्तत्र कूपे जलविवर्जिते ॥ २२ ॥
चिन्तयामास मेधावी नाहं शोचामि जीवितुम् ॥
मयाहूता द्विजश्रेष्ठा यज्ञार्थं वेदपारगाः ॥
इन्द्राद्याश्च सुराः सर्वे स क्रतुः स्यान्न मे त्वतः ॥ २३ ॥
स एवं चिन्तयामास वेदवेदांगपारगः ॥
मानसं यज्ञमारभ्य तत्रैव वरवर्णिनि ॥ २४ ॥
स्वयमेव स सूक्तानि प्रोक्त्वा प्रोक्त्वा द्विजोत्तमः ॥
कृतवान्बालुकाहोमं तेन तुष्टाश्च देवताः ॥ २५ ॥
श्रद्धां तस्य विदित्वा तु भूयस्तृप्तास्तु देवताः ॥
आगत्य ब्राह्मणं प्रोचुः कूपमध्ये व्यवस्थितम् ॥ ॥ २६ ॥
॥ देवा ऊचुः ॥ ॥
भोभो विप्र त्वया नूनं सर्वे संतर्पिता वयम् ॥
मानसेन तु यज्ञेन तस्माद्ब्रूहि मनोगतम् ॥ २७ ॥
॥ ब्राह्मण उवाच ॥ ॥
यदि देवाः प्रसन्ना मे कूपान्निष्कमणे त्वहम् ॥
यष्टा स्वं मंदिरं गत्वा देवयज्ञं करोम्यहम्॥ २८ ॥
॥ ईश्वर उवाच ॥
अथ देवैः समादिष्टा तस्मिन्कूपे सरस्वती ॥
निर्गत्य वसुधां भित्त्वा पूरयामास वारिणा ॥ २९ ॥
अथ निष्क्रम्य विप्रोऽसौ यातः स्वभवनं प्रति ॥
ततः प्रभृति देवेशि त्रितकूपः स उच्यते ॥ 7.1.257.३० ॥
स्नात्वा तत्र शुचिर्भूत्वा त्वथ संतर्पयेत्पितॄन् ॥
अश्वमेधमवाप्नोति सर्वपापविवर्जितः ॥ ३१ ॥
तिल दानं तु देवेशि तत्र शस्तं सकाञ्चनम् ॥
पितॄणां वल्लभं तीर्थं नित्यं चैव तु भामिनि ॥ ३२ ॥
अग्निष्वात्ता बर्हिषद आयंतुन इति स्मृताः ॥
ये दिव्याः पितरो देवि तेषां सांनिध्यमत्र हि ॥ ३३ ॥
दर्शनादपि तीर्थस्य तस्य वै सुरसत्तमे ॥
मुच्यन्ते प्राणिनः पापादाजन्ममरणांतिकात् ॥ ॥ ३४ ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
प्रभासं क्षेत्रमासाद्य यदीच्छेच्छ्रेय आत्मनः ॥ ३५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रितकूपमाहात्म्यवर्णनंनाम सप्तपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५७॥

  1. द्र. ऋ. १.१०५